SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ दिव्यम् - शपथः पालादिजगत्साक्षीभूतदेवताकल्पनमप्यविरुद्धम् । तथा च मान्त्रवार्णिक्यो देवताः- ' त्वमेव सर्वभूतानामन्तश्चरसि पावक' इत्युक्ताः । एवं स्वायम्भुवेऽपि च देवताधिष्ठानमेव सत्यधर्मानुसारि प्रदर्शितम् । यथाह - 'वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पश:' इति ॥ स्पशश्चरः साक्षीत्यर्थः । अथवा, अनुमानमूलत्वमेवास्तु । निर्दोषस्य दोषतया शङ्कितस्याग्निरदाहकः अभ्रकादेखि, दाहानुपलम्भनात् । अनादिकालिकाव्यभिचारिव्यवहारप्रवृत्त्यंवाप्तान्वयव्यतिरेकशुद्धानुमानं वह्न्यभाव इव निर्धूमतानुमानमप्रतिहतमेव । अतोऽप्युपपन्नं दिव्यस्मृतेः समूलत्वमित्येषा दिक् । नन्वेवं सति भाविन्यर्थे दिव्यानि न स्युः । दौष्टय तदभावयोरसिद्धत्वात् । को वाऽन्यथाह ? कथं तर्हि भाविन्यर्थे कोशपानादिव्यवहारः? सत्यसंकल्पप्रकटीकरणमात्रं तद् व्यभिचारतः शिष्टविगर्हणसिद्धयर्थम् । संकल्पितान्यथाकरणानृतदोषः स्थित एवेत्यलं प्रसक्त्या । विश्व.२।११७ (२) तप्ताय सपिण्डोऽयमनवद्यगृहीतो न दहति, आपश्च नोर्ध्वं प्लावयन्ति, सत्यशपथे कोशादौ न चार्तिमृच्छति पीडां न प्राप्नोति रोगोऽग्निरित्यत्रोक्तम् । स शुद्धः शुचिर्निर्दोषः । क्षिप्रं चतुर्दश वाऽहान्यवधिः स्मृत्यन्तरात् । मेधा. (३) आर्तिरपि ‘यस्य नो राजदैविकं व्यसनं जायते घोरमित्युक्तैव | कालनियमश्च एकरात्रमारभ्य त्रिरात्रपर्यन्तं, त्रिरात्रमारभ्य पञ्चरात्रपर्यन्तं एकरात्रप्रभृतित्वं कार्यलाघवगौरवापेक्षया द्रष्टव्यम् । मिता. २।११३ (४) न चार्तिं पुत्रादिशिरःस्पर्शे कृते । मवि (५) शपथस्य परीक्षणमाह यमिति । क्षिप्रं त्रिपक्षाभ्यन्तरे । मच. (६) आर्तिश्च राजदैविकं व्यसनम् । राजव्यसनं राजकृतपीडा । दैविकव्यसनं गृहदाहमनुष्यपश्वादिनाशः । व्यउ. ७१ der भिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ (१) मस्मृ. ८।११६; विश्व. २।११७. १ मव. २ क्तम्. ४३९ । (१) स्पशः चरः साक्षीत्यर्थः । विश्व. २।११७ (२) कथं पुर्नरिद्धोऽग्निर्न धक्ष्यति । आपश्च नोन्मज्जयिष्यन्ति । न हि महाभूतानि विपरियन्ति स्वभावतोऽचैतन्यादिति पर्यनुयोगमाशङ्क्यार्थवादेनोक्तमर्थ दृढीकरोति । यद्यप्ययमन्वयव्यतिरेकसमधिगम्योऽर्थः प्रत्यक्षवेद्यो वा, तथापि धूर्तकल्पितेन्द्रजालवद्भावित मुग्रविभीषिकासञ्जनमात्रं फलं शपथागोरणमिति मन्यमानो वैदिकं निदर्शनमुपन्यसेत् । भवन्ति प्रतिपत्तारोऽर्थागमेन पूर्ववृत्त - दर्शनाद् दृढतां प्रतिपद्यन्ते । वत्सो नाम काण्व ऋषिरभवत्। स च कनीयसा वैमात्रेण भ्रात्राऽभिशस्त आक्रुष्टो न त्वमसि ब्राह्मणः, शूद्रापुत्र इति । स तं प्रत्युवाच -- सत्येनाग्निं प्रविशामि यदि न ब्राह्मण इति । तस्येदमुक्तवतः प्रविष्टस्य नाग्निर्ददाह रोमापि । कथम् ? सत्येन हेतुना । कथमग्निः सत्यं जानातीति चेदत आह— जगतः स्पशः गूढात्मा । परकीयकृताकृतज्ञः स्पश उच्यते । यश्चान्तश्वरः प्रणिधिरिति च प्रसिद्धिः । अग्निर्हि भागवान् सर्वभूतान्तरचारी कृताकृतानां वेदिता । तथा च छान्दोग्ये ताण्डके प्रयोगः- देवासुरसेनयोरभ्यन्तरे योऽग्निरिति, गौतमोऽग्निमुपेत्योवाच— इह नो भवान् स्पशश्चरत्वित्यादि अथवा विशेषनिदर्शनेऽपि पञ्चविंशब्राह्मणमुदाहार्यम् — वत्सश्च ह वै मेधातिथिश्च कण्वावास्ताम् । तं वत्सं मेधातिथिराक्रोशत्-'अब्राह्मणोऽसि' इत्यादि ' तस्य लोम' च नौष' दित्येन्तम् । ननु च चौरा अपि न दह्यन्ते । साधवोऽपि दहामाना दृश्यन्ते । तत्कथं शपथे आश्वासः ? उच्यते, न दृश्येन व्यभिचारेण व्यवस्थेयमपनेतुं शक्यते । कादाचित्कत्वाद्यभिचारस्य । प्रत्यक्षादिष्वपि प्रमाणेषु दृश्यत एव तादृशो व्यभिचारों, न च तानि न प्रमाणम् । अथ व्यभिचारवन्ति नैव प्रत्यक्षादिशब्दवाच्यानि । यद्यभिचौरि न तत्प्रत्यक्षं यत्प्रत्यक्षं न तद्व्यभिचरतीति वचनात् । इहापि शक्यते तद्वक्तम् । व्यभिचरतीत्यसौ शपथो, यः शपथः स न व्यभिचरतीति । कः पुनः १ नरग्नि. २ आपो नो. ३ द्भान्तिमहनादत्र मुखबि. ४ भ्रात्रोऽभिशप्त आ. ५ स च चारः प्रणधि. ६ रे गौतममाश्रयन्ति गौतममिन्द्रं द्रढयेत्तत्र चाह इ. ७ भावा. ८ र विपेत्या ९ अर्थवाचित्विषेद. १० काश्यपावा. ११ हलमेव नौ. १२ दिति. १३ रितप्र. १४ (०).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy