SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २९४ ब्यवहारकाण्डम् तथा चापराकऽपि 'ब्राह्मणश्वेदेवंविधस्तं विवासयेन्नतु दण्डयेत्' इत्येवं व्याचख्यौ । क्षत्रियादीनां तु दण्डदानासामर्थ्यं स्वजात्युचितकर्मकरण निगडबन्धनकारा - गृहनिरोधनादि तावत् द्रव्यसमीकरणानुरूपं बोध्यम् । सर्वेषामपि निह्नवकारित्वे समानदोषत्वात्सर्वेऽपि प्रत्येकमष्टगुणं दण्डाः । व्यप्र. १३७ (९) मिता. टीका -- ननु 'यः स' इति सामान्योक्त्या पादत्रयोक्तदण्डस्य सर्ववर्णविषयत्वं सकृदपराधेनाभ्यासे तद्गमकाभावात्, ' तमोवृत' इति हेतूक्त्या तत्रापि लोभादिसारया सामान्यपरिज्ञानविषयत्वलाभेऽपि न तद्विशेषपरिज्ञानविषयत्वं गमकाभावात् । एवं साक्ष्यङ्गी - कारादिपूर्वकनिह्नवदोषस्य पूर्वत आधिक्येन द्विगुणदण्डादष्टगुणदण्डोक्तावपि तद्वदत्राप्यन्यविषयत्वं न ब्राह्मणविषयत्वं तत्र विवासनस्यैव व्यवस्थापितत्वात्तुर्यपादेन | एवं सति अत्र तु पादेन सामान्यप्राप्ताष्टगुणदण्डापवादेन विप्रस्य कथं विवासनविधि: ? न हि पूर्वदण्डोऽपि महाविषयक एवेति वक्तुं शक्यः तत्र विवासनस्यैव व्यवस्थापितत्वादत आह— ब्राह्मणमिति । त्वर्थमाह-- पुनरिति । स्वल्पविषये बहुदण्डस्यायोग्यत्वात् । तत्र ब्राह्मणे अर्थदण्डस्यानुपदमेव व्यवस्थापितत्वादाह - अष्टगुणेति । अयं भावः-यद्यपि सामान्येनार्थदण्ड उपदिष्टो योगिना तथापि तद्दानसमर्थे प्रत्येवायमुपदेशो नासमर्थ प्रतीत्य वश्यं वक्तव्यमन्यथा मुनेर्भ्रान्तत्वापत्तिस्तथा च ब्राह्मणस्यापि तत्सामर्थ्यं तद्विषयेऽयमेव मुख्यः, तदसंभवेऽनुकल्पो विवासनम् । एतद्वैलक्षण्यसूचक एव तुः । सर्वथा तस्य शारीरदण्डाभावेन सेवादिनिषेधेन चानुकल्पान्तरस्यासंभवात्सर्वथा दण्डाकरणे राज्ञो दोषश्रव गात् प्रागुक्तविवासनमेव तस्यानुकल्प इति । एतेन प्रधानक्रियानिरूपितवैलक्षण्यसूचकतुशब्द विरोधात् 'अदृष्टगुणे त्यादि (मिता.) चिन्त्यमिति वीरमित्रोदयोक्तमपास्तम् । पुनः सष्टार्थमाह - विवेति । *बाल. साक्षिणां सत्यवचनापवादविषयः । तादृशानृतोक्तिप्रायश्चित्तम् । वर्णिनां हि वयो यत्र तत्र साक्ष्यनृतं वदेत् । 6 * तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ (१) ‘ यः साक्ष्यमि’त्यस्यापवादमाह – वर्णिनामिति । शूद्रेण तु दानादय इत्यभिप्रायः । चतुर्ष्वपि भवा ब्राह्मणादयो वर्णिनः । तेषां यत्र साक्षिणि सत्याभिधातरि वधः स्यात्, तत्र साक्षी अनृतं वक्तुमर्हति । सदोषमपि गुणभूम्नाऽनृतवचनमभ्युपगम्यते । तथा च गौतमः -- 'नानृतवचने दोषो जीवनं चेत्तदधीनम्' इत्युक्त्वाह 'न तु पापीयसो जीवनम्' इति । अदोषवचनं चाल्पदोषाभिप्रायं प्रायश्चित्तविधानसामर्थ्याद् द्रष्टव्यम् । एतच्च न्यायप्राप्तमेव मन्दबुद्धिप्रतिबोधनाय । प्रायश्चित्तविधानाच्चावश्यकर्तव्यताऽत्रोच्यते । अन्यत्रापि गुरुलघुत्वे समीक्ष्य पापस्याप्यनुष्ठानं प्रायश्चित्तं च तदपनुत्तये कार्य यथा स्यात् । धर्मान्तरोपयोगित्वाच्चैतत् कामकृतमप्यकामकृतमेव द्रष्टव्यम् । विश्व. २८५ (२) साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रति षिद्धम् । तदपवादार्थमाह-वर्णिनामिति । यत्र वर्णिनां शूद्रविट्क्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् । सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धमसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि ' वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधः तत्र तूष्णीम्भावाभ्यनुज्ञा, राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोषः । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् । १३।२४६ स्मृच.८९६ व्यचि. ५६६ नृप्र. ११ हि (च) पू., स्मरणम् ; व्यत. २१५ वर्णि (वर्णा); सवि १४५ तत्र साक्ष्य (साक्ष्ये तत्रा) तत्त्वावनाय इति टीकायाम् : १५९ तत्र ... वदेत् (वंदत् साक्ष्यं तथाऽनृतम्) पू.; मच. ८।१०६६ व्यसौ. ५५६ वीमि . व्यप्र. १३८-१३९ हि (तु); व्यउ. ५१-५२ हि (तु); व्यम. १९; विता. १९१ तत्पाव (तस्याव); सेतु. १२२-१२३ (=) व्यतवत् ; राकौ . ४०४ उत्त प्रका. ५८३ समु. ३६६ भाच. ८ १०४ वर्णि (प्राणि). शेषं सुबोगतम् । (१) यास्मृ. २।८३; अपु. २५५/१५ पू.; विश्व. २।८५ द्दि (तु) निर्वाप्य (कर्तव्य); मिता. अप; व्यक. ५९; गौमि |
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy