________________
भुक्ति:
३९.३
मया
प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव | लिखितं इत्यादिवचनेन यथा यथापेक्षित तर्कसह कृतेनैगच्छति' || इति अत्रैवकारेण सिद्धस्य पुनरभिधानेन च कदेशसाधनेऽन्यैकदेशदापने निवेदितैकदेशस्य प्रागनिसर्वत्र भोगस्यागमसापेक्षत्वमवगम्यत इति । मैवम्, आगम वेदितस्यादापनेऽपि न व्यवहारदर्शिनां दोषस्तथात्रापीति । व्यतिरेकनिश्चयपरत्वात् नारदवचनस्य । एवं च त्रिपुरुषभोगादेरागमसंदेहेऽपि प्रामाण्यम् । एवं च विंशतिवर्षादिभुक्तिरागमनिश्चयसापेक्षैव प्रमाणमिति व्यवस्थितम् । वेवमपि पश्यतोऽब्रुवतो हानि:' इत्यादेः 'अध्यासनासमारभ्य भुक्तिर्यस्याविघातिनी । त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत्' इति वचनविरोधस्तदवस्थ एव । त्रिंशद्वर्षभुक्तेः प्रामाण्याभिधानेनार्थतो विंशतिवर्षभुक्तेः प्रामाण्यनिरासादिति चेत्, न 'पश्यतोऽब्रुवत' इत्यादे नरवभोगपरत्वात् बृहस्पतिवचनस्य च विघातिनीति शब्देन कलहताडनादिरूपविघाताभावविशिष्टाया रखयुकाया अपि भुक्तेः प्रामाण्यबोधकत्वात् । एवं च सर्वेषां वचनानां विषयभेदेन विरोधे परिहृतं दशवर्मादिभोगादीनां स्वत्वंजनकत्वं तत्प्रमापकत्वं वा ? नाद्यः प्रतिग्रहादेवि भोगस्य स्वत्व हेतुत्वबोधकाभावात् । नान्त्यः, भूयशोऽन्याय - कृतभोगे व्यभिचारादिति । हन्तैवं त्रिपुरुषभोगेऽपि दीयतां दृष्टिः । यदि तु वचनबलात्तत्र छलव्यवहारेणैव निर्णयः । यद्वा त्रिपुरुषभोगप्रामाण्यप्रतिपादकवचनमेव तत्र स्वत्वो पत्तौ मानं तदा प्रकृतेऽपि तुल्यं, न त्वेवं षण्मासादि - भोगोऽपि न्यायतौल्येन प्रमाणं स्यादिति चेत् न, वाचनिकेऽर्थे न्यायानवकाशादिति दिक् । *वीमि. २।२९ (९) [ मिताक्षरागतं - 'भुक्तेः स्वत्वे प्रमाणत्वं, नोत्पादकत्वम्' इतिमतमुपन्यस्य ] अत्राहापरार्क :व्यवहारस्थितिमाश्रित्येदमुच्यते न धर्मगतिमिति परस्वापहारप्रत्यवाय भीरुणा परेण पूर्वस्वामिने तदर्पणीयम् । त्यादिग्रहणस्यैवमानर्थक्यप्रसङ्गात् । ततोऽर्वागपि व्यव1 सभापतिसभ्यादीनां व्यवहाररीत्या तत आच्छिद्य तददानेऽपि न क्षतिः । अत एव मनुः -- 'अजडश्चेदपौ - गण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता I तद्धनमर्हति' || व्यवहारेण भोक्तार्हतीति व्यवहारस्थितिमेवोक्तवान् । बृहस्पतिरपि ‘सतापि लेख्येन' इत्याह । 'अनागमम्' इत्यादि नारदवचनं तु बहुतरधनभूमिविषयमेकपुरुषनियमाभावनिश्चयविषयं वा । अत एव योगीश्वर:-"आगमस्तु कृतो येन' इत्युक्तवान् । तस्मात् 'निह्नुते
तदयुक्तम् । 'छलं निरस्य' इत्यादिना व्यवहारदर्शि नामप्येतादृशविषये दोषावर्जनीयत्वात् 'नित' इत्यादिवदत्र सतर्काभावाच्च । अस्मदुपपादितरीत्या तत्रापि तथानभ्युपगमाच्च । तच्च प्रपञ्चितं विशेषपरिभाषाप्रस्तावे । एवंविधा हि भूक्तिस्तूष्णींभूतस्य पश्यतः स्वामित्वे सति न घटते, किं तु भोक्तुरेव स्वामित्वे सति युज्यते इति भवति तत्र भुक्तिः प्रमाणमिति पूर्व स्वयमेव स्वामिस्वत्वहानि परस्वत्वोत्पत्तिपरत्वव्याख्यानेनास्य विरोधाच्च । न च तदप्येतदनुग्राहक तर्कप्रदर्शनेन व्यवहारस्थितिपरमेव न वस्तुगतिपरम् । व्यवहारहानिश्च भोक्ता यद्येवमुपन्यस्यति - अजडोऽयमपौगण्डोऽयमेतत्समक्षं भुज्यमानं क्षेत्रादि यद्येतदीयमनेन कुतो विंशतिवर्षावधि न प्रतिषिद्धम् ? अस्मिंश्चार्थे गुणोपेता बहवः साक्षिणः सन्तीति तथोपन्यस्ते चायं निरुत्तरोऽवश्यं भवतीति वाच्यम् । अस्य सतर्कत्वाभावात् आगमप्रमाणानुपन्यासेन मूलशैथिल्यात् । उपेक्षाहेत्वभावकृतव्यवहारहानावपि वस्त्वनुसरणस्यावश्यकत्वात् । तथा च नारदः उपेक्षालिङ्गाभावकृतामेव व्यवहारहानिमाह न वस्त्वभावकृताम् । 'उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ न च निरुत्तरताप्रयुक्त व्यवहारहानिशंकानिरासाय प्रत्यक्षं स्वीये वस्तुनि परेण भुज्यमाने तूष्णीं न स्थेयमित्युपदेशार्थमिदं वचनं हीनादिलक्षणवदिति वाच्यम् । विंश
* शेषं व्यतगतम् ।
व्य. का. ५०
हारहानिशङ्कायास्तुल्यत्वात् । लेख्यदोषोद्भावनमुत्तरकाले न कार्यं ततोऽर्वाक् कार्यमित्येतदर्थं तद्ग्रहणमिति चेत् न, आध्यादिष्वपि विंशत्याद्युत्तरकाले तदनुद्भावनस्य तुल्यतयैतदपवादत्वेनोत्तरवाक्यासंगतेः । तच्च लेख्यप्रस्तावेऽभिहितम् ।
( अत्र मिताक्षराकाराणां 'न वस्तुहानिर्न व्यवहारहानिरनेन' इति मतं प्रदर्श्य ) अत्रेदं वक्तव्यम् । नष्टफलालाभे प्रतिषेधरूपापराध एवं बीजं वचनं वा । नाद्यः । विंशत्यादिवर्षोपभोगवत्ततः प्रागपि समक्षभोगे...