________________
१७२
व्यवहारकाण्डम्
संवत्सरादर्वाग्दिनादिनानापक्षास्त्रिपक्षान्ताः पूर्ववत् कार्याणां शक्त्यनुसरणतः सभापतिना व्यवस्थापनीयाः । स्मृच.४२ |
अस्वतन्त्रजडोन्मत्तबालदीक्षितरोगिणाम् । कालं संवत्सरादर्वाक् स्वयमेव यथेप्सितम् ॥ संवत्सरं जडोन्मत्तेऽमनस्के व्याधिपीडिते । दिगन्तरप्रपन्ने च अज्ञातार्थे च वस्तुनि ॥ मूलं वा साक्षिणो वाऽथ परदेशे स्थिता यदा । तत्र कालो भवेत्पुंसामा स्वदेशसमागमात् ॥ दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ॥ "दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा । क्रियास्थित्यनुरूपस्तु देयः कालः परेण तु 11 (१) मूलं धनम् । साक्षिग्रहणं प्रमाणोपलक्षणार्थम् । येषां देशान्तरे धनं प्रमाणं वा साक्ष्यादि विद्यते तेषां पुंसां यावता कालेन तन्मूलधनाद्यानीयते तावत्कालस्तेषां दातुमहीं भवतीत्यर्थः ।
अप. २।१२ व्यक. २७
(२) मूलं विवादास्पदीभूतं धनम् । (३) क्रियास्थिति: कार्यगुरुलाघवस्थितिः। स्मृच.४२
तीते (नीतं ); व्यप्र. १०३; प्रका. २६ स्मृचवत्; समु. २० रमृचवत्; विव्य.६ शत्यब्दे (शाब्दिक ) .
(१) अप. २।१२ कालं ( कालात् ) स्वयमेव ( स्वयमेषां) उत्त.; व्यक. २७; गौमि. १३।२८ लं (ल); स्मृच. ४२ उत्त.; पमा ७० लं (ल: ) नारदः चन्द्र. १०६ स्वतन्त्र ( प्रगल्भ ) तवाल (त्तास्वस्थ ) रादवक् (रं देयं) स्वयमेव (देयं चापि ); सी.२२ दीक्षित (क्षुधित) लं (ल); प्रका. २६ उत्त.; समु २० उत्त. (२)स्मृच.४२; पमा. ७०; प्रका. २६ न्तर (न्तरे); समु. २०. (३) अप. २।१२ मास्वदे.. तू (स्वदेशे दातुमासमात् ); व्यक. २७ मास्वदे... तू (स्वदेशे वक्तुमागमात् ); स्मृच.४२; पमा ७० देशे (देश); व्यसौ. २२ ऽथ (ऽपि ) दा (दि); व्यप्र.१०३ (तत्कालो हि भवेत्पुंसां स्वदेशे वक्तुमागमात् ); प्रका. २६ दा (दि); समु. २१.
(४) पमा. ७१; व्यनि.; प्रका. २७ यं (यः); समु. २१ यं ( य:) प्रजापति: .
(५) अप. २।१२; व्यक. २७ मासौ (मासं); स्मृच.४२; व्यसौ. २२ दिनं (दिन) सौ वा (सौ तु) पि वा (थवा ); व्यप्र. १०३ मासौ (मासं); प्रका. २६३ समु. २१ रूपस्तु (रूपश्च ) परेण (नृपेण).
(४) मूलशब्देन विवादास्पदीभूतधनममुष्मात्पुरुषालब्धमिति वादी यं कथयति स उच्यते । तत्र विषये पुंसां मूलभूतानां साक्षिणां वा । स्वदेशे आगमात् आगमनावधि । वक्तुं उत्तरं दातुं कालो देयो भवेत् दातव्य इत्यर्थः ।
व्यप्र. १०३
नियत कालातिपातकृद्वादिदोषापवादविचारः 'संवत्सरं प्रतीक्ष्योऽथ जडो व्याधिप्रपीडितः । दिगन्तरान् गच्छति चेद् वस्तुष्वकृतनिर्णयः ॥ आचारद्रव्यदानेष्टकृत्योपस्थाननिर्णये । नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥ दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ।। देवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैम्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ॥ 'यो वा यस्मिन् समाचारः पारम्पर्यक्रमागतः । तं परीक्ष्य यथान्यायमुत्तरं दापयेन्नृपः ॥ यस्मिन् देशकुलादौ ।
Xव्यक. २७
उत्तरदापनोपायाः
यथार्थमुत्तरं दद्यादयच्छन्तं च दापयेत् । सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ।। प्रतिज्ञोत्तरलखोत्तरमपि उभयवाद्युक्तविशेषो विचारकालेऽवधार्यः मोहाद्वा यदि वा शाठयाद्यन्नोक्तं पूर्ववादिना ।
X व्यप्र. व्यकवत् ।
(१) व्यनि. ( बालो वा ह्यमनस्को वा जाड्यो वा व्याधिपीडितः) चेद् (यो); व्यसौ. २३; प्रका. २७ प्रतीक्ष्योऽथ ( वाऽमनस्को); समु २१ पूर्वार्ध प्रकावत्, निर्णयः (निश्चयः). ( २ ) व्यमा. २९९ (३) व्यमा २९९ अवधि ( अबाध). (४) व्यमा. २९९; व्यत. २०३ ( = ) दैवराज ( राजदैव) नस्य (नस्तु) ण्डो (ण्डयो); (प्यश्च ) शेषं व्यतवत् .
सेतु. १०२-१०३ प्यस्तु
(५) अप. २ । १२; व्यक. २७१ स्मृच.४२ यो वा ( यावान् ) परी (प्रती); सवि. ९२ स्मृचवत् व्यसौ. २२ परी (प्रती); व्यप्र. १०३ उत्तरं दापयेत् (दापयेदुत्तरं ); प्रका. ७९ स्मृचवत्; समु.२१ स्मृचवत्.
(६) अप. २।७; व्यप्र. ५६ पू.; व्यउ. ३७ पू.
(७) शुनी. ४ । ६४० ऽपि ... भ (तत्प्रश्नैर्ग्राह्यं द्व); अप. २/७ वाsपि (चाsपि); व्यक. ३१; स्मृच. ४०; स्मृसा. ८७ ; व्यचि,