________________
२१०
व्यवहारकाण्डम्
विग्रहाज्जायते राज्ञां पुनर्दोषस्तथैव च ॥ निग्रहानुग्रहमिति । अर्थिप्रत्यर्थिनोर्विग्रहे सति अवस्थित निग्रहादीनि भवन्तीत्यतः संधिः श्रेयानित्यर्थः । व्यक. ३६
तस्मात्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः । अद्वेषलोभाद्यद्ब्रूयुस्तत्कर्तव्यं विजानता ॥
तस्मादित्यादिना राजाज्ञैव केवलं न संधिहेतुः, कुलगणाध्यक्षादिवचोऽपि राजवञ्चनयेति प्रतिपाद्यते ।
व्यप्र. ७८
सांशको धर्मो व्यवहारश्च पार्थिवे । संधिस्तत्र तु कर्तव्यो द्वयोः संतप्तयोस्तदा ।
राज्ञां (नृणां) र्दो (¤); व्यसौ.३४ हात् (हो); व्यप्र.७७ हात् (हो) शेषं व्यकवत्.
(१) व्यक. ३६ध्यक्ष (ध्यक्षा) भाथ (भा य); स्मृचि. ४२ ध्यक्ष (ध्यक्षा) यद् (ये) विजा (प्रजा); व्यप्र.७७ (२) व्यनि.; प्रका. ३१ स्तदा (स्तथा) सम (समः); समु. २४ द्वयोः (sयसोः) स्तदा ( यथा) सम (समः ) था (दा).
समसंधिस्तथा कार्यो विषमस्तु निवर्तते ॥ कात्यायनः नृपाननुमत्या संधिकरणे दण्ड:
वेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते ॥ (१) एवं चाऽवञ्चनया प्रशान्तानां न दण्डः । + स्मृच.४९ (२) द्विगुणो दण्डस्तु पराजयनिमित्तदण्डापेक्षया । न तु विवादास्पदीभूतद्रव्यापेक्षया । अद्रव्यविवादेष्वव्याप्तेः । राज्ञे निवेद्यान्योन्यरुच्या राजानुरोधेनैव वा संधिकरणे तु न दण्ड इत्यर्थात् सिद्धम् । व्यप्र.७७ (३) पूर्वोत्तरपक्षलिखनोत्तरं राजाज्ञां विना वादिनोमलने दण्डमाह-आवेद्येति ।
विता.७९
+ पमा स्मृचवत् ।
(१) स्मृच.४९; पमा. ८४ र्थाः (थं) ण्डाः (ण्ड्याः); व्यप्र. ७७ र्था: (र्थ); विता. ७९ पंमावत्; प्रका. ३१६ समु.
२४.