________________
साक्षी
उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः - 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युरिति । सजातिसवर्णाऽसंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । *मिता.
(३) यथाजाति संकीर्णजात्यभिप्रायेण । असंकी र्णायां यथावर्णमित्युपात्तत्वात् । मुख्याः सवर्णाः, असंभवे अन्यवर्णाः, तेन संख्यागुणसाम्येऽपि यस्य वादिनः सवर्णाः साक्षिणस्तस्यैव ग्राह्या इत्युक्तम् । +व्यमा. ३१७
।
( ४ ) तपः कृच्छ्रादि स्वधर्मवर्तित्वं वा, तद्वन्तः । ते च यथाजाति वादिप्रतिवादिजात्यनतिक्रमेण कार्याः । तजातीया एवं कार्या इत्यर्थः । एतच्च वादिप्रतिवादिनो: सजातित्वे ज्ञेयम् । नानाजातित्वे तु यथावर्ण • ब्राह्मणादिवर्णक्रमेणेत्यर्थः । सर्वे वा ब्राह्मणादयो वर्णाः सर्वेषु नानावर्णेषु व्यवहर्तृषु - साक्षित्वेन ग्राह्याः । अप. (५) जातिग्रहणं श्रेण्यादेरप्युपलक्षणार्थम् । स्मृच.७७ (६) यथाजाति, ते च यथाजाति भवन्ति । यथा स्त्रीणां स्त्रियः अन्त्यजानामन्त्यजाः । =स्मृसा.९९
( 3 ) मजातीयेषु माक्षिषु सत्सु विजातीया अपि साक्षिणः ' व्यवराः साक्षिणो ज्ञेया' इति वचनात् । 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' (मस्मृ. ८ ७० ) इति
वचनाच्च ।
चन्द्र.१३३-१३४
(८) त्रयोऽधमः कल्पो येषां ते व्यवराः । ÷वीमि ( ९ ) यथाजाति यथायुक्त्या ब्राह्मणादीनां ब्राह्मणा एव साक्षिण इत्यर्थसिद्धेः यथावर्णमिति व्यर्थमेव । जातिपदं वर्णत्वव्याप्यब्राह्मणत्वादिजातिभिन्नमूर्धावसिक्त त्वादिजातिपरमिति विज्ञानेश्वरः । सर्वे वेत्यपवादः । व्यउ.४७
असाक्षिणः स्त्रीबालवृद्ध कितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ॥
* सवि., व्यप्र., विता. मितागतम् । + व्यचि व्यमावत् स्मृसावच्च । X शेषं मितागतम् । = वाक्यार्थो मितावत् । "व्यत. सेतु स्मृसावत् । शेषं मितागतम् ।
(१) यास्मृ. २|७०; अपु. २५५।३; विश्व. २ ७२ बाल
२८३
पतिताप्तार्थ संबन्धि सहाय रिपु तस्कराः । साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः ॥
(१) उक्तन्यायविरोधे तु —— स्त्रीबालेत्यादि । येषां तु दृष्टमदृष्टं वा यथाभूतार्थदर्शने दृष्टार्थाभिधायित्वे च कारणं न स्यात्, विपर्यये वा स्यात्, ते न साक्षिण इत्यर्थः । सर्वे चाभोज्यप्रकरणोक्ता अग्निहीनादयः साक्ष्यानर्हा द्रष्टव्याः । तदुपलक्षणाथैवात्र स्त्री । यथोक्तम् 'अवीरायाश्च योषित' इति । सैव चाप्यत्राप्यभिप्रेता । सवीरायास्तु तदधिष्ठितायाः साक्ष्यं क्वचिदस्त्येव । यथोक्तं स्वयंभुवा -- 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । रङ्गावतारी मल्लः । स्पष्टमन्यत् । अभोज्यान्नानां तु साक्ष्यानधिकारं न्यायसिद्धमेवाभिप्रेत्य नारदेनोक्तम्-- ' नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ इत्युक्त्वा ततः 'दामनैकृतिकश्रान्तवृद्धस्त्रीबालधिक्कृताः' इति । एवं सर्वेऽभोज्यान्ना अनुक्रान्ताः । प्रमाणान्तरमूलं चासाक्षित्वं प्रपञ्चितम । यथा- ' बालोऽज्ञानादमत्या स्त्री पापाभ्यासाच्च कूटकृत् । विब्रूयुर्बान्धवाः स्नेहाद् वैरनिर्यातनादरिः ' इति ॥ वचनादपि क्वचित् । यथाह " श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात्' इति । सर्वथाऽनया दिशा न्यायागमाभ्यां साक्ष्यमसाध्यं च प्रपञ्चनीयम् । विश्व. २७२-७३
(२) तानेतानसाक्षिणो दर्शयति - स्त्रीबालेति । स्त्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावरः । वृद्धग्रहणं वचन निषिद्धानामन्येषामपि श्रोत्रियादीनामुपलक्षणार्थम् । कितवोऽक्षदेवी । मत्तः पानादिना । वृद्व (वृद्धबाल); मिता.: अप. पाख (पाषा); व्यक. ४७ तारि (तार) ण्डि (ण्डी) न्द्रियाः (न्द्रियः); स्मृसा. १२०१ स्मृचि. ४६; चन्द्र.१३९; व्यसौ.४५, वीमि ; व्यप्र. ११४; व्यम. १६; विता. १६१; राकौ ४०२; सेतु. ११९; प्रका. ५०; समु.२९.
(१) यास्मृ. २|७१; अपु. २५५/४ पू. विश्व. २।७३ ताद्यास्तव (तश्चेत्य); मिता; अप. विश्ववत्; व्यक. ४७ घूताद्यारत्व (र्दोषाश्चेत्य); स्मृसा. १०२ विश्ववत् ; स्मृचि. ४६; चन्द्र. १३९; व्यसौ.४५; वीमि व्यप्र. ११४; व्यम. १६६ विता. १६२ ताप्तार्थ (तश्चार्थ) द्यास्तव (स्ते ह्य); राकौ . ४०२ विश्ववत् ; सेतु. ११९; प्रका. ५० समु. २९ यास्तव (या अ ).