SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १८६. व्यवहारकाण्डम् योत्तरान्तरमेवादावादेयम् । सत्ये क्रियाफलाभावादिति । न चैवं क्रमवाचिपदाध्याहारापत्तेः । यत्रैवोत्तरकाले पक्षI व्यापकानेकोत्तरोपन्यासः, यथा 'केनचिन्मानवेन मदीया गौर्नष्टा दृष्टाऽस्य सद्मनि' इत्यभियुक्तो वक्ति 'मिथ्यैतदस्मद्भवन एव सा संभूता' इत्येवमादि तद्विषयमेवेदं वचनमिति वाच्यम् । यत उक्तं 'असंकीर्णमतोऽन्यथा' इति । तस्यायमर्थः । असंकीर्णमुत्तरमेवंक्रमे भवति । अतोऽन्यथा यौगपद्ये संकीर्णमेव स्यादिति पक्षव्यापकानेकोत्तर हेतु विकल्पविषये न जातुचित्संकरावसरः । तस्मासंकरोत्तरविषयमेवेदं वचनम् । अत एव पक्षव्यापकानेकोत्तरविषये वचनान्तरप्रारब्धं तेनैव - 'मिथ्याकारणयोaise ग्राह्यं कारणमुत्तरम्' इति कारणोत्तरस्यानन्यथासिद्धत्वादिना मिथ्यातो गुरुतरत्वादित्यभिप्रायः । अतो मिथ्याकारणयोरुदाहरणमात्रत्वादुत्तरान्तरसंनिपाते ऽपि गुरुतरं ग्राह्यमित्यूह्यम् । यत्र पुनः संकरोत्तरे तुल्यबल - तया न पूर्वोक्तक्रम हेतुरस्ति तत्राप्यैच्छिक क्रमेणोत्तरं ग्राह्यम् । निर्णयस्य आवश्यकत्वात् । स्मृच.४५ (२) यत्रैकं प्रभूतार्थविषयं तत्र भूयो विषयोत्तरानुसारेण व्यवहारः । यत्र द्वयोस्तुल्यविषयता तत्र यस्य लिखितसाक्षिभुक्तीनां मध्ये अन्यतमक्रियायाः फलं शीघ्रं प्रतीयते तस्यैव क्रियानिर्देशः । तदुक्तं यत्र वा स्यात् क्रियाफलमिति । तदसंकीर्णमेव विज्ञेयम् । अतोऽन्यथा तत्संकीर्णम् । तच्चैवं यथा परेण शताभियोगे दत्ते उत्तरवाद्येवमाह मया न गृहीतं, गृहीतमेव चेत्तदा मम सहायो अनेन दण्डितः तेनैव मया परिशोधितमित्यादि, अत्र मया न गृहीतमिति वाक्यैकदेशे मिथ्या देशान्तरे च कारणम् । अत एवंविधमुत्तरं हेयम् । स्मृसा. ९१ (३) एवमुत्तरमसंकीर्णे भवति । अतोऽन्यथा संकीर्ण वादभेदापादकं भवतीत्यर्थः । उदाहरणम् - मत्तः सुवर्णशतमेकं च रजतं गृहीत्वा याच्यमानो न प्रयच्छतीत्यभियोगे सुवर्णशतं न गृहीतं रजतमेकं प्रतिदत्तमित्यभिहिते न वादभेदः । मिथ्याशेषपूर्ववादिनः क्रिया प्राप्ता प्रभूतविषयेति पूर्ववाद्येव तत्साधनादेव रजतप्रतिदाना भावमपि साधयेदिति न वादभेदप्रसङ्गः । क्रियाफलस्योदाहरणम् - ततोऽसावेकं सुवर्ण गृहीत्वा याच्यमानो न केवलं न ददाति, किन्तु मम शिरसि ताडितवानित्यासाधयेत् । तेन यत्र मिथ्याकारणयोर्दण्ड-स्याभियोगेन शिरसि ताडितं सुवर्णे च प्रतिदत्तमित्युत्तरेऽभिहिते न वादभेदः । पूर्ववादिनः क्रियाया दण्डगुरुत्वात्पूर्ववाद्येवोरसि ताडनं सुवर्णशतप्रतिदानाभावं च साधयेत् । तत्र मिथ्याकारणयोर्दममर्थसाम्यं च भवति तत्र भाषाभेदः । उदाहरणम् - असौ मत्तः सुवर्णशतं गृहीत्वा याच्यमानो न प्रयच्छतीत्यभियोगे एकं न गृहीतम् एकं गृहीतं च प्रतिदत्तमित्युत्तरे दण्डार्थयोः साम्याद्वादभेदः । यत्र पुनः एकस्मिन्नेव मिथ्याकारणे भवतः । उदाहरणम्-शृङ्गिणी गौर्मदीया अमुकस्मिन्मासि नष्टा साऽस्य गृहे दृश्यमाना प्रार्थ्यमानाऽपि न प्रदीयते इत्यभियोगे उत्तरवादी तु न तदीया सा गौरिति प्रतिषिध्य मदीयैव सेत्यात्मसंबन्धं प्रतिज्ञाय कारणमभिः हितवान् । मिथ्याऽभिप्रायेण न भवति । मैवम् । कारणे I 1 प्रतिवादिनि इत्यनेन संकरोत्तरे मिथ्यानिराकरणमात्रमेवोच्यते । मिथ्या क्रिया पूर्ववादीत्यनेन यस्य साधकमस्ति असौ साधयेदित्युच्यते । कारणोत्तरे पुनरुत्तरवादिन एव साध्यं, 'कारणात्पूर्वपक्षोऽप्युत्तरत्वं प्रतिपद्यत इति वच-. नात् । तेन मिथ्योत्तरे पूर्ववादीत्यनेन कारणोत्तरे उत्तरं. सुष्टुक्तम् । श्रव्यनि. (४) असंकीर्ण संकरप्रयुक्तव्यवहारयौगपद्यासंभवदोषाभावात् । अतोऽन्यथा संकीर्णमिति शेषः । +व्यप्र. ६५ I व्यासः उत्तरदाने कालातिपातदोषापवादविचारः राजदैवकृतो दोषस्तस्मिन्काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥ राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैहम्येन वर्तमानस्तु दण्डो दाप्यस्तु तद्धनम् ॥ अवध्यतिक्रमहेतोः राजदैविकस्य प्रमितौ न तदति * शेषतात्पर्यं मितावत् । + सर्वं व्याख्यानं मितावत् । (१) व्यचि.१७; व्यत.२०३ वधित्याग (वध्ययोग); वीमि २७ (राजदैवं ततो दोषास्तस्मिन्काले यदा न चेत् ); सेतु. १०२. (२) व्यचि.१७ जैह्र्म्येन (भैक्ष्येण) प्यस्तु (प्यश्च); वीभि. २७ जैम्येन (भैक्ष्येण).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy