________________
२८४
उन्मत्तो ग्रहाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत्कपट लेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी स्वबलावष्टम्भकारी । दृष्टदोषो दृष्टवितथवचनः । निर्धूतो बन्धुभिस्त्यक्तः । आद्यशब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदाद - साक्षिणां स्वयमुक्तेर्मुतान्तरस्य च ग्रहणम् । एते स्त्री बालादयः साक्षिणो न भवन्ति । *मिता.
|
व्यवहीरकाण्डम्
(३) स्त्रीबालाद्या असाक्षिणः । एषामविहितत्वादेवासाक्षित्वे प्राप्ते यद्वचनं तद्विहितसाक्ष्यलाभे प्रतिषिद्धव्यतिरिक्तानां साक्षित्वज्ञापनार्थम् । अभिशस्तः पापकारित्वेनाक्षिप्तः । रङ्गावतारी नटादिः । पाषाण्डी अवेदमूलस्मृत्यनुष्ठाता । कूटकृत्कूटमानादिकर्ता । आप्तो ब्राह्मयौनसंबन्धी । साहसी हठकारी । दृष्टदोषः स्तेनादिः । निर्धूतः शिष्टैर्गर्हितः । प्रसिद्धमन्यत् । X अप.
|
(४) पुरुषाणां न स्त्री साक्षिणी । बाल आषोडशवर्षकः । वृद्धो ग्लानेन्द्रियः । उन्मत्त उन्मादयुक्तः । रङ्गावतारी नर्तकः। विकलेन्द्रियः सम्यग् दर्शनश्रवणाशक्तः । आप्तो यो यस्य सखा । साहसी मनुष्यमारणसाहसशीलः । निद्धूतो निष्प्रकम्पः । धुञ् कम्पने इत्यस्य प्रयोगः लोकभयशून्य इत्यर्थः । सर्व एवैते मृषाभिधाने लोभाद्यन्यतमकारणस्य संभाव्यमानत्वादसाक्षिण इति बोद्धव्यम् । + स्मृसा. १०२
(५) पाखण्डी वेदबाह्य: । सहायो वादिसाहाय्यकर्ता । साहसी प्रसह्य मारणादिकारी । दृष्टदोषः वादान्तरेऽसत्याभिधायी ।
तुशब्देन स्त्र्यादिभिन्नानां तपस्वीत्यादियथागुणशून्यानामसाक्षित्वं व्यवच्छिनत्ति ।
+वीमि. (६) मिता. टीका - अशीतिकेति । अशीतिः परिमांणमस्य स अवरो यस्येति विग्रहः । ततोऽवकू न भवति । तदारभ्य भवतीत्यर्थः । कारीति । तेन करोति न तु
* व्यप्र प्रायः मितागतम्, अन्यत्र च गतार्थम् । X चन्द्र श्लोकप्रयोजनं अपवत्, पदार्थ: स्मृसावत् । + शेषपदार्थो मितावत् । विता, सेतु. स्मृसागतम् ।
विचारेण । अविचारितकारीत्यर्थः । बन्धुभिरिति । 'ग्रामराजकुलश्रेण्यादिभिर्निस्सारितः' इति कल्पतरुः । बाल, उक्तासाक्षित्वप्रतिप्रसवः
उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥
(१) देशकालाद्यपेक्षया पुनः -- उभयानुमत इति । अर्थिप्रत्यर्थिभ्यामनुमतोऽतिशय गुणवानेकोऽपि साक्षी स्यात् । अपिशब्दाद् द्वावपि । साक्षिपुनर्वचनं च समक्षदर्शनादेव संग्रहणादौ साक्ष्यं यथा स्यात् । अविशेषाभिधानेऽपि भूतार्थीपलम्भवचनाशक्तेर्बालादयो न Xविश्व. २७४
स्युः ।
(२) व्यवराः साक्षिणो ज्ञेया इत्यस्यापवादमाह - उभयानुमत इति । ज्ञानपूर्वकं नित्यनैमित्तिककर्मानुष्ठायी धर्मवित् । स एकोऽप्युभयानुमतश्चेत्साक्षी भवति । अपिशब्दबलाद् द्वावपि । यद्यपि श्रौतस्मार्तक्रियापरा इति त्र्यवराणामपि धर्मवित्त्वं समानं, तथापि तेषामुभयानुमत्यभावेऽपि साक्षित्वं भवत्येकस्य द्वयोर्वोभयानुमत्यैव साक्षित्वं भवति इत्यर्थवत् व्यवरग्रह्णम् । तपस्विनो दानशीला इत्यस्यापवादमाह — सर्व इति । संग्रहणादीनि वक्ष्यमाणलक्षणानि । तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुणरहिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति ।
X शेषं व्याख्यानं 'तेषामपि न बालः स्यात्' इति नारदलोके द्रष्टव्यम् ।
(१) यास्मृ. २|७२; अपु. २५५१४- ५ ( असाक्षिण : सर्वसाक्ष्ये चौर्यपारुष्यसाहसे); शुनी.४।६८० पू.; विश्व. २।७४ साक्षी .... चौर्य (संग्रहणे साक्षी दण्ड); मिता.; व्यमा ३१८ वत्येको (वेदेको) पू.: ३२८ साक्षी संग्रहणे (संग्रहणे साक्षी) उत्त. ; अप.; व्यक.४३ वत्येको (वेदेको) पू.; गौमि. १३/ २ पू. स्मृच ७३,७९ उत्त.; स्मृसा. ९९ (=) व्यकवत् पू.;. व्यचि. ३९ व्यकवत् पू. दवि. २९४ उत्त; स्मृचि ४६ व्यकवत् पू. व्यत. २१२ व्यकवत् पू. सवि. १३८ पू. चन्द्र. १३४ व्यकवत्, पू.; व्यसौ.४१ व्यकवत्, पू.; वीमि ; व्यप्र. ११२ पू., १२० उत्त; व्यउ. ४८; व्यम. १६ व्यकवत् पू. १७ उत्त.; विता.१६४ पू., १६६ (= ) उत्त.; राकौ. ४०२ पू. सेतु. ११८ व्यकवत् पू.; प्रका. ५१ उत्तः समु. २८ विष्य. ११ व्यकवत्, पू.