________________
१४६
तदसंबद्धम् । गृहीतत्वस्य धर्मस्य प्रतिवादिधर्मत्वाभा | वात् अपक्षधर्मत्वापत्तेः । त्वया गृहीतत्वादिति कर्मणि क्तप्रत्ययापत्तेः कर्त्तरि क्तोत्पत्तौ त्वयेति न स्यादभिहिते कर्तरि प्रथमाविधानात्, अनभिहिते च तृतीयास्मर णात् । किञ्चापरिशुद्धत्वे सतीति एतावतैव सिद्धे प्रतिदानादिनिबन्धनेत्यादिबहुतरानर्थपदप्रयोगेऽपि निग्रहः । किञ्च परिशोधनप्रकारासंभवे सति गृहीतत्वस्य हेतुत्वा भिधानात् परिशोधनाभावाद् ग्रहणस्य परभावोऽवगम्यते । न च तथा सति हि ग्रहणे शोधनमशोधनं वा ? न चाsपरिशोधनसामर्थ्यादेव ग्रहणभावावगमो वाच्यः । तद्विपरीतपौर्वापर्याभिधानेनापि वादिनिग्रहात्, तस्मादस्मदुक्तमेव युक्तम् । धारयतीत्यर्थे च सिद्धे तन्मम ददात्विति स्वकीयार्थिताव्यञ्जनाय वक्तव्यम् । शास्त्रकारैश्च साध्यहेतोरभिधानमुक्तं न दृष्टान्तस्य । तत्राऽयमभिप्रायःव्याप्तिदर्शनार्थं हि तदभिधानं निरूपकाश्च शास्त्रादेव हेतोः साध्यनियतत्वमवगतवन्तः इति वृथा तदभिधा नम् । अनियतन्त्वभिहितमनर्थकम् । ऋणग्रहणं न वदन्तीति हेतुज्ञापनं कार्यम् । न च वादिना दृष्टान्तान्तरस्यानुपन्यस्तत्वात् तस्य भङ्गो वाच्यः, पुरुषशक्तिनिरूपणार्थत्वाभावात् व्यवहारस्य भूतानुसरणार्थत्वात्, छलस्य च निरस्यत्वात् तस्माद् दृष्टान्ताभिधानमनर्थकम् । किञ्च कीनाशनर्तकादीनां शास्त्रमविदुषां शास्त्रविरुद्ध भाषिक व्यवहारिणां तद्व्यवहारज्ञैरेवं व्यवहारस्य दृष्टत्वात् दृष्टान्तवचनमपार्थकं व्यवहारानभिशोऽपि न्यायदर्शी सामान्येनैतजानात्येव, यो येषां यादृशो व्यवहारः स तेषां साध्यसाधनमिति न प्रथममेव दृष्टान्ताद्यभिधानम् । किञ्च मह्यमयं धनं दातुमर्हति किम् ? वादिरूपतया दायोचितव्यवहारानियमाश्रयत्वे सति अदत्तधनत्वादिभाषायां तादृव्यवहारापहृतेनोत्तरे दत्ते क्रियाव्यवहारनियमो ज्ञाप्यः । यत्राऽपि शरीरादिपीडया भाषादानं तत्राऽप्ययं दण्डार्होऽनपराद्धे सति कृतपीडत्वा दिति हेतु: । स च सद्रूपो निश्चयरूपो वक्तव्यो न सन्दिग्धरूपः सन्दिग्धत्वेन साध्यसिद्धेरभावात् तदिदमुक्तं 'सत्कारणान्वितं ' हेत्वाभासनिराकरणार्थं सदिति तार्किकंमन्ययोग्लोकमतं तन्नादरणीयम् । आभासस्याकारणत्वात् कारणपदेनैव निरस्तत्वात् । निश्चितपदं च
व्यवहारकाण्डम्
साध्यविशेषणम् । अतस्तन्निश्चितमेव वाच्यं न तु 'धारयति वा' इति । तथा सति हेतुप्रयोगानुपपत्ते: लोकसिद्धं च तद्वाक्यम् । न तु - 'तृणकाष्ठेष्टकासूत्रकिण्व चर्मास्थिवर्मणाम् । हेतिपुष्पफलानां च वृद्धिश्च न निवर्तते ॥ इति बृहस्पतिवचनमवलम्ब्यालोकसिद्धा वृद्धिश्व साध्यतया निर्देश्या, अत एव बृहस्पतिः - 'केवलं शास्त्रमाश्रित्य न कर्त व्यो विनिश्चयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते' ॥ युक्तिर्लोकव्यवहारः । नारदोऽप्याह- 'धर्मशास्त्रविरोधे च युक्तियुक्तो विधिः स्मृतः । व्यवहारोऽपि बलवान्धर्मस्तेनावहीयते' ॥ तथान्यदप्येवं विजातीयमलोकसिद्धं साध्यमनिर्देश्यं यथा पौर्णमासीषु दक्षिणा द्वैगुण्यमित्यादिकम् । अल्पाक्षरवत्वं च यावद्भिरक्षरैर्द्धमिसाध्यहेतूनां तदनुगुणानां च देशकालानामुपलम्भो भवति तावन्मात्रस्य प्रयोगः । एतावानेव च प्रभूतोऽर्थ इति प्रभूतार्थत्वमुक्तम् । सर्वं चेदमनाकुलं वाच्यम् । आकुलवादे हानिं हृदयगतं भग्नत्वं प्रतिसंदधतां सभ्यानां मतिरपि तथैव चरतीति विरोधिप्रतिषेधक इत्युक्तम् । तथा हिन या गृहीतमृणमित्यग्रहणाभिधानेन प्रतिषिध्यति, परिशुद्धमिति च परिशुद्धत्वाभिधानेन याच्यमानोऽपि धनं न ददाति न च मया सह न्यायं करोति महता प्रतियत्नेन इदानीं न्यायार्थमुपस्थित इति वृत्तत्वेऽपि वा न्यायस्य, तत्वतो न तन्निरूपितमिति सर्वमिदं वचनं प्राङ् न्यायोत्तरप्रतिषेधकं भवति । अथवा - 'आढ्यस्य निकटस्थस्य यच्छक्तेन नं याचितम् । शुद्धं तु शङ्कया तत्र पत्र दुर्बलतामियात् ॥ इति वचनबलादुत्तरवचनस्य संभाव्यमानस्य प्रतिरोधकं यथा भवति तथा वक्तव्यम् । यन्मया चिरं देशान्तरस्थितत्वान्न प्रार्थितं बहुजनाध्यक्षं वा निरन्तरं प्रार्थितम् मया तत् पित्रा वा यदृणं दत्तं, एतावत्कालपर्यन्तं ज्ञातुः पुत्रस्य व्यवस्थानवज्ञानात् मया न याचितम् इदानीं तु पुत्रादिना ज्ञातं यहणं, तेनायमर्थो भवति सर्वथा यावत्प्रकारमुत्तरं भवति तन्नि पेपक्षो निर्देश्य इति विरोधिप्रतिषेधक इत्युक्तम् ।
3
व्यमा. २९१-२९४
(२) प्रतिज्ञादोषो यथा, प्रत्यक्षादिप्रमाणविरोधो यथा अनुष्णोऽग्निः । लोकविरोधो यथा अशशी चन्द्रः । स्ववचनविरोधो यथा माता मे वन्ध्या । पिता मे बाल