________________
साक्षी
३१७
वचनं, तत् परिहर्तव्यमिति नृतनिन्दार्थमुच्यते ' अस वचने इयत् फलमवाप्नोति तस्मात् सत्यं ब्रूहीति उपदपीति ।
पद्यते स्तुतिः ।
नाभा. २।१८९
1
वेरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद् वरम् ॥ परत्वं भूयःफलत्वम् । कूपशताद् वापी भूयः फला, सर्वप्राण्यनुग्रह भूयस्त्वात् । भूतानुग्रहस्य च दुःखनिवृत्तिहेतुत्वात् । वापीशतफलाद् भूयः फलत्वं क्रतोः, श्रुतिविहितफलत्वात् । ' त्रयः प्राञ्चः त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनमुष्मिँलोक उपजीवन्ती' ति श्रुतेः । तच्छतादपि भूयः फलः पुत्रः । ' पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पौत्रस्य पुत्रेण ब्रध्नस्याप्नोति विष्टपम्' | 'नापुत्रस्य लोकोऽस्तीति च स्मृतेः । क्रतोरदृष्टफलत्वात् दृष्टादृष्टफलत्वाच्च पुत्रस्य । ततोऽपि भूयः फलं सत्यं, सर्वप्रकृष्टाश्वमेधसहस्रातिरिक्तफलत्वात् । तस्मात् सत्ये स्थिरो भव, अनृतं मा वादीरिति । नाभा. २।१९०.
नाभा. २।१८६-१८७ सत्यो क्तिप्रशंसाऽनृतोक्तिनिन्दा च ऐकमेवाद्वितीयं तत्प्राहु: पावनमात्मनः । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ इत आरभ्य सत्यप्रशंसा यावदनृतनिन्देति । एकमेवाद्वितीयं तथाभूतमन्यत् नास्तीति प्राहुः । शोधन मात्मनः । अन्यदप्यस्ति, तत् सशेषं शोधयति यज्ञादि । इदं त्वद्वितीयं निरपेक्षमशेषं शोधयतीत्यर्थः । किं पुन स्तत् । सत्यमेव । अत एव स्वर्गस्य सोपानम् । यथा हर्म्यललस्य सोपानं तथा स्वर्गमारोढुं मार्गः । पारावारस्य समुद्रस्येति केचित् महानद्याः गङ्गादेः परकूलस्ये त्यन्ये, यथा नौरिति । नाभा. २।१८८ - अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात्तु सत्यमेव विशिष्यते ॥
'ब्रह्महत्याश्वमेधाभ्यां न परं पुण्यपापयोः' इत्यश्वमेधः पुण्यानामुत्कृष्टः । ततोऽपि भूतोक्तिः सत्यम् । न तयोः समत्ववैषम्य चिन्तया प्रयोजनं, फलद्वारेणोत्कर्षापकर्षचिन्ता | उत्कर्षश्चापकर्षश्च तत्फलयोरेव वा । ते तुलया समधारयत् । तथाभूतप्रकृष्टपुण्यसाधनाश्वमेधसहस्रादपि सत्यं व्यतिरिच्यते । यस्यावभृथस्नानादपि ब्रह्महत्यायाः पूयते किं ततः परम् ? तत्सहस्रादपि सत्यमतिरिच्यते । तस्मात् सत्यसमं नास्तीति सत्यस्तुतिः । जन्मप्रभृति आ मरणात् सत्यवचनस्यैषा स्तुतिः, आहोस्विदेकैकस्येति ? यदि जन्मप्रभृत्युक्ता, इह साक्ष्यश्रवणे फलं मन्दम् । अन्यथाक्रान्तत्वादिह सत्यवचने फलाभावात् । अथ एकैकस्य, इह सत्य
(१) नासं. २।१८८; नास्मृ. ४।२१०; अभा. ७१ तत् (तु); व्यमा ३३१ उत्त; व्यक. ५२ तत् प्राहु: (यत् प्रोक्तं ); व्यचि.४९ तत् (यत्); स्मृचि. ४७ उत्त; चन्द्र. १४७ व्यचिवत् ; व्यसौ . ५० व्यचिवत् .
(२) नासं. २।१८९; नास्मृ. ४२११६ अभा. ७१; व्यमा. ३३१ च (तु) त्तु (द्धि) उत्त; व्यक. ५२ व्यमावत्, विष्णुनारदौ; व्यचि. ४८ तु (द्धि) मेव (मेवा) विष्णुनारदौ; स्मृचि. ४७ तु (द्धि) व विशिष्यते ( वातिरिच्यते ); व्यत. २१५ स्रं च (स्रं तु) शेषं स्मृचिवत् ; चन्द्र. १४७ स्मृचिवत्; व्यसौ. ५० स्मृचिवत्; सेतु. १२२ तु (णि) शेषं स्मृचिवत्.
भूर्धारयति सत्येन सत्येनोदेति भास्करः । सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ पृथिव्यादीनां सत्येन संबन्धाद् धारणादिप्रतिज्ञाया अपरित्यागादेतान्यचेतनान्यपि स्वकार्यमुत्पत्तिप्रभृत्यव्यभिचारेण सत्येन कुर्वन्ति, किमुत चेतनावानिति सत्यस्तुतिः । नाभा. २।१९१ सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः ॥
(१) नासं. २।१९० वरं (परं); नास्मृ. ४।२१२; अभा. ७१; व्यमा ३३१; व्यक. ५२; व्यचि. ४९ क्रतुः (हर:) ऋतुशतात् (शतहदात् ); स्मृचि. ४७३ चन्द्र. १४८; व्यसौ. ५०.
(२) नासं. २।१९१ देति भास्करः ( दयते रविः) ; नास्मृ. ४।२१३ पव (प्लव); अभा. ७१; व्यमा ३३१ भू... सत्येन ( सत्येन भूर्धारयति); व्यक. ५२ नास्मृवत्; व्यचि. ४९; चन्द्र. १४८; व्यसौ.५०.
(३) नासं. २।१९२; नास्मृ. ४। २१४ वै श्रुतिः (नः श्रुतम् ); अभा. ७१ वै (नः); व्यमा ३३१ नास्मृवत् ; व्यक. ५२. नास्मृवत्; स्मृच.८६ वै (नः) ; पमा. १०८ वै श्रुतिः (हि स्मृतिः); व्यचि. ४९ दानं (धाम ) वै श्रुति: (निश्चितम् ); स्मृचि.४७ दानं (धाम) वै श्रुति: (नः श्रुतम् ); चन्द्र. १४८