________________
वादहानिः
णम् । सा संवत्सरादूर्ध्वं भवतीति किमित्यकारणम् । न चैष नियमः केनचित्प्रेमाणेनावगम्यतेऽप्रतिभानवतः संवत्सरेण प्रतिभा भवतीति । तस्मात्तावन्त्येवाहान्युपेक्षा युक्ता यावद्भिः पूर्वपक्षार्थावधारणं भवत्युत्तरं च प्रतिभाति । एतच्चामुकस्य मन्दधियोऽप्येतावन्मात्रै रहोभिर्भवतीति, नाधिकं कालमुपेक्षणीयम् । पूर्वपाक्षिकस्य तु तदहरेव स्वार्थविनिवेशनं युक्तम् । यत इदमेष मे धारयतीदं वाऽनेन ममापकृतमिति निश्चितं तस्य भवति । स्वेच्छया सौ प्रवर्तते केवलं तस्मै स्वपक्षमावेदयते । किमित्यनिश्चितः स्वार्थी ' भवति । उत्तरपाक्षिकस्त्वविदितसंबन्धस्तदानीमेव राजपुरुषैरानीयमानः कथमिव स्वपरपक्षौ निश्विनुयात् । पक्षद्वयनिरूपणं हि तदस्य तदानीमेवापतति । नान्यथोत्तरपाक्षिको भवति । तस्मात्पूर्वपाक्षिकस्य साध्ये वस्तुनि तदहः पूर्वपक्षसमाप्तिर्द्विदिवसलाभो वा । उभावपि चैतौ पक्षौ स्मृत्यन्तरपरिगृहीतौ । तथा ह्याह - ' सुनिश्चितबलाधानः पूर्वपक्षी भवेत्सदा । दशाहं द्वादशाहं वा स्वपक्षं परिशोधयेत्' इति ॥ तथेदमपरम् 'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ( यास्मृ. २।७ ) । या तु संवत्सरप्रेतीक्षा सा मूलासंभवादप्रमाणम् । न हि व्यवहारस्मृतावष्टकादिवद्वेदमूलता शक्यते वक्तुम् | अकार्यरूपत्वादर्थस्य । प्रमाणान्तरविषयत्वे च तदसंभवः प्रतिपादितः । एषाऽपि त्रिपक्षीपेक्षा न सर्वत्र । यत उक्तम्-- 'साहसस्तेय - पारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ ( यास्मृ. २।१५ ) इति । साहसादौ हि चिरमुपेक्ष्यमाणे परमपराध्नुयात् । अतः सद्यो विवादो विधीयते । न चात्र स्मृत्यादयोऽनुतेरहेतवः संभवन्ति । साहसादिकारणं हि तदानीमेव राजानं वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्राद्युपहारेण तदुपेक्षायां नाशाशङ्का भवति । साक्षिणस्तत्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशान्तरं गता नामजात्यादिभिर्न विज्ञायन्ते । ततः स्वाभाविकप्रमाणाभावः ।
किञ्च ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । क्रमेण च संशुद्धौ स्मृतिरुपयु१ कारणेन ना. २ परीक्षा. ३ पर. ४ नुक्तहे.
१९५
ज्यते तदा कियद्दत्तमिति । साहसकारी तु राज्ञाऽवश्यं निग्रहीतव्य इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं साहसादिषु सद्य इति स्थितम् । तदुक्तम्'गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । ऋणादिषु हरेत्कालं कामं तत्वबुभुत्सया' ॥ यदा संकुल: पूर्वपक्षी भवति तदा गहनत्त्वान्न शक्यते ग्रहीतुमनाकुलो विलुप्तक्रमोऽपि गृहीतः प्रतिवचनकाले महत्त्वान्न शक्यते सर्वेण स्मर्तुमिति स्मृत्यन्तरस्यार्थः । उक्तं च न विभावयेत् । साध्यं वस्तु निर्दिश्य न साधयति साधनस्याभावात् । विपक्षे वा भावात् । न च पूर्वापरं विद्यात् । उक्तमेतत् । तस्मादर्थाद् व्यवहारवस्तुनः स हीयते पराजितो भवतीत्यर्थः । मेधा.
(२) न च पूर्वापरं एतत् प्रागुवाच्यमेतत्पश्चादिति जानीयात् ।
मवि.
(३) उक्तं साध्यं न प्रमाणेन प्रतिपादयति । पूर्व साधनम् । अपरं साध्यम् । तद्यो न जानाति । असाध नमेव साधनत्वेन निर्दिशति । असाध्यमेव मानेन ' शशशृङ्गकृतं धनुर्ज्ञेयम्' इत्यादि साध्यत्वेन निर्दिशति स तस्मात्साध्यादर्थाद्धीयते ।
ममु.
+मच.
(४) पूर्वापरं साध्यं न विद्यात् । यथावस्तु न विजानीयात् । star: सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैर्हीनं तमिति निर्दिशेत् ॥
(१) ज्ञातारः साक्षिणः पुरुषा मम सन्तीत्युक्त्वा यदोच्यते कथ्यतामिति तदा तूष्णीक आस्ते न तान्
+ शेषं ममुवत् । भाच. मचगतम् ।
(१) मस्मृ. ८/५७ क. ग. घ-पुस्तकेषु ज्ञातारः ( साक्षिण:) मिति (मप) इति पाठ: ; व्यक. ३३ ज्ञातारः सन्ति मे ( सन्ति ज्ञातार इ) मिति (मपि ); स्मृच. ४८ हीनं तं ( होनोऽसौ ) शेषं व्यकवत्; ममु. मस्मृवत्; स्मृसा. १२२ व्यकवत् ; व्यचि. ३१ व्यकवत् ; व्यनि. स्थः (स्था :) ज्ञातारः सन्ति मे ( सन्ति ज्ञातार इ) नारदः; स्मृचि. ४१,४६ मिति (मपि ) नारदः ; व्यसौ. ३२ व्यकवत्; वीमि. २।१५ व्यकवत् ; व्यप्र. ७४ मिति (मपि सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकर एव । आचार्यमेधातिथिभ्यामधृतत्वात्; प्रका. ३० स्मृचवत्; समु. २३ स्मृचवत्.