________________
साक्षी
३२१
भवति । यथा यस्मिन् देशे यस्मिन् काले यस्मिन्पत्रे शताभियोगे पृष्टः स साक्षी तस्मिन्नेव देशाधिके यद्येवमाह नाहमस्य शतग्रहणं जानामि किन्तु पञ्चाशदिति न्यूनं सार्धशतग्रहणं जानामीति चाधिकमेवाभिधत्ते । तदाप्यनभिहितमेव उभयत्राप्यन्यतरप्रतिज्ञासत्यतायां विनिगमकाभावात् ।
स्मृसा. १९१९ (४) त्वं मह्यं हेम्नां शतस्य धारयसि एष च तद्वेदे - त्युद्दिष्टः साक्षी यत्र दिव्यं निगदति संख्यायां तु मुह्यते तत्र द्रव्यांशे तन्निगद निरस्तसंशयमपहायानिर्णीतसंख्यांशे मानान्तरमनुसरणीयमित्येके, द्रव्यांशेऽपि क्रियान्तरमिति संप्रदायः । * व्यचि. ५८ (५) निर्दिष्टेष्वर्थजातेषु गोभूहिरण्यादिषु साक्ष्य आ गते साक्षिप्रश्नकाले यदि साक्षी न ब्रूयात् अक्षरसमम् । 'अयं मम हिरण्यं धारयति अयं मे साक्षी' इति स पृष्टः 'सत्यं जानाम्यहं न न जानामी' त्यक्षरसममेतत् । अतोऽन्यथा ब्रूयात् ‘अस्य ग्रहीतुर्वाह्यं नीयमानं दृष्टमिति, न तन्निगदितं भवेत् न तत् साक्ष्यं दत्तं भवति । अक्षरानुरूपं भाषयितव्यः सः । नाभा. २१२०८ 'देशकालवयोद्रव्यप्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथा ॥ (१) एवं च ऋणादौ स्थिरकर्मणि अन्यूनानतिरिक्तं पृष्टार्थसमर्पकं साक्षिवचनं प्रमाणं नान्यदित्यनुसंधेयम् । स्मृच. ९१ (२) देशश्च कालश्च वयश्च द्रव्यं च प्रमाणं चाकूतिश्च जातिश्चेति देशादयो द्वन्द्वाः । तेषु विप्रतिपत्तिः स्यात् देशे अन्यथा लिखितमन्यथा साक्षी ब्रूयात् ' गृहे मया दत्तं अत्रैते ज्ञातार ' इति लिखिते ' क दीयमानं दृष्टं युष्माभिरिति पृष्टाः देशान्तरं यदि ब्रूयुः 'आपणे त्रैविद्यामण्टपे वे'ति, एवं काले 'पूर्वाह्न ' इति लिखिते ' अपराह्न ' इति ब्रूयुः, वयसि
- 'दम्य'
नं वयमिति उभयेषां च सतां साम्यं किं पुनर्विवक्षया समक्षदर्शनमिति विनिश्चय एव नोपपद्यते । ततश्च तन्नि मित्तोत्पन्नस्य साक्ष्यस्याभाव एवेति- साक्ष्यं व्यावर्तते साक्षिण एव ते न भवन्तीति । एवं च कृत्वा प्राक्प्रति ज्ञातभेदादसाक्षिण इति समर्थितं भवतीति । अभा. ७१ (२) स्मृतिमतां साम्यं यस्मिन् व्यवहारे दृश्यते, तीक्ष्णत्वात् प्रत्यवाय बहुलत्वात् औदासीन्यादीनत्वाच्च साक्षिधर्मस्य विरुद्धवादिनोर्गुणयोः, तत्र योऽन्यैः साक्षिमि देवेन धा शुध्यति, तद्वचो ग्राह्यम् । स च वादी जयति । इतरः साक्षिवर्गः स च पक्षो यस्य स दण्ड्यः । अथवा साक्ष्यं व्यावर्तत इति ततः परं साक्षिव्यापारो नास्ति, तत्र दैवेन वान्यैर्वा साक्षिभिर्नेयः, दण्डश्च पराजितस्य साक्षिवर्गस्य ।
नाभा. २।२०७
साक्षिरहिती वादी पराजीयते स्वसाक्षिवर्जितो यस्तु दैवाद्वादी. कथञ्चन । उद्धारं तस्य नेच्छन्ति दिव्येनापि मनीषिणः ॥ साक्ष्यस्य परीक्षा 'निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते । न ब्रूयादक्षरसमं न तन्निगदितं भवेत् * ॥
(१) अतो भाषायामुत्तरे वा यावानर्थों निर्दिष्टस्तस्येत्येवार्थे यदि साक्षित्वमागतः स्वीकृतस्तावन्तमर्थे न ब्रूयात् तदा तेनाऽकथितमेव भवेदित्यर्थः । व्यमा. ३१२
(२) साक्ष्य आगते साक्ष्यवादावसरे । अक्षरसमं अक्षरानुरूपं, पृष्टार्थमिति यावत् । अनेनाष्पृष्टार्थसमर्पकमपार्थमित्युक्तम् । स्मृच. ९०
(३) तथा यत्रापि न्यूनातिरिक्ताभिधानं साक्षिणो *अत्रत्या अभा.व्याख्या लेखकप्रमादान्मध्ये त्रुटिता तस्मान्नोद्धृता । (१) नास्मृ. ४।२३१.
(२) नासं. २।२०८; नास्मृ. ४।२३२३ अभा. ७२ रसमं (रं सम्यक् ); व्यमा ३१२ चेत् (तत्) आगते ( मागत :) : ३३३ आगते (मागतः ); व्यक. ६० आगते ( संग्रहः ) ; स्मृच. ९०; पमा. ११४ बृहस्पतिः; स्मृसा. ११९,१२१ आगते (मागतः ); व्यचि.५७ स्मृसावत्; सवि. १४७ कात्यायन: ; चन्द्र. १५२ (निर्दिष्टश्वार्थजातश्च साक्षी चेत्साक्ष्यमागतः । समं (पद) दितं (दनं); व्यसौ. ५७ गते (गतः); वीमि २२७९ चेत् साक्ष्य आगते (साक्ष्यत्वमागतः) न तन्निगदितं (तन्नैव गदितं); व्यप्र. १२९ स्मृसावत्; प्रका. ५९६ समु. ३७; विग्य. १४ उत्त. ग्य. का. ४१
"
--
* वीमि व्यचिगतम् ।
(१) नासं. २२०९; नास्मृ. ४१२३३१ विश्व. २१८१३ व्यक. ६०; स्मृच. ९० चान्थथा (विप्लुतम् ); दीक. ३९ चान्यथा ( कुत्सितम् ); स्मृसा. १२१ दीक्रषत् चन्द्र. १५२ दीकवत् व्यसौ. ५७ दीकवत् ; व्यप्र. १२९ दीकवत् प्रका. ५९ स्मृच•
वत् समु. ३५ स्मृचवत्.