SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ५४० व्यवहारकाण्डम् साक्ष्यादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्व रजता पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः । पूर्वं भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व मया विस्मृतइति निवेद्यमानो, न ग्राह्यो न दापयितव्यो नृपेण । एतच्च न केवलं वाचनिकमेकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्या वादित्वसंभवात् । अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्तरेऽपि सत्यवादित्वसंभवात् । एवं तर्कापर - नामसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचना त्सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनां न दोषः । तथा च गौतमो - 'न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्युपेत्य यथास्थानं गमयेत्' इत्युक्त्वा 'तस्माद्राजाचार्याव निन्द्यावित्युपसंहरति । चैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । एकदेशविभावितो नृपेण सर्व दाप्य इति वचनात् । यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ' ॥ इति तत्पुत्रादृणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन्निह्नववादी न भवतीत्येक देशविभावितोऽपि न क्वचिदसत्यवादीति 'निह्नुते लिखितं नैकमि'ति शास्त्रं तत्र न प्रवर्तते । निह्नवाभावादपेक्षिततर्काभावाच्च 'अनेकार्थाभियोगेऽपीति कात्यायनवचनं सामान्यविषयम् । विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याऽज्ञानोत्तरे प्रवर्तते । ननु, 'ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाऽप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ इति वदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्धयती त्युक्तम् । तथा सत्येकदेशे भाविते अभावितैकदेश सिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेकदेशाभिधानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणान्तरस्याव - सरोऽस्त्येव । छलं निरस्येति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव । तावतैव साहसादेः सिद्धत्वात् कात्यायनवचनाच्च -- 'साध्यार्थाशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ' ॥ इति । *मिता. (३) भूतोऽप्यर्थश्छल व्यवहारेण यथा हीयते तथा दर्शयति – निह्नवे इति । एतत्तु वचनमपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् । यथैतेषामर्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानहं दधामीति । कुत एतत् । छलोदाहरणपरत्वादस्य वाक्यस्य । अन्यथा - ' अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥ इति कात्यायनवचनविरोधः स्यात् । तत्र च साक्षिसाधितावशिष्टमर्थं साधयितुं प्रमाणान्तरमर्थिनोपादेयम् । यत्तु नारदेनोक्तम् – 'अनेकार्थाभियुक्तेन सर्वार्थव्यपला- ' पिना | विभावितैकदेशेन देयं यदभियुज्यते ॥ इति, तदपि सावष्टम्भमिथ्योत्तरविषयम् । X अप. (४) एतदुक्तं भवति 'छलं निरस्य भूतेन व्यव-: हारान्नयेन्नृपः । इत्युक्तमेवंविधविषये नृपेणादर्तव्यं, दुष्टाशयत्वस्यात्र सिद्धत्वात् इति । न च वाच्यं छलानुसारित्वात्सर्वदापनमपि नृपेणादरणीयमिति । यदाह कात्यायनः -–-‘सर्वापलापं यः कृत्वा मिथोऽल्पमपि संवदेत् । सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥ आदरार्थ बृहस्पतिग्रहणम् । नारदोऽपि सर्वदापनमादर्तव्यमिति दर्शयितुमभियुक्त देयत्वमाह – 'अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना । विभावितैकदेशेन देयं यदभियुज्यते ' ॥ ननु प्राचीनवचनानां प्रागुक्तार्थाभिधाने धर्मनिर्णयार्थता न स्याच्छलानुसारेण तेषां व्यवहारनिर्णयाभिधायकत्वात् । सत्यम् ; तथापि न दोषः । प्रागुक्तविषये व्यवहारनिर्णयस्य धर्मनिर्णयबाधकत्वात् । अत एव बृहस्पतिः -- ( केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनापि हीयते' इति ॥ यत्र प्रागुक्तविषयादावित्यर्थः । यत्तु कात्यायनेनोक्तम् -' अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम्' इति ॥ * व्यनि., विता, सेतु. मितागतम् । व्यक., पमा, व्यत. " वाक्यार्थों मितावत् । X वाक्यार्थो मितावत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy