SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उत्तरम् पक्षैकदेशव्याप्येव तच्च नैवोत्तरं भवेत् ॥ व्यस्तपदमव्यापि निगूढार्थं तथाऽऽकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ (१) तत्र संदिग्धम् – सुवर्णशतमनेन गृहीतमित्युक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृतादन्यत् सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पम् - सुवर्णशताभियोगे पञ्च धारयामीति । अतिभूरि- सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षैकदेशव्यापि - हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यदिति । व्यस्तपदम्-ऋणादानाभियोगे पदान्तरेणोत्तरम् । यथा, सुवर्णशताभियोगे अनेनाहं ताडित इति । अव्यापि देशस्थानादिविशेषणाव्यापि । यथा, मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते क्षेत्रमपहृतमिति । निगूढार्थ - यथा, सुवर्णशताभियोगे किमह - मेवास्मै धारयामीत्यत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुल–पूर्वापरविरुद्धम्, यथा, सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं - दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन व्याख्यागम्यं अदेशभाषाभिधानेन वा । यथा, सुवर्णशतविषये पितृऋणाभि योगे गृहीतशत वचनात् सुवर्णानां पितुर्न जानामीति | 'अत्र गृहीतशतस्य पितुर्वचनात् सुवर्णानां शतं गृहीतमिति न जानामीति । असारं - न्यायविरुद्धम्, सुवर्ण शतमनेन वृद्धया गृहीतं वृद्धिरेव दत्ता न मूलमित्यभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति । ÷ मिता. २७ १७७ (२) प्रकृतादन्यद्यथा - सुवर्णशतं धारयसे त्वं मदीयमित्युक्तो नाहं त्वां ताडयामीति वदति । अथ वा चकारादिना निपातेनानेकविवक्षितार्थप्रतिपादनम् । अतिभूरि-स्वल्पेऽर्थे वक्तव्ये महावाक्य मसंग्राह्यार्थम् । व्यस्तपदं - व्यवहितान्वयम् । अव्यापि - देशविशेषेण कालविशेषेण वा विशिष्टं पूर्वपक्षं निराकरोति न स्वरूपेण । यथा, चैत्रमास्युजयिन्यां सुवर्णशतं मदीयमनेन गृहीत - मित्यभियुक्तो ब्रूते, न मयोज्जयिन्यां चैत्रे गृहीतमिति । नैवमाचष्टे न मया गृहीतमिति । निगूढार्थम् - अप्रसिद्धार्थपदम् । यथा, अर्जुनीशब्देन गोरभिधानम् । काश्यपीशब्देन वा भूमेः । असारं - अदृढम् । यत्रोक्त एव नैतत्संभवतीति सर्वेषां बुद्धिर्जायते । ÷अप. २७ (३) प्रकृतेन त्वसंबद्धमिति - प्रकृतभाषास्वरूपेणासंबद्धमिति । अत्यल्पमिति - हेतुशून्यप्रतिज्ञामात्रम् । अतिभूरि चेति-यत्र हेत्वादिद्वितयं त्रितयं वा । यथा शताभियोगे वृत्ते यदि ब्रूते मयाऽस्य शतं गृहीतमेव किन्तु प्रसादेन ह्यनेन दत्तं किञ्चाहमस्य दायादः, तथा, ममाप्यनेन गृहीतं तेनैव मया परिशोधितमित्येवमादि भूरिकारणाभिधानेन विवेचकानां अनिरूपणात् उत्तराभासत्वम् । पक्षैकदेशव्याप्येवेति व्याख्यातमेव । अस्तव्यस्तपदव्यापीति - अनन्वितार्थपदव्याप्तम् । असारमिति जात्युत्तरम् । सर्वस्यास्य विवक्षिताऽप्रतिपादकत्वादनुत्तरत्वमिति वेदितव्यम् । ÷ व्यनि, व्यउ, विता. मितावत् । (१) मिता.२।७ स्मृत्यन्तरम् ; व्यमा ३०३; अप. २७ तथा (अना) गम्य (गम); व्यक. ३० यद्व्यस्तपदमव्यापि (यस्यास्ति पदमन्यायि ); स्मृच. ४४ यद्वयस्तपदमव्यापि ( अव्यापकं व्यस्तपदं) स्वार्थसिद्धये (शस्यते बुधैः); पमा ७३; स्मृसा. ८९ यद्यस्तपदमव्यापि (असंबद्धपदव्यापि ) स्वार्थसिद्धये (शस्यते बुधैः); ब्यचि.२५ स्मृसावत् ; व्यनि. स्वार्थसिद्धये (शस्यते बुधैः) हारीतः स्मृचि.४० नारदः नृप्र. ६६ व्यत. २०७ यव्यस्त पदमव्यापि (अस्तव्यस्तपदव्यापि ) शेषं स्मृचवत् ; व्यसौ. २७ व्यप्र. ६२-६३३ व्यम. ८ स्मृत्यन्तरम् ; विता. ६२ स्मृत्यन्तरम् सेतु. १०५ यन्यस्तपदमध्यापि ( अस्तव्यस्त पदध्यापि ) था (दा) स्वार्थसिद्धये ( मन्यते बुधैः ); प्रका. २७ मृचवत् । समु. २२ स्मृचवत्, हारीत:. भ्य. का. २३ 1 स्मृसा. ८९-९० (४) अत्र क्वचित्पूर्वपक्षानिराकरणात् क्वचिदसंबद्वार्थत्वात् क्वापि विलम्बितार्थप्रत्यायकत्वाद्यथायथमनुत्तरत्वमवसेयम् । यद्यप्युदाहृतमसारं पूर्वापरविरोध एवं पर्यवस्यति, तथापि क्वचित् साक्षात् क्वचिन्न्यायविरोधात् तथात्वमिति भेदकं द्रष्टव्यम् । स्मृतिचन्द्रिकाकारस्तु काकदन्तसद्भावोत्तरमिष्यत इति । कात्यायनवचनं च तत्र संवादितवान् । 'काकस्य दन्ता नो सन्ति सन्तीत्यादि यदुत्तरम् । असारमिति तत्तेन समं नोत्तरमिष्यते' इति ॥ +व्यप्र.६२-६३ ÷ शेषं मितावत् । * 'पक्षस्य ब्यापकमि' ति नारद श्लोकव्याख्याने (पृ. १६२) द्रष्टव्यम् । X शेषपदार्थ ः अपगतः । व्यचि स्मृसावत् । + सर्वेषां पदानां व्याख्या मितावत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy