SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २१४ व्यवहारकाण्डम् (५) चकारात् प्रत्याकलितापरनामकमनुमानाख्यं प्रमाणं समुच्चिनोति । इति चतुर्विधलौकिकं प्रमाणमुच्यते विचारकैरुपदिश्यते कर्तव्यतया प्राक्तनचकारोत्राप्यन्वेति तेनालौकिकस्य शपथस्य दिव्यभिन्नतया नारदेनोकस्य समुचयः । वीमि वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्यः ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ (१) न कालं हरेदित्यर्थः । विश्व. २७ (२) एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्वात्साधननिर्देशं कः कुर्यादित्यपेक्षित आह-त इति । तत उत्तरानन्तरमथ साध्यवान् । सद्य एवानन्तरमेव लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्वेति प्रतिज्ञातार्थः, तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र सद्यो लेखयेदिति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तयोत्तरत्र पिवे चयिष्यते । अथ प्रतिज्ञातार्थसाधनं लेखयेदिति वदता । यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेत् इत्यु कम् । अवश्य प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्यात् प्रत्ययैवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात्कारणवाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववादेवार्थी स एव साधनं निर्दिशेत् । ततोऽर्थी लेखयेदिति वदता अव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरवादिनोद्वयोरप्यर्थित्वाभावात्साधन निर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्- 'प्रान्यावकार गोको तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मियोक्ती पूर्ववादी तु प्रतिपत्तौ न सा भवेत्' इति ॥ * मिता. २७ व्यचि., (१) यास्मृ. २|७; अपु. २५३।३७; शुनी. ४।६५८१ विश्व. २७ मेघा.८ ५६ मिला. २१७, २१९६३ व्यमा २०६३ अप. व्यक. ३८; स्मृच. ५०; पमा. ८७; व्यचि. १५,२६ नम् (कम् ); व्यनि.; स्मृचि. ४२; नृप्र. ७; व्यत. २१० व्यचिवत् ; सवि.९ ९;व्यसौ.३६; वीमि २ ७ : २।१६ व्यचिवत् विता. ७ व्यम. ९; राकौ. ३९३; सेतु. १०९ ततो (अतो) नम् (कम् ); प्रका. ३२; समु. २५; विव्य.८. 'साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ इत्यत्र सद्यो विवादयेत् उत्तरं दापयेदित्यनेन प्रत्य विपक्षस्य लिखने विलम्बप्राप्त साहसादिषु तत्पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्भाषावादिपक्षलिखने लिम्पोक्त्यार्थप्राप्तः प्रत्यर्थिपतिखनवि लम्बः स्यात् तदेव पटते नान्यथेत्येतद्वाक्यव्याख्याने यदर्थपदेन प्रत्यवस्कन्दनप्रान्याययोः प्रत्ययैवार्थी जात इति स एव साधनं लेखयेदिति प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारेण व्याख्यातम् । तत् पूर्वापरविरोधान्मन्दमित्याह । तदतिसाहसम् । भाषोत्तरवादिपक्षमात्रलेखनपरत्वं यद्यनयोर्वाक्ययोस्तर्हि साधनपदाननन्वये समासानुपपत्तेः संदर्भविरोधाच्च । साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षितत्वात् । साहसादिष्वप्यु * व्यक., सवि मितागतम् । । व्यप्र.८०, १०२; .७३; व्यत., (' ततोऽथी' इत्यादिना ) भावप्रतिज्ञावादिन एव क्रिया इति व्यवस्था दर्शिता । मिता. २/९६ (३) सद्य एव क्रियां निर्दिशेत् उक्तमात्र एव न च तत्राप्युत्तरदानार्थमिव काळापेक्षा कार्या । प्रागेवाऽर्थिनः साक्षिपत्रादिस्थिरीकरणेन मुनिभितवलाधानस्य प्रत त्वात् । प्रत्यर्थिनोऽप्युत्तरदानार्थ दत्त एव काल: स्वप्रमास्य स्थिरतापूर्वकमुत्तरदानात् । (४) अर्थी पूर्ववादी ... लेखयेत्सच इति मिथ्योत्तरविषयम् । (५) राजकृत्यस्य निर्णयस्य क्रियामूलकत्वात्तन्निर्दशस्य च सादिकृत्यत्वात्तमधिकृत्य तृतीयं क्रियापादमाह - तत इति । ततः सदुचरे प्रतिवादिकृते लेखिते च राजाऽथ चाऽभिहितार्थप्रमापणार्थी यथायथं वादी प्रतिवादी या प्रतिज्ञातस्य स्वयं समभिहितस्याऽर्थस्य साधके साथि लिखितादिकं स्वयमुपन्यस्य राजनियुक्तद्वारा लेखयेत्। सद्य इत्यनेन प्रमाणोपन्यासे न विलम्बः कार्य इत्युक्तम् । वीमि. (६) लेखयेत् लेखकद्वारा स्वयं वा लिखेदित्यपि द्रष्टव्यम् | दृष्टार्थत्वात् । अत्र चण्डेश्वरः x शेर्पा मितागतम् । + व्यम अपगतम् । Xव्यमा ३०६ ततोऽर्थी + अप. .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy