SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ४९४ व्यवहारकाण्डम् द्वात्रिंशदङ्गुलान्यष्टौ मण्डलानि कृत्वा तेषु दूषितस्य पदमात्रं मण्डलानि कुर्यात् । अष्टानां द्वयोर्द्वयोः संधावष्टाभिर्मण्डलैश्चतुर्विंशत्यधिकमङ्गुलानां शतद्वयं भूमेः कल्पितं भवति । सप्त संघयः । द्वात्रिंशत् (अङ्गुलानि ) सप्तभिर्गुणिते एतावदङ्गुलप्रमाणं भवति । एवं मण्डलानि कल्पयित्वा कृतोपवासः पूर्वेद्युः शुचिदूषितः । सेवासा जलमाप्लुत्य त्वार्द्रकेशः समाहितः । सप्ताश्वत्थस्य पत्राणि तथा सौत्राणि तन्तवः ( ? ) नाभा. सवासाः स्नात्वार्द्रकेशः अचिरस्नात इत्यर्थः । देवताप्रणामपरः अश्वत्थपत्राणि सप्त हस्ते कृत्वा सूत्रस्य तन्तून् सप्त । नाभा. हुताशतप्तं लोहस्य पञ्चाशत्पलिकं समम् । हस्ताभ्यां पिण्डमादाय व्रजेत् सप्त शनैः शनैः ॥ लोहस्य पञ्चाशत्पलप्रमाणमग्निना तप्तं हुताशन इवातप्समग्निवर्णमित्यर्थः, समं निम्नोन्नतवर्ज पिण्डमुपरि कृत्वा साश्वत्थपर्णसूत्राभ्यां हस्ताभ्यामादाय सप्तसु संधिषु कृतेषु मण्डलेषु पादं निदधदत्वरमाणो गच्छेत् । नाभा. मण्डलमतिक्रान्नाप्यर्वाक् स्थापयेत्पदम् । न पातयेत्ताप्राप्तो यावद्भूः परिकल्पिता । मण्डले पदमनिदधन्नातिक्रामेत् मण्डले पदं निदध्यात् ! यावच्च भूः परिकल्पिता तस्या अन्तमप्राप्तो न लोहं पातयेत् । नाभा. भयात्पातयते यस्तु दग्धो वा न विभाव्यते । पुनस्तं हारयेल्लोहं स्थितिरेवं दृढीकृता ॥ नाभा. भयाद् अन्तरा त्रस्तः पातयेत्, दग्धो वा न दग्धो वेति न निश्चीयते, तं पुनरेतेन प्रकारेण लोहं हारयेत् । एवं स्फुटं भवति । "तीर्त्वानेन विधानेन मण्डलानि कृतानि तु । न दग्धः सर्वथा यस्तु स विशुद्धो भवेदिह ॥ अनेन विधानेन मण्डलान्यतिक्रम्य न दग्धो यः स शुद्धः । नाभा. अनेन विधिना कार्यो हुताशसमयः सदा । (१) नासं. २०।१४. (२) नासं. २०/१५. (३) नासं. २०।१६. (४) नासं. २०११७. (५) नालं. २० १८. (६) नासं. २०११९. त्वमेव सर्वभूतानामन्तरश्चसि नित्यशः ॥ प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । त्वमेव देव ! जानीषे न विदुर्यानि मानवाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ नाभा. त्वमग्ने सर्वभूतानामिति मन्त्रमुक्त्वा यथोक्तेन विधानेन लोहं हस्ते दद्यात् । गतार्थो मन्त्रः । कात्यायनः प्रैस्खलत्यभियुक्तश्चेत्स्थानादन्यत्र दह्यते । न दग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत् ॥ दाहस्य स्थानं हस्तौ ततोऽन्यत्रावयवे दग्धस्य पुनर्दापयेदित्यर्थः । अप. २१०७ पितामहः अमेर्विधिं प्रवक्ष्यामि यथावच्छास्त्रचोदितम् । कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमं तथा ॥ (१) अत्र प्राक्संस्था मण्डलपङ्क्तिराजव कार्या । अप. २ १०६ (२) प्रख्यातदेवायतनादिविहितदेशे भूशुद्धिमुद्धननावोक्षणाभ्यां कृत्वा तत्र नवमण्डलानि प्रागपवर्गाणि प्राड्विवाकः सोपवासो नृपाज्ञया प्रवृत्तः कुर्यादित्यर्थः । स्मृच. १११ नासं. २० | २० (२) नासं. २०/२१. (३) मिता. २।१०७ व्यभियुक्त (नभिशस्त ) न द (अद); अप. २।१०७; व्यक. ८९-९०६ स्मृच. ११५६ पमा. १८१ प्र ... क्तः (प्रज्वालेनाभिशस्तः) न द (अद ) ऽपि (न); दीक ४१ स्मृचवत्; व्यचि.८१ न्यत्र दह्यते ( न्यत्तु दाहयेत् ) याज्ञवल्क्यः; दित. ५९८ त्यभि (नभि); सवि. १९९ प्रस्खल त्यभियुक्तः ( न स्खलत्यभिशस्तः ) न द ( अद ); व्यसौ.८२ दग्धं तं (तं दग्धं); व्यप्र. २०३ व्यसौवत्; व्यउ . ६२ लत्य (लन्न) न दग्धं तं (अदग्धं तु); व्यम. ३१ दग्धं तं (तद्दग्धं ); विता. २४४ भियु ( नियु ) दग्धं तं ( तं दग्धं ); प्रका. ७३; समु. ६१ व्यसौवत् . (४) मिता. २।१०६ उत्त; अप. २।१०६; व्यक. ८६; स्मृच. १११; पमा. १७५ प्रजापतिः दित. ५९४ चोदितम् (भाषितम् ); सवि. १९३ ( = ) वच्छास्त्र (शास्त्रप्र); व्यसौ. ७९ शास्त्र (वेद); व्यप्र. १९३३ व्यउ ६१ उत्त; व्यम. २९१कौ. ४१८; बाल . २ १०६; प्रका. ७०; समु. ५९.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy