________________
२२०
यसि । तदेष वृषभो गृहजातो वर्धितो यस्मिन् ग्रामे स्थितस्तस्माद् ग्रामादहमपि साक्षिचतुष्टयमानीय स्वकीयं संभावयामीति । अस्मिन्नर्थेऽयं श्लोकोऽवतरति, द्वयोरिति । अत्र पूर्वकाल: पक्षो यस्य भवति तस्य साक्षिणः प्रमाणानि भवन्ति । न पुनरल्पाऽवान्तरकालवादिन इति । एतत्कल्याणीयं विवरणमिति, विस्पष्टोदाहरणसहितमिति । अभा. ६६
व्यवहारकाण्डम्
अंर्युक्तं हि यदा वाक्यं प्रत्यर्थी प्रतिपद्यते । अनृतस्यापदेशेन तदाऽऽधर्यं प्रचक्षते ॥
व्यमा ३०७
(१) अत्र अधरभावो लाघवम् । असाध्यमानत्वात् पूर्वपक्षस्य, यस्मिन्भवति विवादे, उत्तरपक्षो गरीयान् साध्यस्तत्सिद्धौ निषिक्तः तदा साक्षिणः प्रतिवादिना ये प्रष्टव्याः, प्रतिवादिना उद्दिष्टा इति । एवं च ते प्रतिवादिन उद्देशा भवन्ति इति । शास्त्रान्तरे चाह - (२) समकारणाभिधाने तु पूर्ववादिन एव क्रिया 'सापदेशप्रतिज्ञानादाधर्यमुपजायते । पूर्वपक्षस्य साध्यस्तु तदाह नारदः - द्वयोरिति । विशेषः प्रतिवादिनः ॥ तद्यथा कश्चिदाह--यत्तेनैव पञ्चकशतवृद्धया पणशतं गृहीतं कस्माद्वैगुण्यं प्राप्तं न ददाति, तस्य सिद्धौ साचिव्यं कर्तुमिच्छामीति । स आह -- यथा प्रतिज्ञातमस्य पणशतं सत्यं मया गृहीतं ततः तस्मे दत्तमित्यत्र पूर्वपक्षप्रतिज्ञातपणशतग्रहणसंप्रतिपत्तिरेव । न वादिनः साध्यं किञ्चिदस्ति । यत्तु विशेषतः संप्रदानं तत्साध्यं प्रतिवादिनेति । यथा दत्तमित्येवं प्रतिवादिनः साक्षिणो भवन्तीति ।
(३) अत्रोदाहरणम् - यत्रैकः क्षेत्रं प्रतिग्रहेण प्राप्य भुक्त्वा त्यक्त्वा देशान्तरं सकुटुम्बो गतः । पुनरन्येन लब्धं भुक्तं च । सोऽपि देशविभ्रमादिना देशान्तरं सकुटुम्बो गतः । पुनस्तौ द्वावपि चिरन्तनकालाऽपगमे स्ववृत्ति लोभेन स्वस्थानमागत्य क्षेत्रविवादनिर्णयार्थ धर्मस्थानं युगपदागतौ । तत्रैकः प्रतिजानीते- 'जयतिचन्द्राख्येन राज्ञा स्वराज्यकाले मह्यं दत्तमित्यस्मदीयमेवैतत्क्षेत्रमिति । इतरोऽपि प्रतिजानीते - 'हरिश्चन्द्राख्येन राज्ञा जयतिचन्द्राख्यसुतेन राज्यार्थमभिषिक्तेन मह्यं दत्तमस्मदीयमेवैतत्क्षेत्रमिति । अथवा इतरस्यैवं प्रतिज्ञा - 'सत्यं जयतिचन्द्रेणास्मै दत्तं किन्त्वेतस्य हस्तात् हरिश्चन्द्रेणैतक्षेत्रं क्रयेण गृहीत्वा मह्यं दत्तमित्यस्मदीयमेवेति । सन्ति च द्वयोरपि विवादिनोः साक्षिणः । तत्रेदमुक्तं ' द्वयोर्विवदतोरर्थे' इति । अयमर्थः । यस्य विवदतः पूर्वपक्षो भवेत् पूर्वकालिकस्य दानस्य स्वत्वहेतुतयोपन्यासेन पक्षो भवेत् तस्य साक्षिणः सभ्यैः प्रष्टव्या भवेयुः । नेतरस्य साक्षिणः । तेषामुत्तरकालदानसाक्षित्वेनासाक्षिप्रायत्वात् ।
Xस्मृच.८२
(४) मिथ्योत्तरे यद्युभयोरपि साक्षी भवति तदा पूर्वपक्षिण एव ग्राह्यः । द्वयोरिति वचनात् । भावबोधस्य लघुत्वात् । कारणोत्तरे प्रभूतादिकं विनिगमकम् । चन्द्र . १२५
आंधर्य पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥
* व्यचि व्यमावत् । X पमा स्मृचवत् । (१) नासं. २ । १४३; नास्मृ. ४।१६४; अभा. ६६ दिन: (दिना); व्यमा ३०७ धर्म (धार्य) प्रति (पूर्व); अप. २।१७; व्यक. ३७; स्मृच.८२; पमा. ११७; स्मृसा. ९३; व्यचि. २१ प्रति (पूर्व) :
अभा. ६६-६७ साक्षिण इति दृष्टक्रियोपलक्षणम् । *व्यमा ३०७ (३) यदा पुनरितरप्रतिज्ञातार्थवशेनैतस्य हस्तात् क्रीत्वा मह्यं दत्तमित्यादिना पूर्वदानोपन्यासपक्षस्याधर्यमकिञ्चित्करत्वं भवेत् तंदा पश्चात् प्रतिजानानस्य साक्षिण: प्रष्टव्याः । न पूर्व प्रतिजानानस्य, सिद्धसाध्यत्वेन वैयर्थ्यात् । किन्त्वसाक्षिवदुपेक्षणीयास्त इति । स्मृ. ८२
(४) अत्र च बलवत्कारणोत्तरवादिन एव क्रियानिदेश आह नारदः - आधर्यमिति । स्मृसा. ९३ (५) पूर्वपक्षो यस्य तस्य साक्षिण इत्युक्तम् । तस्यापवादः । अधरभावः आधर्यम् । पूर्वपक्षस्याधर्यमर्थवशात् यत्र विवादे भवेत्, अभियोक्तः पूर्वपक्ष: अभियुतस्योत्तरः; स उत्तरोऽर्थवशेन पूर्वः स्यात्, पूर्वश्वाधरोऽभियोज्यः । +नाभा. २ । १४३ (६). अत्र साक्षिग्रहणं प्रमाणमात्रोपलक्षणम् । व्यप्र. ५९
* व्यचि. व्यमावत् । X पमा स्मृचवत् । + शेषं अभावत् । २९; व्यत.२०८; चन्द्र. ११७ तत्र ( तस्य); व्यसौ. ३५ चन्द्रवत्; व्यप्र. ५९ व्यचिवत्; सेतु. १०७ आध (अध); प्रका. ५३; समु. ३२ व्यचिवत् विव्य. ८ यस्मिन्न (धर्मेणा ). -
(१) vulg. नास्मृ. ४।१६४ इत्यस्यानन्तरमयं लोकः ।