________________
भुक्ति:
४१३
(२) तत्सुतो भुक्तिमेवैकां चिरन्तनीमाद्यपुरुषेण भोक्तमुपक्रान्तकालादारभ्य विवादात् प्राचीनकालपर्यन्तमपरवराहित्येन प्रतिपक्षतार्ह पुरुषसमक्षमनुवर्तमानां साधये. दित्यर्थः । सुतग्रहणं पौत्रस्यापि प्रदर्शनार्थम् । पौत्रादिरित्यतद्गुणो बहुव्रीहिः । तेन पौत्रस्यापि पुत्रवदेव द्रष्टव्यम् । स्मृच.७२ व्यचि.६९
(३) आहर्ता अर्जनकर्ता । राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनाऽपि यत् । ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदाचन ॥ प्रमाणेन आगमप्रकाशकप्रमाणेन । येस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता । एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥ एतत्स्मार्त कालानतिक्रान्तत्रिपुरुषभोगविषयम् ।
स्मृच. ७२
सताऽपि लेख्येनेति लेख्यादिना प्रमाणेनेति 'पश्यतोsब्रुवत' इति च परोक्षक्रीतसमक्ष भोगविषयं वर्णनीयमिति न विरोधः ।
व्यमा. ३४८
(२) यप्रतिग्रहादिलिखितेनापि तां भूमिं नासाववाप्नुयात् । अप.२।२५ (३) सताऽपि समीचीने नापीत्यर्थः । क्षितिमिति देयद्रव्योपलक्षणार्थम् । . स्मृच. ६८ 'भूमेर भुक्तिर्लेख्यस्य यथाकालमदर्शनम् । अस्मरणं साक्षिणां च स्वार्थहानिकराणि तु ॥ तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् । तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥ तथा च हानिवचनानि प्रमाणपरिपालनपराणीति सारम् । व्यचि. ७६ भोगागमयोः सहकार्यं प्राबल्यदौर्बल्ये त्रिपुरुषभुक्तिप्रामाण्यं च भुंक्त्या केवलया नैव भूमिः सिद्धिमवाप्नुयात् । आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥ यत्राहर्ताऽभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । तदभावे तु पुत्राणां भुक्तिरेका गरीयसी ॥ तदभावे आहर्तृपुरुषाभावे । आहर्ता शोधयेद्भुक्तिमागमं चापि संसदि । तत्सुतो भुक्तिमेवैकां पौत्रादिस्तु न किञ्चन ।। (१) इति, तदाहर्तृपुत्रस्य स्मार्तकालान्तर्गतायां भुक्तौ पौत्रस्य च तदतिरिक्तकालायां वेदितव्यम् ।
स्मृच.७२
अप. २२८
(१) व्यक. ७३; स्मृसा. १०७ १०८; व्यचि. ६८, ७५७६; चन्द्र. १५६ ( = ) स्मा (स्म) तु (च); व्यसौ. ६९ तु (च); समु.४५ (साक्ष्यस्यास्मारणं चैव स्वार्थहानिकराणि च) स्मृत्यन्तरम्. (२) व्यक. ७३; स्मृसा. १०७-१०८ पालनम् (रक्षणम्); व्यचि. ६८, ७६, व्यसौ. ६९; समु. ४५ स्मृत्यन्तरम्. (३) स्मृ. ७०; सवि. १३१:१६३ भूमि : (भूमि) सिध्य... था ( सिद्धिमवाप्नुयात्); प्रका. ४६; समु.४८ (४) स्मृच.७२; प्रका. ४७; समु. ४८. (५) अप. २।२८ चा (वा) सुनो (पुत्री); क. ७१ दिस्तु (दिषु) किं (कं); स्मृच. ७२ शो (सा) गर्म ( गतं ) ; दीक. ३४ दिस्तु (दिषु); स्मृसा. १०५ दीकवत् ; व्यचि . ६९ पौत्रादिस्तु (तत्पुत्रादिः); व्यत. २२५ दीकवत् ; दात. १८१ दीकवत्; व्यसौ. ६७ व्यचिवत्; प्रका. ४७ शो (सा); समु.४८ शो (सा) सुतो - (पुत्र); विच. १४० दीकवत्.
स्मृच. ७४
यैस्य त्रिपुरुषा भुक्तिः पारम्पर्यक्रमागता । नसा चालयितुं शक्या पूर्वकाच्छासनादृते ॥ एवं शासनविरोधे भुक्तस्याप्यसिद्धिर्द्रष्टव्या । स्मृच. ७४
भुक्ति पुरुषी यत्र चतुर्थे संप्रवर्तिता । तद्भोगः स्थिरतां याति न पृच्छेदागमं कचित् ॥ ( १ ) उक्तविधभोगे तन्मूलभूतागमं प्रति किमपि प्रमाणं क्वचिदपि न पृच्छेदित्यर्थः । सांतत्यादिविशिष्टां भुक्तिं प्रति प्रमाणं पृच्छेदेव ।
स्मृच. ७३
(२) त्रिपुरुषभोगेन षष्टिसंवत्सरादय उपलक्ष्यन्ते ।
पमा. १४१
अविच्छेदेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु । तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी ॥
तत्र चतुर्थादिष्वागमनिश्चयो नावश्यं कार्यः । यतस्तत्र भुक्तिः पूर्वपुरुषत्रयागता सांतत्यादिविशेषणवत्तया साधिता गरीयसी विनाऽप्यागमनिश्चयं स्वतन्त्रैव प्रमाणमित्यर्थः । स्मृच. ७३
(१) स्मृच. ७२; प्रका. ४७ कदा ( कथं); समु. ४९. (२) स्मृच. ७४; प्रका. ४७; समु. ४९. (३) स्मृच. ७४; पमा. १४४; प्रका.४८; समु. ४९. (४) स्मृच. ७३; पमा. १४१; प्रका. ४७. (५) स्मृच. ७३; पमा. १४१ अविच्छेदेन (अनिषिद्धेन); प्रका. ४७.