SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् ४१० न्यस्तं केनचित् समर्पितं इदं तव हस्ते कंचित्कालं तिष्ठत्विति । बलावष्टब्धं बलेन परिगृहीतम् । याचितं मम देहीत्युद्यतम् । अप्रत्यक्षं स्वामिनः परोक्षं भुक्तम् । एतानि षडागमाद्विना । अत्र भोगोऽप्रमाणम् । नाभा. २१७९ (४) अन्वाहितं एकत्र आहितं अन्यत्र पुनराहितम् । व्यप्र. १६६ तथाऽऽरूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगपदं नयेत् ॥ (१) एवमेतेषां प्रकाराणामेकेनाप्यन्यायेन परकीयमर्थ भुञ्जन् यः कश्चिदर्थो धनिना न्यायार्थं प्रारब्धोऽनिष्पन्न - व्यवहार एव प्रेतीभूतः । तस्य सक्तः स तदवस्थ एव व्यवहारः पुत्रेण संशोध्यः । सोऽर्थः पितृकामभुक्त्या ततो न भवतीत्यर्थः । अभा. ५० (२) यथा आहर्त्रा लिखितसाक्षिभ्यामेवागमः संसाध्यो भवति तथेत्यर्थः । पुत्रग्रहणं धनग्राहिण उपलक्षणार्थम् । स्मृच. ७५ (३) मिता. टीका - नवारूढ विवादस्येति । अस्यार्थः, आरूढविवादस्य व्यवहारिणः प्रेतस्य संबन्धिना पुत्रेण । स्वार्थो विवादास्पदीभूतः । संशोध्य आगमेन तमर्थ भोगो न निवर्तयेत् न प्रत्यावर्तयेत् । न तत्र भोगः प्रमाणं भवतीति यावत् । *सुबो. २१२९ (४) तथा तेनैव प्रकारेण । आरूढो विवादो यस्य * बाल . २।२९ सुबोवत् । (१) नासं. २।८० तं ... नयेत् ( तद् भोगोऽतिवर्तते ) ; नास्मृ.४।९३; अभा.४९-५०६ मिता. २।२९ तथा ( नवा ) भोगपदं नयेत् (भोगो निवर्तयेत् ); व्यमा ३४५ उत्तरार्धं मिताबत् : ३५२ भोगपदं नयेत् (भोगान्निवर्तयेत् ); व्यक. ७२ उत्तरार्धं मितावत् ; स्मृच. ७५ ( पुत्रेण सोऽर्थः संसाध्यो न तद्भोगान्निवर्तते); दीक. ३४ व्यकवत् : स्मृसा. १०५ न तं ( तं न ) शेषं व्यकवत् ; व्यचि ७४ व्यकवत्; स्मृचि.४९ तथा (तत्रा) (पुत्रेण सोऽर्थः संसाध्यो न तद्भोगो निवर्तयेत् ); प्र. ८ विवा (स्य वा ) भोगपदं नयेत् ( भोगोऽतिवर्तयेत् ); व्यत. २२५ तथा (अथा) प्रेतस्य (प्रेतस्या) सं (तु) शेषं व्यकबत्; सवि. १३५ व्यमा ३५२वत्; व्यसौ. ६८ व्यकबत्; प्रका०४८ स्मृचवत्; समु.४९ स्मृचवत्; विच. १४०१४१ प्रेतस्य (मृतस्य शेषं व्यकवत् . आरूढविवादः । तस्यारूढ विवादस्य आरब्धाऽपरिसमाप्तव्यवहारस्य प्रेतस्य पुत्रेण सोऽर्थः संशोध्यः । न सोऽथ भोगेन लभ्यते । 'प्राप्तानां पितृतः क्रमादित्यस्यापवादः । नाभा. २१८० बृहस्पतिः युक्तिसाक्षिलेख्य भुक्तिप्राबल्यदौर्बल्यविचारः द्विधानमाख्यातं साक्षिणां लिखितस्य च । संप्रति स्थावरे प्राप्ते भुक्तेश्च विधिरुच्यते ॥ (१) संप्रति भुक्तिर्विविच्यते बृहस्पतिसंमतत्वादस्यैव क्रमस्य । यथा - एतदिति । न्यायस्य सर्वेभ्यो बहुतराभ्यर्हितत्वात् प्रथमं साक्षिणस्ततो भुक्तितो बहुविषयत्वात् लि. खितस्य ततः स्वल्पविषयतया भुक्तिनिरूपणम् । स्थावर इति प्रायिकं प्राप्ते भूम्यादौ । व्यमा. ३४१. (२) तत्र क्वचित् सागमाया भुक्तेः प्रामाण्यं मनसि संदधानः सप्त स्थावरागमोपायान् प्रदर्शयंस्तत्र भुक्तेः प्रामाण्यमाह – एतदिति । स्थावरग्रहणमत्र भुक्तेरावश्यकत्वसूचनाय न तु तत्रैव भोगस्य प्रामाण्यनियमाय । जङ्गमेऽपि तत्संभवात् । तदेतदुत्तरत्र विवेचयिष्यामः । व्यप्र. १५३ अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥ इति ब्रुवाणः सैव प्रमाणं नान्य इति व्यनक्ति । अव्याहतेति परोक्षविषयस्यापि व्युदस्यति । व्यमा. ३५० अनुमानं सद्य एव साक्षी चामरणाद्भवेत् । अव्याहतं लेख्यभोगं प्रमाणं तु त्रिपौरुषम् ॥ (१) व्यमा ३४१ स्य च (स्य वा); व्यक. ६९ नमा (नं वि) संप्रति (सांप्रतं); पमा. १३९ रे प्राप्ते ( रप्राप्तेः); व्यसौ. ६५ संप्रति (सांप्रतं ); व्यम. १५३ व्यसौवत्; प्रका. ४४ व्यसौवत्, कात्यायनः; समु. ४६ रे प्राप्ते ( रप्राप्तौ ) शेषं व्यसौवत्. (२) व्यमा. ३५०; व्यक. ७१; दीक. ३४६ स्मृसा. १०५ वर : (गुरु); स्मृचि. ४८ वर : ( वरं ) गुरु (वरं ) रेभ्यो (रेव); व्यत. २२४ वरः (गुरुः) रेभ्यो (स्तेभ्यो); व्यसौः ६७ वर: (बरं) गुरु (बरं); सेतु. ९०; प्रका. ४४; समु. ५०; विच. १३९; विव्य. १९. (३) व्यमा ३५० सद्य एव (वसत्यत्र) ख्य (ख); व्यक. ७१. भोगं (भोग्यं) पौ (पू); स्मृसा. १०५ इतं ( हतौ) भोगं
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy