________________
व्यवहारकाण्डम्
३३४
इति मदनरत्नाकरः ।
वयं तु गुणवत्त्वस्यैव ' शतमप्यन्धानां न पश्यति' 'एकेनापि बहूनां प्रतिबन्धाच्च' इत्यादिन्यायेन प्राधान्यात् गुणवतः साम्ये वादिनिर्दिष्टानामेकस्याप्यन्यथावादित्वे संख्याधिक्येऽपि गुणवत्तरत्वाभावे सर्वेष्वसा - क्षित्वम् । 'द्वैधे बहूनां' इत्यत्रापि विनिगमकान्तरा भावे बहुत्वमेव विनिगमकमत एव संख्यानपेक्षमेव गुणवत्तमत्वमात्रं ग्राह्यवचने हेतुमाहेति ब्रूमः ।
*व्यप्र. ११५
द्वृत्तिजीविनो ये च तत्सेवाहितकारिणः । तद्वन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः ॥ मातृष्वसृसुताचैव पितृष्वसृसुतास्तथा ॥ मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः । एते सनाभयः प्रोक्ताः साक्ष्यं तेषु न योजयेत् ॥ कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ॥
* अत्र वाचस्पतिमतमप्युध्दृतं प्रकाशकारेण तच्च व्यमागतम् ।
(१) व्यमा.३२४; अप.२।७१ ; व्यक. ४७; स्मृच. ७७३ स्मृचि.४६ उत्त., बृहस्पतिः ; चन्द्र.१४११ व्यसौ. ४५१ व्यप्र.११९; विता.१६० तत्सेवा (ये च तत्) ते तु न ( चैव न); प्रका. ५०; समु. २८३ विव्य. १३ सेवा (समा).
(२) व्यमा.३२४ (मातृस्वसुः सुताश्चैव विवाह्यो भगिनीपति:); अप. २ ७१ पितृ... स्तथा (विवाह्यो भगिनीपतिः); व्यक. ४७ व (स्व); व्यप्र. ११९ मातृष्वसृ (मातृष्वसुः ).
(३) अप. २ ७१ उत्त; व्यक. ४७ र्य (र्याः) प्रोक्ताः (तूक्ता:); स्मृच.७८ मातुलस्य (मातृष्वसुः ) र्य (र्या) प्रोक्ताः (तूक्ता: ); पमा. ९९ मातुलस्य (मातुः स्वसुः) प्रोक्ताः (तूक्ताः); व्यचि. ४३ मातुलस्य ( मातृष्वसृ ) प्रोक्ताः (तूक्ता: ) योजयेत् (विद्यते); स्मृचि.४६ साक्ष्यं तेषु (तेषु साक्ष्यं); चन्द्र. १४१ मातुलस्य (मातृष्वसृ) र्य (र्या) प्रोक्ताः (तुक्ता: ) शेषं स्मृचिवत्; व्यसौ. ४५ मातुलस्य (मातृष्वसृ) प्रोक्ताः (तूक्ता:); व्यप्र. ११९; प्रका. ५० स्मृचवत् समु. २९ मातुलस्य (मातृष्वसृ ) र्य (र्या) प्रोक्ताः (तूक्ताः); विव्य. १३ मातुलस्य (मातुः स्वसुः ) र्य (र्याः) साक्ष्यं... येत् (तेषु साक्ष्यं न विद्यते ).
(४) व्यमा ३२४ उत्त.; अप. २०७१ श्वशुरो गुरवस्तथा (सोदर्यासुतमातुलाः); व्यक. ४७; स्मृच. ७८६ पमा. १०० उत्त.; नृप्र.१० उत्त.; व्यसौ . ४५ कुल्याः (अन्याः) ; व्यम. ११९; प्रका. ५०; समु. २९; विव्य. १३ पू.
! नगरग्रामदेशेषु नियुक्ता ये पदेषु च । वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ।।
(१) ये कुल्यादयो राजपुरुषान्ताः प्रकीर्तिताः ते साक्ष्यं कर्तुं न पृच्छेयुः । न साक्षिणः स्युरित्यर्थः । ननु अयमसाक्षिकथनप्रपञ्चो व्यर्थः । लक्षणोक्त्यैवार्थाद्विलक्षणानामसाक्षित्व सिद्धेः । सत्यमेवं, तथापि यत्र सर्वथाविहितसाक्षिणामभावः तत्र मनुष्यमात्रस्य साक्षित्वं नयेत् । 'न ये केचिदनापदी' ति मनुवचनात्प्राप्तं, तत्र केषांचित्प्रतिषेधार्थं 'नार्थसंबन्धिनो नाता' इत्यादिवचनरचना कृतेत्यर्थवानेवायं प्रपञ्चः । एवं च लक्षणान्वितसाक्षिणामलाभे प्रतिषेधराहित्य मात्रशालिनां साक्षित्वं विहितमित्यनुसंधेयम् । स्मृच.७८ (२) न पृच्छेयुः भवदीयो विवादः कीदृश इति तैर्न प्रष्टव्यम् ।
न क्रुद्धैर्नापि संसृष्टैर्नासीनैर्न रुजान्वितैः ।
निन्द्यैर्नापि संमूढैः साक्षिभिश्च विचारयेत् ॥ विरुद्धा वर्गिणः स्युश्चेत् साक्ष्यं वर्गस्य न क्वचित् ॥ यः साक्षी नैव निर्दिष्टो नाहूतो नैव दर्शितः । ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥ अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः । प्रत्यर्थी वा मृतो तत्र तत्राप्येवं प्रकल्पयेत् ॥ नैं साक्ष्यं साक्षिभिर्वाच्यमपृष्ठैरर्थिना सदा । न साक्ष्यं तेषु विद्येत स्वयमात्मनि योजयेत् ।।
पमा १००
(१) अप. २।७१; व्यक. ४७ क्ता ये (क्तार्थे) भक्ता (उक्ता); स्मृच. ७८; पमा. १००; नृप्र. १० क्तास्ते (क्ता ये); चन्द्र. १४१ पदे (परे) भक्ता (उक्ता); व्यसौ. ४५ भक्ता (उक्ता);
प्रका. ५०; समु. २९.
(२) व्यक. ४७ न निन्यै ( नानिन्यै) श्व विचारयेत् (स्तु विभाव्यते); व्यसौ.४५.
(३) व्यक. ४७ वर्गिणः(वर्जिताः) वर्गस्य (वृद्धस्य); व्यसौ. ४५. ( ४ ) शुनी. ४।६८९ दर्शि (देशि); व्यमा ३२६ नैव ( नापि ); व्यक. ४८ नैव दर्शितः (नापि चोदितः ); व्यचि. ४१; - व्यत. २१६ हृतो (भूतो); व्यसौ. ४६ व्यमावत् ; व्यप्र. ११५. दर्शि (देशि); सेतु. १२५ व्यप्रवत्.
(५) व्यक. ४८; व्यसौ.४६ वा (च) कल्पयेत् ( कल्प्यते); बाल. २।६९ विपन्न: ( विषण्णः ). ( ६ ) व्यमा. ३२६.