SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् 2 (१) यस्माच्च क्रमभुक्तिरागमाद् बलीयसी, तस्माद् गरीयसीति भुक्तिः प्रधानं प्रमाणं, आगमस्तु सहआगमस्त्विति । कारी, तेनागमोपन्यासस्ताभ्यामपि कर्तव्यो न तु शोधनम् । आहर्त्रा शोधनमवश्यं कार्यं तेन तस्यागमः प्रधानं भुक्तिश्च सहकारिणी । व्यमा ३४४ संदिग्धागमविषयस्त्वर्वाचीनो जीवतां त्रयाणां षष्टिवर्ष भोगोऽनुपपत्या प्रमाणमेव । न चेदमशास्त्रीयम् । तथाह याज्ञवल्क्यः-- आगमस्त्विति । लेख्यकर्तुः पुत्रो न लेख्यदोषानपाकुर्यात् न ह्यसौ पितृवल्लेख्य स्वरूपज्ञो यतः । धर्न तु न तत्पुत्रस्य । तस्य तु यः पुत्रः, तस्य धनमपि स्यात् । यस्माद् भुक्तिस्तत्र गरीयसी लेख्यादित्युक्तमेवेत्यभिप्रायः । विश्व. २।२८ ४०० (२) पश्यतोऽब्रुवत इत्यत्र विंशतिवर्षोपभोगादूर्ध्व भूमेर्धनस्यापि दशवर्षोपभोगादूर्ध्वं फलानुसरणं न भवतीत्युक्तम् । तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवस्थां दर्शयितुमाह - आगमस्त्विति । येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः, स पुरुषः कुतस्ते क्षेत्रादिकमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखिता - दिभिरुद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्या गममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयो ऽभियुक्तो नागममुद्धरेत् । किं तु अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् | तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेत् अपि तु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभोगानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्वितीयतृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुः तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थहानिः समानैव । दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन - 'आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानिस्तयोरपि' इति ॥ #मिता. - ( ३ ) ननु चतुर्थ एव पुरुषे भोगप्रामाण्यात् कथं पुत्रपौत्रगोचरायाः भुक्तेर्गरीयस्त्वाभिधानम् ? उच्यते । व्यम, विता. मितागतम् (रत्र); अप. व्यक. ७१; स्मृच. ७२, स्मृसा. १०५ तमु (तद्) तत्सुतों वा (स्वतो वापि) स्तत्र (रेव); व्यचि. ६९, ७४१ स्मृचि.४९- स्तत्र (रेब); नृप्र. ८; व्यत. २२४; दात. १८१; व्यसौ. ६७; वीमि व्यप्र. १५८ प्रथमपादः व्यम. १४; विता. १५२; सेतु. ९०; प्रका. ४७; समु. ४८ कात्यायनः; बिच. १३९ गरी (बली ); विव्य. १७ नारदः. व्यमा. ३५२ (४) येन आगमः क्रयादिः कृतः सोऽभियुक्तस्तमागमं लिखितादिप्रमाणेनोद्धरेत्साधयेत् । तस्य आगमकर्तुः सुतः पौत्रो वाऽभियुक्तो नामममुद्धरेत् । यतस्तयो भुक्तिरेव गरीयसी गुरुतरा । आगमोद्धरणं विनैव प्रमा णत्वं तस्या गरीयस्त्वम् । ननु चाधिभोगस्य स्वामित्व - मन्तरेण दर्शनान्न भोगस्यागमनिरपेक्षस्य प्रामाण्यं युज्यते संशयहेतुत्वात् । मैवम् । शास्त्रेषु खलूत्सर्गतो भुक्तेः ' स्वामिभावं प्रति प्रमाणता कीर्त्यते । अपवादतया पुनराध्यादिभुक्तिः । ततश्च यत्राधिभुक्तिरियमिति साक्षिलिखितादिभिः सिध्यति तत्रैवापवादः । अन्यत्रौत्सर्गिकं स्वस्वामिभाव एव भुक्तेः प्रामाण्यमिति आगमकर्तुः सुतस्थापि भुक्त्यैव स्वाम्यसिद्धिरिहोच्यते । सा स्मार्त कालातिक्रमे सति द्रष्टव्या । स्मार्तश्च काल: पुरुषत्रयभक्तिकालात्मकः । तथा च स्मृत्यन्तरम् — ' स्मार्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता' इति ॥ पुरुषभोगकालस्य च परिमाणमाह नारद: - 'वर्षाणि विंशतिं भुक्ता स्वामिना व्याहृता सती । भुक्तिः सा पौरुषी भुक्तिर्द्विगुणा च द्विपौरुषी । त्रिपौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः' ॥ कात्यायनः 'मुख्या पैतामही भुक्तिः पैतुकी चापि संमता । त्रिभिरेतैरविच्छिन्ना स्थिरा षष्टयाब्दिकी मता' ॥ ततश्च वर्षषष्टेः पूर्वं स्मार्तः कालः । ऊर्ध्वमस्मार्तः । अथवा, वर्षाणि पञ्चत्रिंशत्तु पौरुषो भोग उच्यते' । इत्येतत्स्मरणानुसारेण पञ्चोत्तरं (१) वर्षशतं स्मार्तः कालः । ऊर्ध्वमस्मार्तः । अनयोश्च पक्षयोः स्मर्तृपुरुषसद्भावसद्भावकृता व्यवस्था। आहर्तुः स्मार्तकाले व्यतीते पर्यनुयोगे च सत्यागमः साध्यो भवत्येव । अत एवाविशेषेण बृहस्पतिराह -- 'आहर्ता शोधयेद्भुक्तिमागमं वाऽपि संसदि" इति । यत्पुनरनन्तरमुक्तम् —'तत्पुत्रो भुक्तिमेवैका पौत्रादिस्तु
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy