SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ दिव्यम् गौतमः शपथ: वेदाः अंद्यामुय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य । यद्यहं वसिष्ठो यातुधानो राक्षसोऽस्मि तर्हि अद्यास्मिन्नेव दिने मुरीय म्रियेय । अपि वा पुरुषस्य मनुष्यस्य आयुर्जीवितं यद्यहं राक्षसो भूत्वा ततप हिंसितवानस्मि, तर्ह्यपि अहमद्य म्रियेय । अनेनसमेनसा सोऽभिशस्तादेनस्खतो वाऽपहरादेनः । एकातिथिप सायं रुणद्धि बिसानि स्तेनो अप सो जहारेति ॥ ऋसा. पुरा कदाचित् सप्तर्षीणां संवादप्रसङ्गे कश्चित्पुरुषो बिसस्तैन्यलक्षणमपवादं प्राप्य तत्परिहारार्थमृषीणामग्रे शपथं चकार । तदीयशपथोक्तिरूपेयं गाथा । बिसानि पद्ममूलानि तेषामपहर्ता प्रत्यवायपरम्परां प्राप्नोतु । पाप'रहिते पुरुषे पापविषयमपवादं कृतवतो यः प्रत्यवायः पापिनः पुरुषस्य संबन्धी पापं स्वीकुर्वतो यः प्रत्यवायः सायंकाले गृहे समागच्छत एवातिथेवैदेशिकस्या परोधने यः प्रत्यवायः सेयं प्रत्यवायपरम्परा विसस्तैन्ये सति मम भूयादित्येवं शपथः । अक्षरार्थस्तु — अप्रसिद्धो मादृशः पुरुषः स्तेनश्चोरो भूत्वा बिसान्यपजहार चेत् स पुमाननेनसं पापरहितं पुरुषं श्रोत्रियमेनसाऽभिशस्ता त्यापेनाभिशंसनमपवादं कुर्यात् । तथैष स बिसापहारी, एनस्वतः पापयुक्तस्य पुरुषस्य यदेनः पापमस्ति तदपहरेत् स्वीकुर्यात् । तथा स बिसापहारी सायंकाले गृहे समागतमेकातिथिमपरुणद्धि भोजनमदत्त्वा निःसारऐवासा. येत् । सत्यकर्म । (१) ऋसं. ७।१०४।१५. (२) ऐवा. २५/५. (३) गौध. १३ । १३३ व्यक. ५३ के (केन); मभा.; (१) सत्यकर्म सत्यव्यवस्थानम् । व्यक. ५३ (२) यदा तु साक्ष्यादिप्रमाणान्तरप्रत्यस्तमयः तदा शपथेन कोशादिना एके सत्यकर्म सत्यव्यवस्थापनमिच्छन्ति । शपथश्च प्रयुज्यमानस्य, इतरेण व्यवसितत्वात् । सत्यमिति वक्तव्ये कर्मग्रहणं व्यवहारादन्यत्रापि लौकिकव्यवहारसंदेहे शपथस्यानुप्रवेशार्थम् । तथा च श्रुतिः'अद्या मुरीय यदि यातुधानो अस्मीत्यादि । गौतमस्तु न्यायेनैव । तत्र प्रमाणलेशेऽसति शपथं सति न्याय एवेति द्रष्टव्यम् । मभा. ( ३ ) यत्र साक्षिषु तथा विश्वासो न भवति तत्र शपथेन सत्यकर्म शपथं कारयित्वा सत्यं वाचनीयमित्येके गौमि मन्यन्ते । तेद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् । (१) तच्छपथं देवसंसदि देवसंनिधौ । देवशब्देन देवताप्रतिमाः आदित्यादयो वा उच्यन्ते । राजा व्यवहारदर्शी । ब्राह्मणाः सभ्यादयः तद्ग्रहणं लौकिकव्यवहारनिवृत्यर्थम् । एवं च व्यवहारे देवतादिसंनिधौ, लौकिके यत्रकुत्रचिदिति द्रष्टव्यम् । अर्थान्तरनिमित्तो व्यवहारः, अपराधनिमित्तो लौकिक इति । अब्राह्मणाः क्षत्रियादयः । स्याद्ग्रहणं क्रमनिवृत्त्यर्थम् । तत्र देवताऽलाभे विप्रसंसदि, तदलाभे राजसंसदि द्रष्टव्यम् । तथा च स्मृत्यन्तरम्- 'अब्राह्मणान्नृपः सम्यक्कारयेद्देवसंनिधौ । शपथं तदलाभे च ब्राह्मणस्य समीपतः ॥ तदलाभे नृपस्याथ भगवान् काश्यपोऽब्रवीत् इति ॥ अलाभोऽपि कार्यान्तरव्यग्रापेक्षया द्रष्टव्यः । अविप्राणामिति वक्तव्ये गुरुसूत्रकरणमश्रोत्रियब्राह्मणस्यापि देवतासंनिधिप्रवेशागौमि. १३ १२; व्यचि . ५० व्यकवत् चन्द्र. १४६ व्यकवत् ; व्यसौ . ५१; वीमि २।७५ शपथेनैके ( स येनैकेन ); प्रका. ५५ सत्य (सत्यं); समु. ३५. (१) गौध. १३ १४; व्यक. ५३१ मभा.; गौमि. १३ १३; व्यचि . ५० ( राज० ); चन्द्र. १४६ तद्देव (तदेव); व्यसौ. ५१; वीमि २७५ तदेव (तदेव ) ( राज०); प्रका. ५५; समु. ३५.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy