________________
३७८
मित्यर्थः । क्रियाणां लेख्यक्रियाणाम् । अप. २९२ - (२) लेख्यस्योपरि यत्साक्ष्यं लेख्यसाधकतयोपन्यस्तमित्यर्थः । अधर्मस्य च तद्द्वारमित्यत्र हेतुर्वाचिकीति । तत्रापि हेतुः क्रियाणामिति । तत्राप्युपपत्तिरनवस्थेति । प्रमादपरिहारमतियत्नेन कृत्वा हि प्रायशो लेख्यं भवति । तेन तत्राप्रामाण्यशङ्कापि नोचिता । साक्ष्यादावपि तत्संभवादिति तात्पर्यम् । न तु सर्वथा तत्र साक्ष्यादि - निवर्तनमभिप्रेतम् । लेख्यपरीक्षोपदेशविरोधात् । व्यप्र. १५१-१५२ Poorvani चैव मत्तोन्मत्तकृतं तथा । एते चान्ये च बहवश्विरस्था वादहेतवः ॥ तेनैवमादिषूक्तशुद्धिं विधिरनुसंधेयो निर्णेतृभिरित्यमि-भवतीति । स्मृचं. ६७
प्रायः ।
व्यवहारकाण्डम्
मरीचि : 'लेख्यप्रमाणविषय:'
स्थावरे विक्रयाधाने विभागे दान एव च । लिखितेनानुयात् सिद्धिमविसंवादमेव च ॥ लेख्यप्रयोजनमाह मरीचिः -- स्थावर इति । आधानमाधिः । आद्यश्वशब्दः ऋणादिनिष्कृतार्थसंग्रहार्थः । अविसंवादः कालान्तरेऽपि निष्कृतार्थस्यानन्यथाभावः । एवं च स्थावरादावविसंवादेन सिद्धि - मालोच्य राजवंशवर्षादिलेखनीयानामावापोद्वापौ कार्यों । तेषां दृष्टार्थत्वात् । अतो न दानादिलेख्ये धनिकर्णिकादि लेखनीयम् । नापि ऋणादानादिलेख्ये प्रतिग्रहादिकम् । एवमन्यत्रापि लेख्ये लेख्यं समूहनीयम् । दृष्टप्रयोजनत्वालेख्यस्य । अत एवाकृतप्रयोजनस्य लेख्यस्य कार्याक्षमत्वे नाशे वा लेख्यान्तरमुत्पाद्यम् । स्मृच. ६० सिध्यते वाचिकोऽप्याधिः स्थावरेषु दशाब्दिकः ।
(१) स्मृच ६७ पधि (पाधि); प्रका. ४४ स्मृचवत् ; समु. ४६ स्मृयवत्. (२) व्यक. ६० विक्रयाधाने ( विक्रियादाने ) जिम (द्धिं स); स्मृच. ६०१ पमा १२८ ऋया (क्रिया) पू.; सवि.११७-११८ मवि (मपि); व्यसौ. ५८३ व्यप्र. १४१, १४७; विता. ११७ मविसं (मनिर्त्य ); प्रका. ३९; समु. ४२ अयोधी (क्रये दा) दान (दाय) पू., कात्यायनः
(१) व्यक.६१६ पमा.१२८ उत्त.; व्यसौ.५८ च क्रीते श्व (घु क्रीतेषु); व्यप्र. १४७, समु.४२ उत्त., कात्यायनः.
प्रतिग्रहे च क्रीते च नालेख्या सिध्यति क्रिया ।। स्थावरविषयस्त्वाधिर्दशवर्षपर्यन्तमुपभुक्तः स तथा वाचिकोऽपि लेख्यं विना सिध्यतीत्यर्थः । व्यक. ६१ वृद्धवसिष्ठः
जयपत्रलक्षणम्
येथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रं तदिष्यते ॥ मिता. टीका --- यथोपन्यस्तसाध्यार्थ इति । अस्यार्थः, साध्यार्थः प्रतिज्ञातार्थः तेन संयुक्तम् । तथा उत्तरेण द्वितीपादरूपेण क्रियया पत्रादिरूपेण च सहितम् । तथैव सावधारणकं अवधारणकं निर्णय:, तेन सहितं जयपत्र सुबो. २१९१ सेभासन्यस्तचिह्नं च वादिप्रत्यर्थिसंयुतम् ।। प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिनो दद्याज्जयिने जयपत्रकम् ॥ स्मृत्यन्तरम्
दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च । क्रयलेख्यं दासलेख्यमाधिलेख्यमतः परम् ॥ संविदुद्धारलेख्यं च जयपत्रकमेव च । संधिपत्रं तथैवैतत् क्रियाभेदादनेकधा ।। विभागपत्रमित्येतत् भागानां निर्णये कृतम् । सीमाविवादे निर्णीते सीमापत्रमिति स्मृतम् । आध्यर्थमाधिलेख्यं स्याद्दासार्थ दासलेख्यकम् | समीहितार्थसिध्यर्थं ग्रामश्रेणिगणादिभिः ।।
(१) मिता. २।९१ तदि (त्रकमि); अप. २१८४; व्यक. ६३ मितावत्; व्यचि. ३० पत्रं तदिष्यते (पत्रकमुच्यते); स्मृ. ६० न्यस्त (न्यास) बृहस्पतिः; व्यसौ. ६० व्यचिवत् ; व्यप्र. १४६ व्यचिंवत् व्यउ. ४४ साव (स्वाव) शेषं मितावत्; विता. १२१ मितावत्; समु.४० मितावत् .
(२) समु.४०. (३) मिता. २।९१; अप. २।८४; व्यक. ६३ पू.; स्मृच.५७ दिनो ( दिनो ); पमा. १२४ वसिष्ठ: 5 व्यचि. ३० हस्ता (मुद्रा) पू. नृप्र. ११ नो (ने) ज्जयि... कम् ( ज्जयपत्रं तदुच्यते) वसिष्ठः सवि. ११२ त्रकम् ( त्रिकाम्); व्यसौ.६० व्यचिवत्, पू.; व्यप्र. १४६ पू.; व्यउ. ४४ थें (द्धार्थ); विता. १२१; प्रका. ३४ स्मृचवत्; समु. ४० स्मृचवत्. (४) प्रका. ३९ थैव च ( थाऽपरम् ) बृहस्पतिः; समु.४२. (५) समु. ४२.