________________
प्रतिज्ञा
एव न भवति । तत्तद्देशे तत्तत्काले च वृद्धिनैयत्याद्देशादिविशेपाऽनिगदे साक्षिणोऽपि निर्णयासंभवात् । तथा चैवंविधस्थले देशादिरपि निवेश्यः । न तु भाषामात्र एव अदृष्टार्थत्वापत्तेः । तदुक्तं स्मृतिसारे ' एतदेशपन्यास एवोपयुक्तः, यथा मुकदेशे एतत्सं ख्याकं धनमनेन गृहीतं तेन तद्देशीयानां साक्षित्वं भवति न तु सर्वत्रेति द्रष्टव्यम् । रत्नाकरेऽपि त्रयाणामुत्तरोत्तरानादेयत्वेऽतिशयेन हेतुत्वं क्वचिद्देशाद्यनादानेऽपि निर्णय द्रव्यसंख्यां विना बाहुल्येनानिर्णयः इयं गौकीताऽनेनातिक्रम्य गृहीतेत्यादौ द्रव्यसंख्यां विना ऽपि भाषा साध्यप्रमाणं विना न कापीत्यर्थः । चन्द्र.१०९ (४) क्रिया प्रमाणम् । मानः साध्यपरिमाणम् । यद्यपि पूर्वोक्तपक्षलक्षणरहितानां पक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थ प्रपञ्चितम् । अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥ (१) अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्गुह दीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थं अभिधेयरहितं कचटतपगजइदवेत्यादि । निष्प्रयोजनं यथायं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरमधीत इत्यादि । असाध्यं यथाऽहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत्साधनासंभवादसाध्यम् । अल्पकालत्वान्न साक्षिसंभवो, लिखितं दुरतोऽपत्वान्न दिव्यमिति । विरुद्धं यथाऽहं मूकेन शप्त इति । परराष्ट्रादिविरुद्धं वा । Xमिता. २६
व्यप्र.४८
* अत्रत्यं स्मृच., व्यप्र. व्याख्यानं बृहस्पतौ न केनचि - दित्यादिशोके (पृ. १४९-१५०) द्रष्टव्यम् ।
X पमा., स्मृसा., चन्द्र, व्यम, विता मितागतम् ।
(१) शुनी. ४ ६ २७ पक्षं राजा ( पक्षाभासं); विश्व. २/६ निराबाधं (सदोपं च ); मिता. २२६ पक्षं राजा ( पक्षाभासं); अप. २१६ मितावत्; स्मृच. ३७; पमा.६१ मितावत्, स्मृत्यन्तरम् ; स्मृसा.८६ नारदः ; व्यनि. विव (विस) शेर्पा मितावत् ; नृप्र. ५-६ मितावत् ; सवि .८८ ( = ) भितावत् ; व्यसौ. १५ अप्र (सुप्र ) द्धं वा (द्धं च ); व्यप्र.४९ मितावत्; व्य. ३५ ( = ) मितावत् ; व्यम. ७ मितावत् स्मृत्यन्तरम्; विता.५८ मितावत् स्मृत्यन्तरम्; प्रका. २२; समु. १७.
१५५
(२) निराबाधो निरुपद्रवः । असाध्योऽशक्यसाधनः । + अप. २१६
(३) विज्ञानयोगिना लोकप्रसिद्धिमपेक्ष्य हेत्वाभासा विवृताः । चन्द्रिकाकारेण तु वचनानुरोधेन व्याख्यातमितीयान् भेदः । + सवि.८८-८९
प्रतिज्ञादोषाः आगमः परिभोगश्च व्युच्छित्तिः प्रार्थना तथा । एतच्चतुष्टयं प्राहुर्भाषादोपास्त्वकारणाः ॥
आगमो धनागमननिमित्तं प्रतिग्रहादि । परिभोगो यथेष्टविनियोगानिवृत्तिः । व्युच्छित्तिः देशविप्लवादिना भोगविच्छित्तिः । प्रार्थना युक्तिभिर्भोगागमकीर्तनम् । एतदागमादिचतुष्टयं भाषागुणा इति प्राहुः । ये पुनरा गमादयोऽकारणाः विना विवेशकारणं भाषायां निविटास्ते भाषादोषा इति प्राहुरित्यर्थः । पितामहः भाषादोषः
स्मृच. ३९
पेरस्परविरुद्धानि यः पदानि निवेशयेत् । विरुद्धपद की भाषा तस्य न सिध्यति ॥ आवेदनविधिः
माकारणमादौ तु सोपपत्ति वदन् नरः । आवेदयेद्विवादार्थी सत्यं जल्पविवर्जितम् ॥ प्रजापतिः प्रतिज्ञालेखनविधिः
* प्रत्यर्थिनोऽग्रतः स्थित्वा वादी पक्षं प्रकल्पयेत् ॥ "निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् । अल्पाक्षरं प्रभूतार्थं निःसंदिग्धं निराकुलम् । द्रव्यसंख्योदयं वेलां क्षमालिङ्गं च लेखयेत् ॥ प्रतिज्ञालेखपूर्वमावेदनविधिः
आवेदयेद्विवादार्थी परेणान्यायपीडितः । कमाकारकमादौ तु सोपपत्तिं वदन्नरः ।।
+ शेषं मितागतम् ।
(१) स्मृच. ३९१ प्रका. २४ व्युच्छित्तिः (व्युत्थिति : ) हारीतः समु.१९.
(२) स्मृच. ३९; व्यप्र. ५१ ( - ); व्यउ. ३६ (= ) उत्त.; प्रका. २४ तस्य (तत्र); समु. १८. (३) समु. १७. ( ४ ) व्यनि. (५) व्यनि.: समु. १७ तृतीयार्धं नास्ति. (६) व्यनि. ;