SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १५८ साध्यसिद्धेः सुखेन कर्तुमशक्यत्वात् । वर्षादीनि पुनविशेषाणि सर्वाणि न सर्वत्रोपयोगीनि । कतिपयैर्विनाऽपि तत्र तत्र साध्यसिद्धिसंभवात् । अतो यत्र येषामुपयोग स्तत्रैव तेषां निवेशनं कार्यम् । नेतरत्रापि । प्रयोजना भावात् । तत्र वर्षादिकालानां वृद्धिमद्धनद्वैगुण्यादिविवादे प्रतिग्रहक्रयाध्यादीनां पौर्वापर्यविवादे चोपयोगः । देशप्रदेशस्थानानां तथा परात्मपूर्वजानेकराजनामधेयानामाहर्तृद्रायककथनस्य च स्थावरविवादेषूपयोगः । साध्याख्याजात्याकारवयसां चौर्यास्वामिविक्रयादावर्थविवादेऽप्युपयोगः प्रमाणसंख्ययोर्मेयतुलिमगणिमादिद्रव्यविवादे प्रतिज्ञालेखावधि: चौर्यादिविवादे चोपयोगः । क्षमालिङ्गानामुपेक्षितस्था- | श्लेषध्वन्यादिगम्यार्थो यत्र । नादिविवादेषूपयोगः । आत्मपीडाया ऋणिकलकविवादादावुपयोग इत्येषा दिक् । एवं चार्थवत्वादिभिः सह वर्षादीनां यथोपयोगं क्वचित् क्वचिन्निवेशनमिति मन्तव्यम् । *स्मृच.३६-३७ (३) मिता. टीका - धर्मो गुणः अल्पाक्षरत्वप्रभूतात्वादिकः तेन संयुक्तम् । अहः प्रतिपदादिर्दिनं वा । वेला प्रातरादिः । देशो मध्यदेशादिः । प्रदेशः क्षेत्रादेः स्थलविशेषः । स्थानं वाराणस्यादि । आवसथो ग्रामादिः, हट्टादिरूपस्थलविशेषो वा । साध्याख्या विवादास्पदीभूतवस्तुनाम । जातिर्ब्राह्मणादिः । आकारो गवाश्वादि * पमा, सवि., व्यउ., व्यम. स्मृचगतम् । व्यवहारकाण्डम् गतो वर्णविशेषः । गृहक्षेत्रादेः संस्थानविशेषश्च । वयः अश्वादेर्वयः प्रमाणम् । साध्यप्रमाणसंख्यावत् साध्यप्रमाणं क्षेत्रादेर्निर्वर्तनादिकम् । संख्या रूपकादीनाम् । आत्मप्रत्यर्थिनामवत् । स्पष्टम् । क्षमालिङ्गात्मपीडावत् । व्याख्यातानि क्षमालिङ्गानि । आहर्ता प्रतिग्रहादिना अधिगन्ता । दायको दाता । कथितावाहर्तृदायकौ यस्मिन्वचने तत्त्वीदृक् । अथवा कथिताहर्तृदायकमिति कथितप्रत्यर्थिसंबन्धमिति यावत् । Xमुबो. २६ +व्यप्र.४७ (४) संक्षिप्तं शब्दाडम्बरशून्यम् । (५) धर्मो ग्रहणताडनादिः । निखिलः संपूर्णो न +विता. ५६ भाषान्यूनातिरिक्तेषु सम्यक्सूक्तेषु कार्यिभिः । पुनः प्रतिसमाधाय शृणुयादुत्तरं ततः । यस्मात्प्रत्यर्थिनारब्धे उत्तरेऽप्यर्थिभाषितम् । उपयोग्यपि नादेयं तस्यावसरवर्जनात् ॥ आरब्धे दत्त इत्यर्थः । दीयमानेऽप्युत्तरे प्रतिसमाधानस्येष्टत्वात् । स्मृच. ४० X शेषं स्मृचगतम् । बाल स्मृतिचन्द्रिकायां, सुबोधिन्यां च गतम् । + शेषं स्मृचगतम् । (१) स्मृच. ४०; प्रका. २४; समु.१९ सूक्ते (सूत्रे). (२) स्मृच. ४०; प्रका. २४; समु.१९.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy