________________
दिव्यम्-अग्निविधिः
(१) कृतलक्षणौ हस्तौ दर्शयित्वा पुनश्च मृदितव्रीहि- | पिण्डं पुनरारोप्य शेषं समापयेत् न तु प्रयोगान्तरम् । रप्यलक्षितदाहः पराजयव्यञ्जकललाटस्वेदादिलक्षण- आरोपणमात्रस्य पुनर्विधानात् तत्प्रयोगस्य विगुणत्वाहीनः कुहकादिशङ्काविनिर्मुक्तः शुद्धिमाप्नुयात् । दाह- निश्चयाच्च । दित. ५९७-५९८ संशयान्तरापिण्डपतनयोस्तु पुनस्त्रिरात्रे सप्तरात्रे वा स्मृत्यन्तरानुसारात् करणमवसेयम् । स्पष्टमन्यत् । विश्व. २।१११
(२) सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत आहमुक्त्वेति । अष्टमे मण्डले स्थित्वा नवमे मण्डले अग्नितप्तमयःपिण्डं त्यक्त्वा कराभ्यां व्रीहीन् मर्दयित्वा अदग्धहस्तश्चेच्छुद्धिमाप्नुयात् । दग्धहस्तश्चेदशुद्ध इत्यर्थसिद्धम् । यस्तु संत्रासात् प्रस्खलन् हस्ताभ्यामन्यत्र दह्यते तथाशुद्धो न भवति । यथाह कात्यायन: - - ' प्रस्खलन्नभि शस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत्' इति ॥ अन्तरेति । यदा गच्छतो ऽन्तराऽष्टममण्डलादर्वागेव पिण्ड पंतति दग्धादग्धत्वे वा संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । अत्र चायमनुष्ठानक्रमः-- पूर्वेद्युर्भूतशुद्धिं विधाय परेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र संपूज्यानिमुपसमाधाय शान्तिहोमं निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो त्रीहिमर्द - नादिकं करसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बध्वा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्त्र्य तप्तमयःपिण्डं संदंशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्यालौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति । * मिता. (३) यदुक्तम् - 'अन्तरा पतितेत्यादि तत् त्रीहिमर्दने कृतेऽपि यत्र संदेहो नापैति तद्विषयं किं सत्यानृतवशाददाहदाहौ उत दृष्टव्यवधानाव्यवधानादिकारणवशादिति यत्र संदेहस्तद्विषयं च । 'अन्तरा पतिते पिण्डे' इत्यत्र 'दग्धश्व नोपलभ्यते' इति शेषोऽवगन्तव्यः । दग्धस्योपलम्भे त्वशुद्धिनिश्चयेन पुनर्हरणानवकाशात् । + स्मृच. ११५ (४) संदेहे दग्धत्वादग्धत्वसंदेहे तस्मिन्नेव प्रयोगे
"
* अप, वीमि., व्यउ. मितागतम् । व्यप्र. स्मृचगतम् । क्यंप्र.२०२-२० ३ ; ब्यज.६ २१ व्यम. ३१ उत्त. ;विता. २४४ उत्त. प्रका. ७३ पितामहः, उत्त. समु. ६१.
म. का. ६२
४८९
नारदः
अतःपरं प्रवक्ष्यामि विधिमग्नेस्तथोत्तमम् । द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् ॥ अष्टभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् । षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ॥
(१) अत्र श्लोकद्वयेन अग्निदिव्यविधानमधिकृत्य गृहीतदिव्यः पुरुषो यावन्मात्रं गच्छति तदुक्तम् । एकं मण्डलकं द्वात्रिंशदङ्गुलप्रमाणं भवति । तेन प्रमाणेनाष्टौ मण्डलानि भवन्ति । तेष्वष्टमण्डलेष्वपि एकत्रा अङ्गुलानां शतद्वयं षट्पञ्चाशदधिकं भवति एतत्क्रमेण भूमिप्रमाणमभिहितम् ।
अभा.७७
(२) अयमर्थः अवस्थानमण्डलात् षोडशाङ्गुलान्मण्डलान्तरमन्यन्मण्डलम् । द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं सान्तरालं तदेवमवस्थानमण्डलं षोडशाङ्गुलम् | गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदगुलान्येवमष्टाभिर्मण्डलैश्चत्वारिंशदधिकं शतद्वयं भूमेरङ्गुलमानतः अङ्गुलमानमिति सार्वविभक्तिकस्तसिः । अस्मिंस्तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालंमण्डलभूभागानामेकमेकं भूभागं द्विधा विभज्यान्तराल
(१) नास्मृ. ४।२८५ अभा. ७७ ( द्वात्रिंशन्मण्डलान्याहुमण्डलं मण्डलान्तरम् ); मिता. २।१०६ उत्त.; अप. २।१०६ त्तम (तर); व्यक. ८७ अतः (ततः) त्तम (तर) दङ्गुलं प्रा (न्मण्डलानाडु); सवि. १९४ मण्डलान् (मैण्डलं) उत्त.; व्यसौ. ८० श्रोत्तमम् (था परम् ) लं प्राहु (लान्याहु ); व्यप्र. १९४ स्तथोत्तमम् (र्यथोदितम् ); व्यउ. ६१ न्तरम् (स्तरे) शेषे सविवत्, उत्त; समु. ५९ उत्त.
(२) नास्मृ.४।२८६; अभा. ७७ त्समधिकं (तमाख्यातं); मिता. २।१०६ अष्ट (अष्टा) उत्तरार्धे ( चत्वारिंशत्समधिकं भूमे - रङ्गुलमानतः ); अप. २।१०६ अष्ट (सप्त) षट् ... कं (चतुर्विंशत्समाख्याता); व्यक्र.८ ७ गु (ण्ड) उत्तरार्धे (चतुर्विंशतिराख्याता भूमेस्तु परिकल्पना ); सवि. १९४ मितावत्; व्यसौ.८० अष्ट (अष्टां) गु (ण्ड) उत्तरार्धं अपवत् व्यंप्र. १९४ मितावत्; व्यउ ६१ मितावत्; विता. २३५ मितावत् समु.५९ मितावत्.