SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ भुक्तिः ३९१ कार्याणि सिद्धयन्ति स्थावराणि चराणि च ' ॥ तस्माद्दशविंशत्या दिवर्षपर्यन्तं समक्षमन्यस्य भुञ्जतः संबन्धिनोपेक्षा यदा कृता तदा हानिरपि तावत्संभाव्येत । तस्मान्नोदासितव्यम् । विंशत्यादिग्रहणं दीर्घकालोपलक्षणार्थं न तु विंशत्यादिवर्षपर्यन्तं पश्यतोऽब्रुवतः पूर्वस्वामिनो बाल्यादिदोषरहितस्य स्वत्वं नाशयति भोक्तुश्च स्वत्वं जनयति पूर्वस्वामिस्वत्वाभावं भोक्तुः स्वत्वं चागमयति भुक्तिरेवागमानपेक्षिणीति युक्तम् । उक्तयुक्तेः कात्यायनविरोधादन्यपरत्वाच्चेति । भवदेवनिबन्धे लिखितं एवमेव यथोक्तकालव्यापिनी भुक्तिः प्रमाणम् । ननु आगमयुक्ता भुक्तिः प्रमाणमुक्तं न तु भुक्तिमात्रम् । तथा च याज्ञवल्क्यः— 'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छिति' ॥ पुलहोऽप्याह'भोगं तु केवलं यश्व कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ' ॥ व्यासेनाप्युक्तम्'अनागमं तु यो भुङ्क्ते बहून्यब्दशतानि च । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ अतः कथमभिधीयते भुक्तिः केवलैव प्रमाणमिति उच्यते । नैतानि वचनानि सर्वत्रागमसहितभुक्तिप्रामाण्यप्रतिपादकानि । पूर्वोक्तानेकवचनविरोधात् । युक्तिविरोधाच्च । न हि संभवति वि-: द्यमाने संबन्धिनि स्नेहादिकं विनान्येनाविवादेन विंशत्यादिवर्षपर्यन्तं भूमिर्भुज्यते । तेन तत्र निरपेक्षा भुक्तिरेव प्रमाणम् । यच्च याज्ञवल्क्यवचनं पुलहवचनं च, तत्स्वल्पकालभोगाभिप्रायम् । व्यासवचनं प्रतिवादिनोसंनिधाने पुरुषैकद्वयंभोगाभिप्रायम् । त्रिपुरुषभोगस्य तत्रापि प्रमाणत्वात् । तथा च कात्यायनः - 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संततं या चिरन्तनी' ॥ इत्थमपराण्यपि वचनानि समर्थनीयानीति न किञ्चिदनुपपन्नम् । 1 भूमिमेष भुङ्क्त इति प्रत्यक्षमुपलभमानस्याब्रुवतोऽनाक्षिपतो हानिः स्वस्वामिसंबन्धाभावो भवति । एवं भूव्यतिरिक्तस्य धनस्य दश वर्षाणि भुज्यमानस्य हानिः । एवंविधा हि भुक्तिस्तूष्णींभूतस्य पश्यतः स्वामित्वे सति न घटते । किं तु भोक्तुरेव स्वामित्वे सति भुज्यत इति भवति तत्र भुक्तिः प्रमाणम् । एतच्च व्यवहारस्थितिमाश्रित्योच्यते । न धर्मगतिम् । अत एव मनुः (८।१४८ ) – 'अजड वेदपौगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥ तथा च यत्परमार्थतः परकीयमेव व्यवहारेणैवार्जितं तत्प्रत्यवायभयादेव यथास्थानं गमयितव्यम् । यत्तु नारदे नोक्तं 'अनागमं च यो भुङ्क्ते बहून्यब्दशतान्यपि । चौदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' इति ।। तत् बहुबालादिधनविषयम् । पूर्वज भूमिभोक्तृपुरुषविषयं वा । अत एव वक्ष्यति --- ' आगमस्तु कृतो येन' इत्यादि । अप. (४) याज्ञवल्क्येनाप्येवमुपेक्षकस्य हानिरेवाभिहिता न पुनर्भोक्तुः स्वत्वापत्तिः पश्यत इति । हानिश्चात्र लिखितबलेनात्मीयत्वप्रसाधनमात्रस्याभिप्रेता । न पुनर्भम्यादौ तत्फले वा स्वत्वस्य । नोपेक्षामात्रेण स्वत्वमपैतीत्युक्तत्वात् । तेनात्र न धर्माख्यनिर्णयवशादुपेक्षकस्य हानिः । तद्वशेनात्मीयत्वप्रसाधनसंभवात् । नैवं व्यवहाराख्यनिर्णय“वशेन । लेख्यवैगुण्यस्योक्तत्वात् । किं तु द्वितीयव्यवहाराख्यनिर्णयात् । भोक्तुरनिन्द्यत्वं स्वामिनो निरुत्तरत्वेना स्वामिना जितत्वात् । स्मृच. ६८ (५) मिता. टीका - भुक्तेः कैश्चिद्विशेषणैर्युक्ताया इति । आसेधराहित्यचिरकालत्वादीनि विशेषणानि तैर्य - कायाः । अत्र क्रिया नाम करणं कृतिरिति यावत् । सुबो. (६) अत्र हलायुधनिबन्धे स्वरसः - आगमस्मरणाई काले सागमैव भुक्तिः प्रमाणम् । त्रैपुरुषिकभोगे त्वागमाऽस्मरणे भुक्तिः प्रमाणम् । 'स्मार्तकाले क्रियाभूमेः सागमा भुक्तिरिष्यते । स्मार्ते त्यागमाभावात् क्रमात्त्रिपुरुषागता' ॥ इति कात्यायनवचनात् । हानिप्रतिपादकानां च वाक्यानां प्रमाणपरिपालनकर्तव्यताशेषत्वात् । 'तथा च बृहस्पतिः - 'भूमेरभुक्तिर्लेख्यस्य यथाकालमदर्शनम् । अस्मारणं साक्षिणां च स्वार्थहानिकरणानि तुं ॥ तस्माद्यत्नेन कर्तव्यं प्रमाणपरिरक्षणम् । तेन इदं तु विचिन्त्यं, किमयं भोगो भूम्यादिषु विंशत्यादिवर्षावच्छिन्नः पूर्वोत्पन्नस्वत्वे प्रमाणं, अभिनवस्वत्वोत्पादको वा ? न तावदभिनवस्वत्वे प्रमाणम् । 'अन्यायेनापि यद्भुक्तं पित्रा पूर्वतरैस्त्रिभिः । न तच्छक्यमपाकर्तु क्रमात्रिपुरुषागतम् ' ॥ इत्यत्र नारदेनान्यायप्रवृत्तत्रिपुरुषभोग स्वत्व संबन्धस्य प्रतिपादितत्वात् । यदि पूर्वोत्पन्न - मेव स्वत्वं तदा कथमन्यायेनेति संगच्छते ? न हि स्वम
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy