________________
१८४
व्यवहारकाण्डम्
प्रमाणमेकमेकस्य वा प्रमाणद्वयं भवितुमर्हम् । उभयोः साध्याभावादेकसाध्यस्य चैकेनैव प्रमाणेन सिद्धा वितरवैयर्थ्यात् । तस्मात् युक्तमुक्तम् — 'संकरात्तदनुत्तरम्' इति । तथा च सर्वत्र पक्षव्यापकमेवोत्तरं देयं दापनीयं च । यत्र पुनः सर्वथा तथाविधमुत्तरं न लभ्यते किन्त्वेकैकांशव्यापकमेवोत्तरम्, तत्र नानोत्तरवशेन नानाप्रतिज्ञाः कृत्वा क्रमेणैकैकप्रतिज्ञायामेकैकोत्तरोपादानेन व्यवहारः प्रवर्तनीयोऽन्यथा तत्र निर्णयाभावप्रसंग: । स चानुचित: । 'छलं निरस्य' इत्यादिवचनात् । 'संकरात्तदनुत्तरम्' इति हेतूपादानादुक्तविधया संकरे निराकृते स्यादेवोत्तरत्वमित्यभिप्रायः । एतदेव व्यतिरेकमुखेनोक्तम् --- ' यत्प्रभूतार्थविषयं यत्र वा स्यात्क्रियाफलम् | उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा' इति ॥ अतोऽन्यथा यौगपद्ये संकीर्ण स्यादिति प्रागेव व्याख्यातम् । पक्षव्यापकानेकोत्तरविकल्पे तु न जातुचित्संकराऽवसरः । तस्मान्न क्वापि संकरे सदुत्तरत्वमिति ।
व्यप्र. ६६-६८
पितामहः विपयविशेषे उत्तरदाने कालावधिविचारः 'ऋणोपनिधि निक्षेपदानसंभूयकर्मणाम् । समये दायभागे च कालः कार्यः प्रयत्नतः ।। एवमादिष्वपि कालदानं विस्मृत्यादिकारणतः प्रत्यनिःकालार्थत्वे एव । स्मृच. ४२
प्रजापतिः
विषयविशेषे उत्तरदाने कालावधिविचार:
'दिनमेकमथ द्वे वा त्रीणि वा पञ्च सप्त वा । कालस्त्वृणादौ गहन आ त्रिपक्षादपि स्मृतः ॥
सदुत्तरस्वरूपम् पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् | अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥
(१) स्मृच. ४२; पमा. ७१; सवि . ९१; प्रका. २६; समु. २०. (२) गौमि. १३२८; व्यनि. दपि (दहः); प्रका. २७ दपि स्मृतः (अहः स्मृतम् ); समु. २० प्रकावत्.
(३) मिता.२।७ (=); व्यक. २८ नारदप्रजापती; स्मृच. ४२; पमा.६९; स्मृसा.८८ (=); सवि ९० (); चन्द्र. ११३६ व्यसौ. २४; व्यप्र. ५५ नारदप्रजापती; प्रका. २७; समु. २१.
पक्षस्य व्यापकं कृत्स्नपक्षाच्छादकम् । सारं वाद्यभियोगोत्तरणक्षमम् । असंदिग्धं खण्डश्लेषादिरहितम् । अनाकुलमन्वितार्थम् । अव्याख्यागम्यं सुबोधम् ।
स्मृच.४३
उत्तरचतुष्टयस्वरूपम्
यावदावेदितं किञ्चिन्मत्संबद्धमिहार्थिना । तावत्सर्वमसद्भूतमिति मिध्योत्तरं स्मृतम् ॥ अस्यैतदेवमेवैतन्नाद्भाषितमर्थिना । इति संप्रतिपत्याख्यं द्वितीयमिदमुत्तरम् ॥ दत्तमेव ममानेन किन्त्वस्यापि मया पुनः । प्रतिदत्तमितीदृक्च प्रत्यवस्कन्दनं स्मृतम् ॥ अस्मिन्नर्थान्तरे पूर्वं प्रारब्धोऽस्म्यहमर्थिना । जितश्चायं मया तत्र प्राङ्न्यायविधिरुच्यते ॥ हारीतः
उत्तरदानकाल:
स्वल्पवर्णोऽर्थबहुल: प्रतिज्ञादोषवर्जितः । साक्षिमान्कारणोपेतो निरवद्यः सुनिश्चितः ॥ "ईदृश: पूर्वपक्षस्तु लिखितो यत्र वादिना । दद्यात्तत्पक्ष संबन्धं प्रतिवादी तदोत्तरम् ॥ साक्षिमान् प्राड्विवाकादिप्रत्यवेक्षणवान् । स्मृच.४१ उत्तरानविषयः
साधारणी च या भूमिर्यच्च द्रव्यं गणाश्रितम् । एकस्य प्रार्थ्यमानस्य न वदेदुत्तरं बुधः ॥ यदा त्वनीदृशस्तदा न दद्यादित्यर्थसिद्धं स्पष्टयितुं पक्षाभासमेकमुदाहृत्य तस्योत्तरं न देयमित्याह - साधारणीति ।
स्मृच.४१
उत्तरदानविधिः
तत्राभियोगानुगतमुत्तरं प्रतिवादिना । निष्कृष्यार्थं प्रदेयं स्याद्दोषसंज्ञाविवर्जितम् ॥
(१) स्मृच.४३; पमा ७२ बद्ध (बन्ध) सद्भू (संभू); प्रका २८ समु. २१. (२) स्मृच. ४३; पमा. ७३ अ (य) सद्भाषि (संभावि); प्रका. २८; समु. २१. (३) स्मृच. ४३; पमा. ७३ प्रारब्ध (प्रलब्धो ); प्रका. २८; समु. २१. (४) स्मृच. ४१; प्रका. २५ समु. २० (५) स्मृच. ४१; प्रका. २५ न्धं (अं) दो (थो); समु. २० न्धं (द्धं). (६) स्मृच.४१; प्रका. २५; समु. २२. (७) स्मृच.४६; सवि. ९८ स्मृतिः; प्रका. २९; समु. २२ कृष्या (क्रिया).