________________
मुक्ति:
३८३
धनी धनस्वामी दशवर्षाणि यावत्प्रेक्षते न किञ्चिद्वक्ति, न राजनि व्यवहरति, न कुलसमक्षं भोक्तारं वदति 'मदीयमेतत्किमिति त्वया स्वयं भुज्यते' इति, स दशभ्यो वर्षेभ्य उत्तरकालं न तल्लब्धुं स्वीकर्तुमर्हति निवर्ततेऽस्य स्वाम्यमिति यावत् । प्रेक्षणेन ज्ञेयतामात्रमुच्यते न प्रत्यक्षतै । संनिधाविति वक्ष्यामः । परैः न ज्ञातिसंबन्धिभिः । तथा च स्मृत्यन्तरम् – ' ज्ञातिसंबन्धिभिबिना' इति । 'संबन्धिबान्धवैश्चैव भुक्तं यज्ज्ञातिभिस्तथा । न तद् भोगान्निवर्तेत भोगमन्यत्र कल्पयेत् ' ॥ तदयुक्तम् । अव्यवस्थैवं सति स्यात् । के ज्ञातयः १ के वा संबन्धिनः ? इति संबन्धमात्रग्रहणे न किंचिद् व्यावर्त्यम् । तस्माद्येनान्यदीयं भुज्यते स पर एव भवति, किन्तु तथा सति परशब्दोऽनुवादमात्र मनर्थकः स्यात् । यस्य परस्यापि नै परव्यपदेशः स निरस्यते यथा भार्यापती पितापुत्राविति । तत्र ह्यामव्यपदेशोऽस्ति 'अर्द्धां ह वा एष आत्मनो यज्जाया आत्मा वै पुत्रनामासि' इति । तेन दम्पत्योः पितापुत्रयोर्न भोगाभोगौ कारणम् । तेषामपि विभक्तधनानां भोगकाले प्राप्ते भोगो बाधक एव । भार्यया अपि स्त्रीधने भर्तृसकाशाद् गृहीते बन्धेन पत्युभोंगे नासिद्धि:, सा ह्येत्यन्तपरवती, नोभयोर्विभागोऽस्ति स्त्रीधनमपि तेनैव तस्याः परिपाले नीयम् । 'राजस्त्रीश्रोत्रियद्रव्यादन्यत्र' इति च पठ्यते । एवमनेन स्वामिन उपेक्षमाणस्य स्वाम्यहानिरुक्ता । कस्य तर्हि तत्संभवतीत्येवमर्थमुत्तरश्लोकः । मेधा.
न्यायाधिगमलक्षणोऽभिधीयत इति सूत्रार्थः । स्वस्वामिसंबन्धस्त्विति । अधिक्रियत इति शेषः । भोगानुवृत्ति रिति । उच्छिन्नदेशानां उच्छिन्नसाक्षिकाणां द्रव्याणां, यथास्वं यथायथं, भोगानुवृत्तिः अविच्छिन्नो भोगः, स्वत्वे प्रमाणं भवतीति वाक्यशेषः ।
यदिति । यत् स्वं स्वीयं द्रव्यं अन्यैर्भुज्यमानं, दश वर्षाणि उपेक्षेत, हीयेतास्य उपेक्षमाणस्य तद् द्रव्यं हीयेत । अन्यत्र बालेत्यादि । बालवृद्धव्याधितव्यसनि प्रोषितानां द्रव्यं उपेक्षमाणानां न हीयेत, अबालादीनामपि द्रव्यं देशत्यागे राज्यविभ्रमे चोपेक्षमाणानां न ये |
- विंशतिवर्षोपेक्षितमिति । तथाविधं, अनुवसितं अविच्छिन्नाध्युषितं, वास्तु गृहं, नानुयुञ्जीत न प्रार्थयेत । इह वसितपदे संप्रसारणाकरणमार्षम् । तत्रापवादमाह - ज्ञातय इत्यादि । श्रीमू.
शङ्खः
नियमतः पुरुषद्वयभोगः स्वत्वहेतुः
'पैत्रं विनाऽप्यागमेन पूर्वपुरुषाभ्यां भुक्तं लभेत । • लभेत चतुर्थादिरिति शेषः । स्मृच. ७३
मनुः भुक्तिविशेषः स्वत्वहेतुः
चिद्दश वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तलब्धुमर्हति ॥
(१) यत्किञ्चिद्भुज्यमानमिति व्यवहितेन संबन्धः धनीति संनिधानात्सामान्य निर्देशेऽपि भुज्यमानधनोपेक्षणं प्रतीयते । यत्किञ्चिदिति दासदासीसारासारभाण्डादि सर्वे ग्राहयति । न हि लोकेऽत्यन्तं धनमिति प्रसि द्धम् । गोभूहिरण्याद्येव महार्ष धनमिति प्रसिद्धतरम् । तेनायमत्र वाक्यार्थः- यत्किंचिद्द्रव्यं परेण भुज्यमानं
(१) स्मृच. ७३; प्रका. ४७,
(२) मस्मृ. ८।१४७; व्यमा ३४७ मनुनारदौ; गौमि. १२३४६ दीक. ३३३ स्मृसा. १०६ क्ष (क्ष्य) मनुनारदौ; व्यंचि. ६७; व्यत. २२२ मनुनारदौ चन्द्र. १५३ मनुनारदौ; व्यसौ. ६८ मनुनारदौ; व्यप्र. १५७ यत्किचित् (यं कश्चिद् ) स्तूष्णीं (रथं); सेतु.८८ मनुनारदौ; समु.४६; विच. १३६. .१ अवस्थिते.
(२) यत्किञ्चिद्धनजातं समक्षमेवान्यैर्दशवर्षाणि भुज्यमानं धनस्वामी तूष्णीं प्रतीक्षते, किमेतन्मा मैवं भुङ्क्ष्वेति न प्रतिबध्नाति, नासौ तत्पुनर्न्यायेन स्वीकर्तुमर्हति । *गोरा. (३) दशेति भूभिन्नधनपरम् । व्यचि. ६७ (४) प्रीत्यादिव्यतिरेकेण परैर्दशवर्षाणि भुज्यमा
नम् ।
+ व्यत. २२३
(५) प्रतिग्रहादि विना स्वत्वं नास्त्येव, किन्तु पूर्व
* ममु. गोरावत् ! + सेतु व्यतवत् ।
१ स्वमि. २ (०). ३ भोगो नि. ४ स एवं भ. ५ नर्थः कस्यापि नं. ६ स्मन्यपि ध्य. ७ तेऽभो. ८ यीया. ९ ह्यात्य. १० ज्ञा स्त्री.