SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १६० पूर्वावेदकस्यार्थिनः संनिधौ समीपे । उत्तरं च यत्पुर्वी क्तस्य निराकरणं तदुच्यते । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । Xमिता (३) परीक्षितपूर्वपक्षस्यैव प्रतिवादिनोत्तरं लेख्यमित्याह याज्ञवल्क्यः - श्रुतेति । स्मृच.४१ (४) लेख्यमिति वाक्यस्याप्युपलक्षणम् । व्यत. २०६ (५) तदेवं भाषास्वरूपे लिखिते च राज्ञा प्रतिवाद्युत्तररूपद्वितीयव्यवहारपादे राज्ञः कृत्यमाह–श्रुतेति । श्रुतो योग्यतयाऽवधारितोऽर्थः श्रुतार्थः, भाषावाक्यम् । तत्सम्बन्धि उत्तरं प्रत्यर्थिकृत्यं पुर्वावेदकस्याऽर्थिनः संनिधौ राज्ञा लेखनीयम् । श्रुतार्थस्येत्यभिधानाद्भाषा भासे मद्विभक्तोऽप्ययमर्जितं धनमर्जकत्वात् मह्यं ददात्वित्यादिरूपमुत्तरं विनैव जय इति द्रष्टव्यम् । वीमि (६) कर्तरि षष्ठी । तेन लेख्यमित्यर्थः । पूर्वावेदकोऽर्थी । पूर्वपक्षादुत्तरत्र उपन्यस्यत इत्युत्तरं पूर्वपक्षो पमर्दकमुच्यते । व्य . ५५ (७) सभ्यैः प्रत्यर्थिना श्रुतस्य भाषार्थस्योत्तरं लेख नीयमित्यर्थः । विता. ६२ व्यवहारकाण्डम् उत्तरे कालदानं, सद्यो विवादविषयाः साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ।। (१) किं पुनः सर्वत्रैव सद्यो व्यवहारनिगीति: ? सत्यम् । एवं युक्तम् । तथापि तु - साहसेत्यादि । निर्वहणमनिरूप्यैव स्वबलावष्टम्भेन सहसा प्रसह्य यत् क्रियते, तत् साहसम् । स्तेयं पारुष्यं च वक्ष्यति । गोवधाद्यभिशापो गोऽभिशापः । गोग्रहणमुदाहरणार्थ, सर्वपशूनां शृङ्गिणां वाऽभिशापः । अत्ययः कालप्रतीक्षणासमर्थं कार्यम् । स्त्रियश्च यत्राभियुज्यन्ते, तत्र काल X अप मितागतम् । "; २४; वीमि व्यप्र. ५४; व्यउ. ३७; व्यम. ७; विता. ६ २; राकौ.३ ९० पूर्वा (सर्वा); प्रका. २५; समु.१९. (१) यास्मृ.२।१२; अपु.२५३।४१-४२ व्यगो (ध्येष्य) याम् (या:) वाद (चार); विश्व. २।१२ याम् (यः) स्मृतः (भवेत् ); मेधा. ८।५६; मिता. व्यमा २९८ याम् (या); अप.; व्यक. २७; मभा. १३ | ३०१ गौभि. १३/३०; स्मृच. ४१; पमा. ७१; स्मृसा. ८५ व्यमावत् ; व्यचि. १६; व्यत. २०२; सवि. ९१; चन्द्र.१०६; व्यसौ.२३ न्यत्रेच्छया ( sन्यत्र बुधैः ) : ३६, वीमि व्यप्र.८१, १०४; विता. ७४; प्रतीक्षणे विरोधात् सद्य एव विवादयेत् । विवादं समापयेदित्यर्थः । अन्यत्र त्वृणादानादौ कालप्रतीक्षणम कार्यम् । ध्रुवाधिकरणेच्छया वा भवति । यथाह नारदः'गहनत्वाद्विवादानां क्षणिकत्वात् स्मृतेरपि । ऋणादिषु हरेत्कालं कामं तत्वबुभुत्सया' इति । विश्व. २।१२ 1 (२) साहसादौ हि चिरमुपेक्ष्यमाणे' परमपराध्नुयात् । अतः सद्यो विवादो विधीयते । न चात्र स्मृत्यादयोऽनुत्तरहेतवः संभवन्ति । साहसादिकारणं हि तदानीमेव राजानं वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्राद्युपहारेण तदुपेक्षायां नाशाशङ्का भवति । साक्षिणस्तत्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशान्तरं गता नामजात्यादिभिर्न विज्ञायन्ते । ततः स्वाभा विकप्रमाणाभावः । किं च ऋणादानादिषु कदाचिदितरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । क्रमेण च संशुद्धौ स्मृतिरुप1 युज्यते तदा कियद्दत्तमिति । साहसकारी तु राज्ञाऽवश्यं निग्रहीतव्य इतरेण संधीयमानोऽपि । तस्मादृणादिषु कालहरणं, साहसादिषु सद्य इति स्थितम् । मेघा.८।५६ (३) ' ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' इति वदतोत्तरपादलेखने कालप्रतीक्षणं दर्शितम् । तत्रापवादमाह साहसेति । साहसं विप्रशस्त्रादिनिमित्तं प्राणिव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं । वक्ष्यमाणलक्षणम् । गौर्दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस्तस्मिन् । द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च । कुलस्त्रियां चारित्र्यविवादे, दास्यां स्वत्वविवादे । विवादयेदुत्तरं दापयेत् सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु । कालः उत्तरदानकालः । इच्छया अर्थिप्रत्यर्थिसभ्यसभापतीनाम् । स्मृतः उक्तः । मिता. 1 (४) सहसा बलेन हठाजनसमक्षं यत्परहिंसादि क्रियते तत्साहसम् । पारुष्यं वचसा कायेन वा परस्य दुःखोत्पादनम् । गोशब्द उपजीव्यद्रव्योपलक्षणार्थः । अभिशापः पापाभिशंसनम् । तस्य पारुष्यान्तर्भावेऽपि सेतु. १०२३ प्रका. २५ समु.२०; विव्य.६. * विता. मितागतम् । १ प. २ नुक्तदे.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy