SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ लेख्यम् वस्तुना भिन्नं भवति । अथवा चौरैर्गृहीतं भवति । अथवा प्रधाननामाक्षराङ्कप्रदेशेषु कुत्सितलिखिताद् उन्मृष्टं भवति । अथवा पतितत्वान्नष्टं भवति । अथवा दुर्लिखितमिति प्रधानाङ्कस्थाने संजातन्यूनाधिकाङ्कदोम् । सहस्रे प्रयुक्ते एकाङ्कस्योपरि कुलेखको बिन्दुद्वयमेव यदा ददाति तदा तत् शतमेव भवति । नवशतानां मूल• नाशः संभवति । अथवा शते प्रयुक्ते एकाङ्कोपरि शून्यत्रयं ददाति तदा धनिकदोषाद् ऋणिककृतसहस्रमिथ्याप्रयुक्तशतस्यापि प्रणाशः । अथवा न्यूनाधिकप्रधाननामाक्षरम् | 'ग्राहको गोसम:' इति लेखनीये मि (ग ?) लितैकाक्षरम् — लिखितागमः । अयं नाक्षरदोषः । अथवा ' ग्राहको गोसम:' एवं लेखनीये लिखितं " समः' । एवमूनाधिकाङ्काक्षरप्रधान स्थान भ्रान्तिकारि दुर्लिखितमुच्यते । एवं च तेषु दग्धभिन्नहृतच्छिन्ननष्टदुर्लिखितदोषैः अवसन्नभूतेषु पुनरपि कालान्तरे कालदायकद्रव्यफलप्रमाणादीनामविस्मरणार्थं कर्तव्यमन्यल्लेख्यं स्यादित्युक्तं महर्षिणा । तच्च तेन निश्चितं कर्तव्यमिति धनिकर्णिकयोर्विशेषनामोच्चारणं न कृतम् । यथासंभवकृते लेख्यप्रमाणार्थं यदि ऋणी प्रत्यक्ष एव तिष्ठति, तदासौ धनिना अन्यलेख्यकरणाय विधारणीयः । तेनाप्यवश्यमेव करणीयमन्यल्लेख्यं स्यादिति । अथ कदाचिंद् ग्राहको मृतः, दूरदेशान्तरे व्यवहितो या वर्तते, यंत्रास्य वा यं एकतमः प्रमादः संपन्नः, तदा धनिनैवात्मना नित्यानित्यतालोचनस्थितेन स्वसंततेरनष्टद्रव्यसंबन्धकरणार्थिना अल्पं भूर्जचोरकं वा समानीयान्यं लेखकमाहूय तथैव तदवस्थितनवाङ्कक्रमपरिपूर्ण तेनैव धनिना कर्तव्यमन्यलेख्यं स्यादेवं लेख्यविधिः स्मृतः । अभा. ६२-६३ (२) यदि तु अविप्रतिपत्तिदशायामेव पूर्वलिखनानुसारेण लिखनान्तरं क्रियते तदा तदपि प्रमाणमेव । चन्द्र. १३२ (३) छिन्नं मूषिकादिभिः । भिन्नं छिद्रितं पिपीलिकादिभिः । हृतं चोरादिभिः । उन्मृष्टं ध्वस्ताक्षरमुदककालादिना । नष्टं पतितं विस्मृतम् । दुर्लिखितेऽवधीरिते लेख्यमन्यच्छुद्धं कर्तव्यम् । एष लेख्यविधिः स्मर्यमाणः । . नाभा. २।१२३ ३६३ बृहस्पतिः लेख्यप्रकाराः तलक्षणानि च सोक्षिणामेष निर्दिष्टः संख्यालक्षणनिश्चयः । लिखितस्याधुना वच्मि विधानमनुपूर्वशः ॥ षण्मासिकेऽपि विषये भ्रान्तिः संजायते यतः । धात्राऽक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा । लेख्यं तु त्रिविधं प्रोक्तं भिन्नं तद्बहुधा पुनः ॥ भगदानक्रयाधान संविद्दासऋणादिभिः । सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥ (१) अत्रापि न संख्या विवक्षिता । अधिकानामपि लेख्यानामेतेभ्यो दर्शितत्वादत एवात्रादिग्रहणं कृतम् । अन्यथा गणितैरेव सप्तविधत्व सिद्धेरादिग्रहणमपार्थ स्यात् । तेनैव तत् ज्ञायते लेख्यसंख्यानवधारणार्थेति । अतो विविधसंख्यावद्वचनानामविरोधः । स्मृच. ६० (२) यत्पूर्वमुदाहृतं 'लिखितं दशधा स्मृतम्' इति तद्विशदत्वेन संपन्नम् । लौकिकस्य सप्तविधत्वात् । राजपत्रस्य त्रिविधत्वात् । शासनमेकं, जयपत्रं द्वितीयं, आज्ञाप्रज्ञापनपत्रयोरेकीकारेण तृतीयं द्रष्टव्यम् । पमा. १२१ T (१) व्यमा ३३६ मेष ( मेव) निश्च (निर्ण) विधानम (यथावद); व्यक. ६ ०; पमा. ११९; व्यसौ. ५७ निश्च (निर्ण); व्यप्र. १४१; प्रका. ३५ प्रजापतिः; समु. ३९. (२) व्यमा ३३६; व्यक. ६०; पमा ११९ षा... ये (ऋणादिकेऽपि समये); व्यचि . ६२ विष (सम); स्मृचि.४२ व्यचिवत् ; व्यत. २२० व्यचिवत्; व्यसौ. ५७ व्यचिवत् ; व्यप्र. १४१ यतः (नृणाम् ) शेषं व्यचिवत्; प्रका.३५ पमावत्, प्रजापतिः; विव्य. १५ विष (सम) सृष्टानि (शस्तानि ). (३) व्यमा ३३६; अप. २।८४ तु (तत्); व्यक. ६०; पमा ११९ भि... पुनः (विदुरेवं बुधाः पुनः ) ; नृप्र. ११ भिन्नं (आद्यं); व्यसौ.५७-५८ खितं ( खनं ) ; व्यप्र. १४१३ व्यम. ११; प्रका. ३५; समु. ३९ बहुधा (दशधा ). (४) शुनी. ४।६६८-६६९ भाग (भोग) लेख्यं ( चैतत् ); व्यमा ३३७ क्रया (क्रिया); अप. २।८४ धान (धीनां); व्यक. ६०; स्मृच.६०; पमा.११९ धान (धानं ) ; नृप्र. ११ व्यमावत् ; व्यसौ. ५८ व्यमावत्; व्यप्र. १४१ व्यमावत्; व्यम. १२ विता. १२९द्दास (हास्य); प्रका. ३९व्यमावत ; मु. ४२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy