________________
३०८
संयोगात् ।
अभा. ६८-६९
अप. २७१
(२) कीनाश: हालिकः । (३) विषजीवी विषस्य संग्रहणरक्षणादिव्यापारे नियुक्तः । स्मृच. ७८
(४) शैलूषो नटभिन्नरङ्गोपजीवी विवक्षितः । विषजीवी विषवैद्यः । व्यचि.४३-४४ (५) एतेऽधर्मप्रायाः साहसिकत्वात् । गरदो विषदः । अनिदो गृहाणां दाहकः । रूढ एवायं गृहदाहकादिषु । एतौ निःश्रीकत्वात् । कीनाशः कृपणः, परकर्मकर इत्यन्ये । शूद्रेव शूद्रा द्विजातिस्त्री व्यभिचारिणी, तत्पुत्रः । उपपातकाः उपपातकिनः । नाभा. २।१६०
(६) शैलूषः स्त्रीणां नर्तयिता । कुशीलवस्तु रङ्गोपजीवी नद इति भेदः । विषजीवी विषक्रयजीवीति मदनरत्ने । उपपातितः उपपातकीति कल्पतरुः । मदनरत्ने तूपपातक इति पठितम् । उप समीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्याख्यातं च । व्यप्र. ११८ क्लान्तसाहसिकश्रान्तनिर्धनान्त्यावसायिनः । भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः ॥
(१) तत्र क्लान्तः खिन्नः । साहसिकः प्रसह्याऽयुक्तकारी । श्रान्तः निःसङ्गः । निर्धनो द्यूतादिव्यसनदोषाद् हृतसर्वस्वः । अन्त्यावसायी चण्डालः । भिन्नवृत्तो मिथ्यादृष्टिः । असमावृत्तो ब्रह्मचारी प्राक् स्नानात् । जडो निरिन्द्रियः । तैलिकः चक्रादितैलिकचाक्रिकः । मूलिको मूलद्रव्यविक्रयजीवन इति ।
व्यवहारकाण्डम्
भिन्नवृत्तो दुराचारः । पौपिकः पूपाद्रिविक्रयी ।
(१) नासं. २।१६१ कथा (काशा) धनान्त्या (धूतान्ता) तास (यस) जड (झल); नास्मृ. ४।१८२; अभा. ६९ निर्धनान्त्या (निर्धान्तान्त्या); अप. २७१ धंना (धूता) तास (त्ताः स) मूलि (पौपि); व्यक.४६ धंना (र्धूता); स्मृच. ७८ (कान्तसाहसिकाशान्त निर्धूतान्तावसायिनः । हीनवृत्तासमावृत्ता जडतेलिकपौपिकः॥); पमा ९८ वृत्त (वृत्त्य); व्यचि. ४३ कश्रा (काश्रा) धना (धूता); चन्द्र. १४० सिक (सिका) नान्त्या (धूताग्न्या) मू (लौ); व्यसौ.४३ चन्द्रवत्; व्यप्र. ११७ सिक (सिका)र्धना (र्धूता); प्रका.५० पूर्वार्धं नासंवत्, त्तज (त्ता ज ) तैलिकमूलिकाः (लैलकपौपिकाः); समु.२९ पूर्वाधं नासंवत्, ( भिन्नवृत्तसमावृत्तजडतेलपरैपिकाः).
अप. २७१
स्मृच. ७८
(३) अश्रान्तः अयोग्यकारी । निर्धूतः ग्रामराजकुलश्रेण्यादिभिर्निः सारितः । भिन्नवृत्तः स्वधर्मानवस्थितः । मूलिकः, मूलं विप्रलम्भः, तत्कारी । व्यक. ४६ (४) असमावृत्तो नैष्ठिकब्रह्मचारी । तैलिकः तिलघाती महायान्त्रिक इति यावत् । (५) अन्त्यावसायी क्रोधादिना संस्कृताग्निनिर्वापकः । भिन्नवृत्तः स्वकर्मत्यागी । असमावृत्तः अकृतसमावर्तनः । तैलिकः तिलविक्रयी । *व्य चि. ४४ (६) 'स्तेना: साहसिका' इति प्रसह्यकारिण इत्युक्ताः । इह त्वप्रत्ययकारी । अशान्तोऽयोग्यकारी । अयोग्यकारित्वाद् यत् त्किञ्चनकारित्वाच्च । निर्धूतो ग्रामराजकुलश्रेण्यादिभिर्निष्कासितः वर्जितः, प्रत्यक्षदृष्टदोषत्वात् । अन्तावसायिनः चण्डालादयः, अयोग्यत्वात् साध्वाचारे । भिन्नवृत्तयः स्वधर्मेऽनवस्थिताः तेनैव स्वहस्तो दत्तोऽप्रामाण्ये । असमावृत्तः, पूर्व स्त्रीबाल इत्युक्तत्वादिदानीं ब्रह्मचारी गृह्यते नैष्ठिकः । झलश्चारणजातीयः । तैलिको महायन्त्रिकः । मूलिको मूलैर्विप्रलम्भकः । गुरुकुलाधीभत्वादुपमर्दकत्वात् विप्रलम्भकत्वाच्च नैष्ठिकादयः ।
नाभा. २।१६१
अभा. ६९
(७) क्लान्तोऽतिखिन्नः। अश्रान्तोऽनवरतकर्मकारीति मदनरत्ने । अशान्त इति पठित्वाऽयोग्य कर्मकाति रत्नाकरे । निर्धूतो बान्धवैरत्यक्त इति मदनरत्ने । (२) निर्धूतो बहिष्कृतः। अन्त्यावसायी प्रतिलोमजः । ग्रामराजकुलश्रेण्यादिभिर्निः सारितः इति रत्नाकरे । लोकभयशून्य इति भवदेवः । मूलं विप्रलम्भस्तत्कारीति कल्पतरुः । ' मूलकर्म तु कार्मणम् ' इत्यमरकोशात्तत्कारीत तु युक्तम् । अपरार्केण तु पौपिक इति पठित्वा पौपिकः पूपादिविक्रयीति व्याकृतम् । व्यप्र. ११८ भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥
"
* चन्द्र व्यचिगतम् ।
(१) नासं. २।१६२; नास्मृ. ४।१८३; अभा. ६ ९; अप. २|७१; व्यक. ४६ भग (बक); स्मृच. ७८; पमा. ९८६
व्यचि.४३ वृत्तयः (विक्रयः ) ; चन्द्र. १४०६ व्यसौ. ४४; व्यप्र. ११७-११८; प्रका. ५०; समु. २९.