________________
निर्णयकृत्यम्
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ (१) यदा तु प्रत्यवस्कन्दनमनेन मार्गेण पुनः पूर्वकुर्यात् तदा कथम् ? मैवम् एवमौत्तराधर्यकरणे सत्यव्यवस्थैव स्यात् । का तर्हि गतिः १ अभ्यचिकपणोपन्यासेन यदि (१) परं व्यवहारपरावृत्तिः । अन्यथाऽनवस्थैव स्यात् । ततश्च -सपण इति । दण्डस्वपणौ राज्ञे देयौ । स्ववतः पणः स्वपणः, यो धनिना व्यवहारं परावर्तयितुं पणः कृत इत्यर्थः । धनं तु धनिन एव राजा दापयेत् । चशब्दो धिग्दण्डादिसमुच्चयार्थः । एवं तावत् साक्षिसङ्करे नियम उक्तः । ललाटस्वेदादिलिङ्गसङ्करे कथम् ? तत्राप्यनुमानमूलत्वालैङ्गिकादिस्मृतीनां सम्यगनुमान निरूपणाधीन एव व्यवहारनिर्णयः । विश्व. २।१८ (२) अपि च । यदि विवादो व्यवहारः । सपणः पणनं पणस्तेन सह वर्तते इति सपणः स्यात्तदा । तत्र तस्मिन्सपणे व्यवहारे । हीनं पराजितं पूर्वोक्तम् । दण्डं स्वकृतं च पणं राज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपावेशवशाद्यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते, अन्यस्तु न किञ्चित्प्रतिजनीते, तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो दण्डं दाप्यः न पणम् । स्वपणं चेति विशेषोपादानात् । यत्र त्वेकः शतं, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ । 'सपणश्चेद्विवादः स्यात्' इति वदता पणरहितोऽपि विवादो दर्शित इति । मिता. (३) पणं राज्ञे, साधितं च धनं धनिने प्राड्विवाको दापयेत् । प्राड्विवाकाभावे राजा स्वयमेव गृह्णीयात्, जितेन मयैतावद्देयमित्यभ्युपेतं धनं पणः ।
*अप.
* शेषं मितावत् ।
१० पू. : १२३; पमा. २०४ तत्र (राजा) च स्व (तस्य); स्मृसा. १२१ ( = ) तु (प्र); व्यचि . ५९-६०, ९७ तु (प्र) स्व (स); दवि. ३५२ तु (प्र); सवि. ४९० सप (अप) ; व्यसौ. ९२१ वीमि व्यप्र. ९२; विता. १०३; २।२५ ( = ) पू.; प्रका. ६; समु.६७.
बाल.
५३९
(४) एकदेशविभावनयापि मया सर्व देयमित्यादिर्यत्र पण इत्यर्थः । व्यचि. ६० (५) तुशब्देनापणविवादे पणदानव्यवच्छेदः । एवकारेण प्रथमेन स्वानभ्युपगतपरोक्तपणदानव्यवच्छेदः । द्वितीयेन च धनिन एवेत्यन्वितेन धनविषयक विवादातिरिक्ते वाक्पारुष्यादौ धनदानव्यवच्छेदः । प्रथमचकारौ दण्डपणयोरदेययोर्निष्पादनसमुच्चयार्थौ । चरमचकारस्त्रयाणां दण्डादीनां मिलितानां दानबोधनार्थः । श्रवीमि. एकदेशविभावितविचारः
'निहुते लिखितं नैकमेकदेशे विभावितः । दाप्यः सर्व नृपेणार्थ न ग्राह्यस्त्वनिवेदितः + ॥
(१) यदि त्वनेकार्थेऽमियुक्तः सर्वमादौ नेत्युक्त्वा पुनः किञ्चित् कथञ्चित् अभ्युपगच्छेत् तत्र तन्मात्रमेव किमसौ दाप्यः ? नेत्युच्यते -- निह्नुते इति । अनेकार्थापलापकत्वेन लिखितो राज्ञे कथितो यदि निह्नुते, पुनश्चैकदेशे स विभाव्यते, ततो दाप्यः सर्वान् सदण्डकानर्थान् । यदि तु न लिखितः, तदैवंभूतोऽप्यदण्ड्यः । यद्वा, 'न ग्राह्यस्त्वनिवेदित' इत्यस्यान्या व्याख्या -- धनिने राज्ञा सर्वमर्थं दाप्यः, न तु दण्ड्यः । तदनभिप्रेतोऽपीत्यर्थः । विश्व. २।२० (२) 'भूतमप्यनुपन्यस्तं हीयते व्यवहारतः' इत्यत्रोदाहरणमाह - - निह्नुते इति । नैकमनेकं सुवर्णरजतवस्त्रादि । लिखितममियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव निह्नुते अपजानीते तदाऽर्थिनैकदेशे हिरण्ये * शेषं मितावत् । + व्यमा व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् ।
(१) यास्मृ.२।२०; अपु.२५३।४८-४९ तं नै ( ताने) शे (श) वित: (वितम् ) र्व (र्वो) थं (थ); विश्व. २।२० तं नै (तोऽने) शे (श) वै. (र्वान् ) थं (र्थान्); मिता.; व्यमा. ३१० तं नै (ताने) शे (श) व (र्वान् ) नृपेणार्थं (रूपणार्थान् ); अप. हुते (ह्ववे) तं नै (तेऽने) शे (श); व्यक. १०१; स्मृच. १२० शे (श);पमा २०२ स्मृचवत् ; व्यचि. ९७ विश्ववत् क्रमेण नारदः; व्यनि. हुते (ह्नवे) शे (श); व्यत. २१६-२१७ तं नै (ताने) वं (र्वान् )र्थ (र्थान् ); चन्द्र. १२७ लिखितं (निखिलं ) : (सं) दित: (दितम् ); व्यसौ. ३७ : ९२ स्मृचवत् ; वीमि व्यप्र. ९८ शे (श) र्थं (र्थो); विता. १०७ (= ) स्मृचवत्; सेतु. १०० व्यतवत्; प्रका. ७६ शे (श) दित: (दितम् ); समु. ६६ स्मृचवत्.