SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् ५२८ शास्त्रपरिभाषया तत्र वृद्धव्यवहारो गवादिशब्दवदित्यत आह-लोकसंव्यवहारार्थम् । अर्थशब्दो विषयवचनस्तेन व्यवहारप्रसिद्धिराश्रिता भवति । ततश्च गवादिशब्दतुल्यतया व्यवहारः प्रसिद्धः । किं शास्त्रोपदेशेन ? उच्यते — नियमार्थ उपदेशोऽन्येषामपि परिमेयानामय-स्कांस्यसुवर्णादीनामेताः संज्ञाः सन्ति । तन्निवृत्यर्थः कचिद्देशे परिमाणे भेदोऽप्यस्ति । तन्निवृत्यर्थश्च क्वचित् संबन्धतया नियम्यते । तथा च । क्वचिदष्टाचत्वारिंशता भाषबन्धं क्वचिच्चतुःषष्ट्या क्वचित् साष्टेन शतेन तदेतत्सर्वे नियम्यते । अथ चैवं संबन्धः क्रियते । याः संज्ञा भुवि • प्रथितास्ता लोकसंव्यवहारार्थं वक्ष्यामि । सर्वस्य लोकस्यामिरेव संव्यवहारो यथा स्यात् । दण्डादिनियोगस्याप्यन्यथाऽप्रसिद्धिः । मेधा. (२) ताम्ररूप्यसुवर्णानां पणादिसंज्ञा क्रयविक्रयलोकव्यवहारार्थं पृथिव्यां विशेषेणाभिधास्याम्युपयोगार्थ दण्डादेः । +गोरा. (३) संव्यवहारार्थ दृष्टादृष्टव्यवहारसिद्ध्यर्थम् । मवि. : (४) दण्डदिव्यशास्त्रार्थव्यामोहापनुत्तये ताम्रादिद्रव्याणां परिमाण निबन्धनाः संज्ञाः प्रदर्श्यन्त इत्यर्थः । स्मृच. ९८ मच, (५) संज्ञा धर्मशास्त्रपरिभाषाः । (६) अत्र ताम्ररूप्यसुवर्णानामिति ताम्ररूप्ययोरल्पत्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः । व्यप्र. १७६ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ (१) इमं श्लोकं केचिन्नाधीयते त्रसरेणौ विप्रतिपत्या । तावद्गवाक्षकुचिकाविवरप्रविष्टे सूर्ये यो रेणुर्दृश्यते स त्रसरेणुः । अन्तरशब्दो विवरपर्यायः । प्रथमं तत्प्रमाणामेधा. नामिति । (२) गवाक्षविवरप्रविष्टसूर्यरश्मिषु यत्सूक्ष्मं रजो दृश्यते तद्दृश्यमानपरिमाणानां प्रथमं त्रसरेणुं वदन्ति । (१) ततः उपचितपरिमाणाः । न पुनरयं लिक्षाशब्दः स्वेदजक्षुद्रजन्तुवचनः । तास्तिस्रो लिक्षा एको राजसर्षपाख्यपरिमाणपदार्थ एवं योजनीयम् । ततश्च व्यभिचार-: | यन्ति न यथोक्तपरिमाणार्थमेते शब्दा वर्तन्त इति । । यथा चोपक्रान्तसंज्ञाः प्रवक्ष्यामि परिमाणमिति । त्रसरेणुश्वार्थी नियतपरिमाणस्तेनैतत्सर्वं निश्चयम् । शक्नुवन्ति च निपुणास्त्रसरेणून् संहर्तुमिति नानारभ्यार्थोपदेशः । एतत्स्वर्णकाराभिमानसंख्यास्मृतिरूपं निर्वाधं भवति । तत एव वस्तु निपुणतोऽशेषतोऽवधारयितव्यम् । मेधा. (२) लिक्षा यूकाडिम्बम् । राजसर्षपः राजिका । मवि. सर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ।। (१) मध्यमशब्दोऽभ्रान्तिहेतुः परिमाणपरत्वे नात्यन्तमपचितो नातिस्थूलः सर्षपपरिमाण इति मध्यग्रहणमर्थवत् । संज्ञापरत्वे तु न किञ्चिन्मध्यमशब्देन यवशब्दसंज्ञात्वात् । तदसत् । नायं संदर्भों येन प्रत्यवयवं प्रयोजनमुच्यते । पद्यग्रन्थोऽयम् । तत्र संगमनार्थमपि वृत्तानुरोधात्किञ्चिदुच्यते । अस्ति चास्यान्वयः । अन + ममु., नन्द. गोरागतम् । (१) मस्मृ. ८।१३२; व्यक. ७७ जालान्तर (रश्मिमूल) गृहपतिः; स्मृच. ९८१ विर. ६६५; पमा. १५६; स्मृसा. ११६३ व्यचि ८९ क्रमेण बृहस्पतिः; स्मृचि. ३७ यत्सूक्ष्मं . ( यतु सं); दात. ५८०; सवि. २०५ (); उयप्र. १७५१ विता. २७३ णानां (णं तु); राको ४०९; प्रका. ६१; समु. ५१. १ दारात्. ममु. सरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ (१) मस्मृ. ८।१३३; स्मृच. ९८; पमा. १५६; विर. ६६६ क्षै (ख्यै) परि (च प्र) त्रयो (तु द्वे); स्मृचि. ३७ क्षै (ख्यै); सवि. २०५ (); व्यप्र. १७५; विता. २७३ विशेया (ज्ञेया); राकौ. ४० ९; प्रका. ६३; समु. ५१. (२) मस्मृ. ८ | १३४; मभा. १२।१५ तृतीयपादः, स्मृत्य न्तरम् ; स्मृच. ९८:१५९ तृतीयपादः विर. २३५ द्वितीयपाद: : ६६६ र्णस्तु (र्णं तु); पमा. १५६; स्मृसा. ८३ त्रि (द्वि) प्रथमपादं विना स्मृचि. ३७; दवि. २३-२४; दित. ५८१ (=) उत्त.:५९६ चतुर्थपादं विना; सवि. २०५ (=) स्त्रियवं... लम् (स्त्रियवाः कृष्णलाः स्मृताः) र्णस्तु (णं तु); व्यप्र. १७६; विता. २७३ पूर्वार्धे (ते षड्यवो मध्यमस्तु त्रियने त ! कृष्णलम्); राकौ . ४१० यवं त्वेक (यवेन तु); प्रका, ६३१ समु. ५१.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy