________________
५३८
व्यवहारकाण्डम्
पराजितदण्डादिविचारः
'निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥
(१) यदा तु न्यायेनान्यतरः कार्य पराजितः, तदा निह्नवे इति । निह्नवोऽपलापः तत्र स्पष्टीकृते यावद् धना प्रार्थितं तावद्देयम् । राज्ञे च तत्तुल्यमन्यत् । यदा तु मिथ्यैवाभियुङ्क्ते, तदाभियोक्त्रा प्रार्थिताद् द्विगुणं राज्ञ एव धनं देयमित्यर्थः । विश्व. २।११ (२) अर्थिप्रत्यर्थिनोर्निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर्ग्राह्य इत्युक्तम् । किं तन्निर्णयकार्ये यस्मिन्प्रतिभूगृह्यत इत्यपेक्षित आह-- निह्नवे इति ।
अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनाऽपह्नवे कृते यदाऽर्थिना साक्ष्यादिभिर्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने, राज्ञे च तत्सममपलापदण्डम् । अथार्थी भावयितुं न शक्नोति, तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद्विगुणं धनं दद्याद्राज्ञे । प्राङ्न्याये प्रत्यवस्कन्दने चेदमेव योजनीयम् । तत्राप्यर्थ्यपह्नववादी प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्याभियोगीति राज्ञे द्विगुणं धनं दद्यात् । आर्थिने च प्रकृतं धनम् । संप्रतिपत्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पदान्तरेषु तत्र तत्र दण्डाभिधानादधनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयत्वम् । 'राज्ञाऽधमर्णिको दाप्य' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वा एतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथं अभियोगस्य निह्नवे Sभियुक्तेन कृते यद्यभियोक्त्रा साक्ष्यादिभिर्भावितोऽभि
(१) यास्मृ. २।११; अपु. २५३।४०-४१ गी (गात्) वहे (हरे); विश्व. २।११; मिता; अप व्यक. १२८ हवे (हुते) द्धनं (द्धृतं); स्मृच. १२२; फ्मा. २०१; सुबो. २।२६ पू.; व्यचि . ९६ वहे (हरे); विचि. ३५ तो (तं) गी (गं) वह (हरे); व्यनि. व्यचिवत्, नारदः दवि. ३५० व्यचिवत् ; नृप्र. १७ उत्त, स्मरणम् ; चन्द्र. १६७-१६८ व्यचिवत् ; व्यसौ. ९२; वीमि ; व्यप्र. २७९; विता. ९६:४९९ ( =) पू. सेतु. ३८, ३१७ व्यचिवत्; प्रका. ७७ ६ (बु.); समु. ६७; विव्य. ३१ अपुवत्.
युक्तस्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव । चशब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः । अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योज - नीयम् । #मिता. (३) एतच्च सपणव्यवहारविषयम् । अस्ति च पणरहितोऽपि व्यवहारः । (४) आशयदोषव्यतिरिक्ते तु दारिद्यविस्मरणादिनाऽपह्नवविषये दण्डनं च शक्तित इत्यवगन्तव्यम् ।
+ अप.
व्यक. १०१
(५) तदुद्वृत्ताधमर्णस्योक्त ( द्विगुण) दण्डपर्याप्तधनासंभवविषये वेदितव्यम् । अन्यथा पूर्वोक्त विष्णुमनु:. (मस्मृ. ८।१७६) वचनविरोधस्य दुर्वारत्वात् । मिथ्याभियोगिनस्त्व पर्याप्तधनस्याऽपि न तत्समो दण्डः । यदाह स एव -- 'मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत्' इति । अभियोगादभियुक्तधनाद्विगुणं धनं वहेत्, राज्ञे दद्यादित्यर्थः । तावद्धनाभावे तु 'आनृण्यं कर्मणा गच्छेत्' इत्याद्यनुकल्पोऽवगन्तव्यः । यत्तु नारदेनोतम् -- ' न च मिथ्याऽभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ' ॥ इति तत्प्रतिपदोक्तदण्डाभावविषयं सामान्यशास्त्रत्वात् । तेन निह्नवेऽसद्वृत्तस्य यो दण्डोऽभिहितो विष्णुना स. एव सद्वृत्तस्य मिथ्याभियोगिनो भवतीत्यवगन्तव्यम् ।
+ स्मृच. १२२.
चन्द्र. १६७
(६) भङ्गिनो भ्रमेणान्यथावादे समो दण्डः । ज्ञात्वानिह्नवे द्विगुणः । (७) चकारेण वाक्पारुष्यादौ दण्डान्तरं समुच्चिनोति । ! Xवीमि.
सोत्तर पराजितदण्ड: पण चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
* प्रथमकल्पः विश्ववत् । विता. मितागतम् । ÷ वाक्यार्थो विश्ववत् । + पमा. स्मृचवत् । X वाक्यार्थो विश्ववत् ।
(१) यास्मृ. २।१८; अपु. २५३।४६-४७ च स्वपणं (प्रण वसुं); विश्व. २।१८६ मिता अप व्यक. १०१ स्मूच