________________
साक्षी
वस्त्वस्तीति न देवतायां मन्त्रवर्णाभावः ।
• उदित्यृचा वा वारुण्येति । 'उदुत्तमं वरुणपाशमस्मत्' इति एषा ऋक् वरुणदेवेत्या उदिति प्रतीकेन लैक्ष्यते । वारुणीग्रहणं चान्यस्याः 'उत्त्वा मदन्तु स्तोमा' इत्युच्छब्दप्रतीकाया निर्वृत्यै । तृचेनाब्दैवतेन वेति । तदेवं देवतैव दैवतम्। आपो दैवतं अस्य त्र्युचस्य तेन 'आपो हि ष्ठा' इत्यादिना । अतश्चैकैकया ऋची एकैका आहुतिः प्रत्येकमब्दैवतत्वात्, नैं समुदायाहुतिरेकेति । घृतमग्नाविति सर्वत्रानुषङ्गः । यथाविधि यादृशः शिष्टसमाचार इत्यर्थः । तेन च विधिहीनत्वादप्राप्तायामितिकर्तव्यतायां परिसमूहनपर्युक्षणावेर्क्षणस्रुवहोमाद्येतावन्मात्रमनुजानाति । वाशब्दाद्वैकल्पिकाः सर्व एव । मेधा.
(२) ‘यद्देवा देवहेडनम्' इत्येभिर्मन्त्रदेवताकैर्धृतमनौ परिस्तरणादिहोमविधिना जुहुयात् । 'उदुत्तमम्' इति वरुणदेवताकया ऋचा आपोहिष्ठेत्यनेनान्देवताकेन वा जुहुयात् । गोरा.
' (३) उदित्यृचा 'उदुत्तमं वरुणे' त्यृचा जुहुयात् घृतमेव । पापोत्कर्षापेक्षया सहस्रादप्यधिकं होतव्यम् । अल्बे तु सहस्रम् । तृचेनापोहिष्ठीयेन । गुणजात्याद्युत्क र्षापेक्षया च प्रायश्चित्तचतुष्कव्यवस्था । अत्र चानाविति वचनात्पूर्वोक्तो वाग्दैवत्यश्वरुः वैतानिकेष्वेवेति गम्यते । मवि.
(४) कूष्माण्डमन्त्रा यजुर्वेदिकाः । यद्देवा देव हे - डनं देवासश्चक्रमा वयं आदित्यास्तस्मान्मामुञ्चतर्तस्य नमामितः स्वाहा । आदित्येभ्य इदं न ममेत्युद्देशत्यागो न मन्त्रान्तः पाती । एवमुत्तरत्रापि ज्ञेयम् । प्रयोगश्च महावोक्तः । यथाविधि पर्युक्षणादिहोमधर्मेण स्वगृह्येोक्तेन तदित्यृचा गायत्र्या तदादिकेत्युक्तत्वात् । 'उदुत्तमं वरुणपाशम्' इत्येतया वारुण्या । अब्दैवतेन आपोहिष्ठेत्यनेन । अत्र यदि शूद्रः साक्ष्यं वक्ति सोऽपि ब्राह्मणद्वारा होमं कारयेत् ।
अत्र चरुरिति योगीश्वरवचन एकवचनाद्दैवतैक्याच्च मानवे चरुभिरिति बहुवचनं कर्तृबहुत्वन्यायप्राप्तबहुत्वानुवादकम् । द्विजग्रहणान्न शूद्रस्यैतत्प्रायश्चित्तं किन्त्वन्यत् ।
वयं तु ' तत्पावनाय ' ' अनृतस्यैनसस्तस्य' इत्यादियोगीश्वरमन्वादिवचनेषु तच्छब्दोपादानात् साक्ष्यनृतपातकमेव गृह्यते । तन्निरसनायैवेदं प्रायश्चित्तम् । न च तस्याभ्यनुज्ञावचनेनाभावावगमात् कथमेतदिति वाच्यम् । वर्णवदोषापेक्षया साक्षिवितथवचनदोषस्याल्पस्य सह्यतेति' तद्धि सत्याद् विशिष्यते' इति वाक्यशेषपर्यालोचनेन तस्य तात्पर्यात् । अत एवावचने दोषपरिहारोऽप्यनेन प्रायश्चित्तेन । सामान्यतः साक्षिभिन्नस्यावचनदोषाभावात् । न च ' अब्रुवन्वब्रुवन्वापि' इति वचनमवचने सामान्यतो दोषप्रतिपादकमिति वाच्यम् । तस्य प्रकरणात् 'सभा वा न प्रवेष्टव्या ' इति वाक्यशेषाच्च सभ्यपरत्वात् । अत एव साक्षिणां पृथग्वचने दोषवचनं सफलम् । न च साक्षिणामवचनानृतवचनयोर्दोषाधिक्यात् इदमल्पप्रायश्चित्तमनुचितमिति वाच्यम् । अभ्यनुज्ञाविधेरस्मिन् विषयेऽल्पदोषपरत्वस्योक्तत्वात् । एतेन भूयोदोषनिवृत्तावल्पदोषनिवृत्तिरविनाभावादन्यत्र तु विधिद्वयसाफल्याय न तथेत्यपि कल्पनीयम् । ततश्च वर्णिवधप्रसक्तौ साक्षिणोऽप्यनृतवचनावचनयोर्वधप्रयोजकतादोषापेक्षया अल्पो दोषस्तत्र चेदं प्रायश्चित्तं तेन च ततोऽप्यल्पः सामान्यानृतवचनप्रतिषेधातिक्रमनिबन्धनो दोषः सुतरामुपैतीति तात्पर्यमिति ब्रूमः । मच.
+ व्यप्र. १४०-४१
(६) शुद्रस्य तु स्मृत्यन्तरे प्रोक्तम् —— शूद्रस्य द्वादश
कस्य ग्रासदानम् ।
नन्द.
२७७
(५) ते इति प्रक्रमाज्जुहुयादिति छान्दसो वचनव्यत्ययः । उदुत्तमं चेति पाठे उदुत्तमं वरुणपाशेति ऋक् । तदित्यृचेति पाठे 'तत्वायामि ब्रह्मणेति वारुणी ज्ञेया । न चाभ्यनुज्ञावचः सार्थक्याय प्रत्यवायाभावकल्पनमावश्यकमिति प्रायश्चित्तविधानं नैमित्तिकक्षामवत्यादिवत् पुंश्चलीवानरदंशादिनिमित्तकद्वादशरात्रादिवद्वेति वाच्यम् । ' तत्पावनाय ' 'एनसस्तस्य कुर्वाणा निष्कृतिं पराम्' इत्यस्य वैयर्थ्यापत्तेः ।
X ममु. गोरावत् ।
१ स्त्विति. २ देवता. ३ तलक्षते. ४ निवृत्त्या च तत्रायनादैवतेन चेति ५ + भावात्. ६ (०) ७ प्रत्येक शब्दवतत्वेन. ८ वोक्षण; स्रु. व
+ अत्र प्रथमं मिताक्षराव्याख्यानं समर्थ्यं वयं तु इत्यारभ्य विश्वरूपमतं समर्थयति ग्रन्थकारः ।