________________
साक्षी
अनृतोक्तौ विषयभेदेन दोषतारतम्यम् 'हिरण्यार्थेऽनृते हन्ति त्रीनेव च पितामहान् । पश्च पश्वनृते हन्ति दश हन्ति गवानृते ॥ शतमश्वानृते हन्ति सहस्रं पुरुषानृते । सर्व भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा वदन् ॥ अथेदानीं विप्रतिपत्तिविषयभूतदृष्टविशेषापेक्षयाऽनृतवदने दोषमाह - हिरण्यार्थ इत्यादि । अत्र हिरण्य - शब्दो रजतादिवचनः । 'हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्' इति सुवर्णविषये मानवदर्शनात् । बौवि. साक्षिद्वैधे गुणाद्यनुसारेण निर्णयः स्मृतौ प्रधानतः प्रतिपत्तिः ।
साक्षिद्वैधे सति राज्ञा तत्पुरुषैश्च किं कर्तव्यमित्याहस्मृताविति । प्राधान्यं तपोनिर्दिष्टविद्यादिभिः । तद्वचनात् प्रतिपत्तिः निश्चयः। कार्य इत्यध्याहारः । किमुक्तं भवति ? 'द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥ इत्येतदुक्तं भवति । बौवि. अन्यथानिर्णये नरकः
अतोऽन्यथा कर्तपत्यम् । उक्तोपायादुपायान्तरेण निर्णये सति ' कर्तपत्यं' नाम दोषो भवति । कर्ते नरकं तस्मिन्निपातः कर्तपत्यम् । बौ.
• अधर्म्यनिर्णयप्रायश्चित्तम् द्वादशरात्रं तप्तं पयः पिबन् कूष्माण्डैर्वा जुहुयात् ।
तत्र प्रायश्चित्तमाह – द्वादशेति । घृतमिति शेषः । अस्मार्तत्वादाहवनीय एवायं होमो राज्ञो राजपुरुषाणां च (?) | कूष्माण्डानि, 'यद्देवा देवहेलनम्' इत्यारभ्य 'पुनर्मन: पुनरायुर्म आगादि' त्यन्तानि आरण्यके प्रसिद्धानि । प्रतिमन्त्रं च होमभेद: । प्रत्यहं होमावृत्तिरिति केचित् । अपरे द्वादशरात्रस्यान्ते सकृदेवेत्याहुः । बौवि.
(१) बौध. १।१०।३५-३६; व्यक. वदन् ( ब्रुवन् ) 'हिरण्यार्थ' इत्यर्थं नास्ति.
(२) बौध. १।१०। ३८; अप. २८३ स्मृतौ ... पत्तिः ( प्रधानतः प्रतिपत्तिरतोऽन्यथा).
(३) बौध. १।१०।२९.
(४) बौध. १।१०।४०; अप. २ ८ ३ द्वादश (कर्ता द्वादश ) (तप्तं०) (वा० ).
२४३.
वसिष्ठः
कीदृशाः साक्षित्वमर्हन्ति । जातिभेदे साक्षिभेदः । अथ साक्षिणः । श्रोत्रियो रूपवान् शीलवान् पुण्यवान् सत्यवान् साक्षिणः सर्वेषु सर्व एव वा ।
स्त्रीणां तु साक्षिणः स्त्रियः कुर्यात् द्विजानां सदृशा द्विजाः । शूद्राणां सन्तः शूद्राश्च अन्त्यानामन्त्ययोनयः ।
समुदायसाक्षित्वम्
संमवेतैस्तु यद् दृष्टं वक्तव्यं तु तथैव तत् । विभिन्नैरेव यत्कार्य वक्तव्यं तत् पृथक् पृथक् ॥
व्यप्र. १२६
यत्कार्यं दृष्टमित्यनुषङ्गः । प्रातिविकसाक्षित्वम्
भिन्नकाले तु यत्कार्य ज्ञातं वा यत्र साक्षिभिः । एकैकं वादयेत्तत्र विधिरेष प्रकीर्तितः ॥ साक्षिवचनविधिः
प्राङ्मुखोऽधः स्थितः साक्षी शपथैः शापितः स्वकैः । हिरण्यगोशकृद्दर्भास्तान् संस्पृश्य वदेदृतम् ।। अनृतवदनदोष:
ब्रूहि साक्षिन् यथातत्त्वं लम्बन्ते पितरस्तव । तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥ नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुले गच्छेद्यः साक्ष्यमनृतं वदेत् ॥
(१) वस्मृ. १६।२२-२४ (ख) (सर्वेषु ० ) अन्त्ययोनयः ( अन्त्याः).
(२) स्मृच. ९०; पमा. ११३ यत्का (तत्का) तत् (स्यात्); चन्द्र. १४६ व्यं तु (व्यं च ) तत् (च) रेव यत् (श्व कृतं) वक्तव्यं तत् (तद्वक्तव्यं); व्यप्र. १२६; व्यम. १८ नैरेव यत् (नेनैव तत्) तत् पृ (तु पृ); विता. १६९ नैरेव (नेनैव); प्रका. ५९ न्नैरेव (न्नेनैव) तत् पृ ( च पृ); समु. ३६ वितावत् .
(३) शुनी. ४ । ६९२ पूर्वार्धे ( विभिन्नकाले यज्ज्ञातं साक्षिभिश्चांशतः पृथक् ) प्रकीर्तितः (सनातनः); स्मृच. ९०; पमा. ११३ यत्र (यच्च) ; व्यप्र. १२६ ज्ञातं वा (विज्ञात); व्यम. १९ व्यप्रवत्; प्रका. ५९; समु. ३६.
(४) स्मृच.८९; नृप्र. १० ऽधः ( प );
पमा. ११२ ऽधः (व) ण्य (ण्यं); सवि. १५७ ऽधः (यः) तान्संस्पृश्य ( उपस्पृश्य ); प्रका. ५८; समु. ३६ वदेदृतम् (ऋतं वदेत् ).
(५) वस्मृ. १६।२७ (ख) उदीक्षाणा ( उदीर्यन्तम् ). (६) वस्मृ. १६।२८ ( ख ) य: साक्ष्यम ( यस्तुसाक्ष्य ).