________________
नारदः प्रतिज्ञाप्रशंसा
प्रतिज्ञा
सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्वान ही वादी तरंस्तामुत्तरो भवेत् ॥
(१) अत्र सर्वेषामपि व्यवहाराणां सारभूता प्रतिज्ञा समुदाहृता । सा च प्रतिज्ञा विचार्या । पण एव तावप्रतिज्ञा न भवति तस्य श्लोकद्वयेन निर्लोचितत्वात् । पुनरुक्तदोषसंभवाच्च । ततः प्रतिज्ञां केचिच्छरीरनिग्रहोपन्यासं वदन्ति । यस्य किल धनपणो न संभवति स व्यवहारे रोषान्धत्वादेवमपि वदति, यथा - यद्यहं हारयामि, तदा मम हस्तोऽपगच्छति पादो वा, मम प्रतिज्ञेयम् । तदिदमपि वचनं प्रतिज्ञा । यतोऽत्र श्लोके एतदुक्तम्- 'तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ' । तद्यदि हस्तखण्डनं न करोति हस्तखण्डनं प्रतिज्ञामुदिश्य न करोति न खण्डयति, तत्किम् ? तत्प्रतिज्ञातं हानौ हीयते वादी लभ्यद्रव्यं न लभते, किंवा हस्तखण्डने कृते तरंस्तामुत्तरो भवेदिति । अस्मादर्थात् 1 · प्रमाणक्रियाभिः अधरीकृतमपि द्रव्यमसौ लभते । यत एतदुभयथाप्यनर्थकम् । तत एवेयमपि प्रतिज्ञा न भवति । प्रतिज्ञा चाऽत्रेयम् । यद्धनिकस्य क्वचिदनागत1 मेव द्रव्यप्रार्थनां कुर्वतः ऋणिकेन स्वल्पद्रव्यभुक्तिरपि कृता । अथवा, कस्मिंश्चित्प्रदेशे स्थितेन वाचैव क्वचि दीदशं प्रतिपन्नमासीत् यथा प्रयच्छामि, तच्च द्रव्यमहं यदि पालयित्वा गृह्णामि, इत्यादिद्रव्यसंप्रतिपत्यं चलं दर्शयित्वाऽपि यदा खरं गृहीतेन धर्माधिकरणाग्रे मिथ्या कृता भवति, धनिकोऽपि तदेव प्रदेशोद्देशपूर्वकं संप्रतिपत्यं चलं द्रव्यसिद्धेः प्रतिज्ञाय दिव्येनाऽधिष्ठितो भवति, तदा सैव संप्रतिपत्यचलत्वसिद्धिप्रतिज्ञा, दिव्येनावान्तरसाध्यमानवादिनो मूलिकलभ्यद्रव्यस्य साधका भवन्तीति । इयमीदृशोदाहरणा प्रतिज्ञा सर्वव्यवहारा
(१) नासं. ११६; नास्मृ. ११६; अभा. ५१ विश्व. २८६
व्यमा. २९२; अप. २१८; व्यक. ३८६ स्मृसा. ८५-८६; व्यचि. १२; व्यनि. ; स्मृचि. ४२; व्यत. २०४; चन्द्र. १०७; ब्यसौ.३६; ब्यप्र.५४,८६; सेतु. १०३; प्रका. २४ द्धानौ (द्धीनो); समु.१९ प्रकावत् ; विव्य५ तरंस्तामुत्तरो भवेत् (तस्यामेवोत्तरं वदेत्).
१३९
णामपि सारभूता भवतीति । 'तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेदित्यादिषु सार्विक मिदमिति । तथा चोक्तम्- 'यत्र वादी क्रियाकाले सर्वसिद्धिमुदीरयेत् । दिव्येन तां खरीकुर्वन् सा प्रतिज्ञा प्रकीर्तिता ॥ अभा. ५-६
१
(२) अत एव च यत्तार्किकैः प्रतिज्ञावचनस्यानङ्गत्वमुक्तं तदपि प्रत्युक्तम् । विश्व. २१८ अप. २१८
(३) प्रतिज्ञामुत्तीर्णो भवेदित्यर्थः । (४) तरन् निर्वाहयन्, उत्तरो विजयवान् । व्यक. ३८ (५) प्रतिज्ञा तावत् ' त्वं मह्यं शतं धारयसि ' इत्येवंरूपा, तस्या हानौ अपरिपूरणे हीयते भज्यते तां तरन् परिपूरयन् उत्तरः श्रेष्ठो भवतीत्यर्थः । व्यचि. १२
(६) प्रधानं व्यवहाराणां प्रतिज्ञोक्ता । तद्धानौ हानिरन्यथाभावः । अन्यथोक्तेऽन्यथाभावे पराजीयते । यथोक्तं ' प्रतिज्ञां निर्वहन् जयति तस्मात् सुपरीक्ष्य प्रतिज्ञा कर्तव्या, तन्मूलत्वात् सर्वस्ये 'ति । नाभा. १/६
T
(७) उत्तरः उत्कृष्टो विजयीति यावत् । यद्यपि न्यायाख्यपञ्चावयववाक्यान्तर्गतं प्रतिज्ञास्वरूपं साध्यधर्मविशिष्टधर्मिवचनमात्रं, तथाप्यत्र 'सत्कारणान्वितम्' इत्युक्तत्वात् सहेतुकसाध्यधर्मविशिष्टधर्मिवचनं प्रतिज्ञेति गम्यते। हेतोश्च पक्षभूताऽधमर्णादिनिष्ठत्वं तदनङ्गीकृतं क्रियापादेन सिध्यतीति ध्येयम् । तथा सति स्थापनानुमानप्रयोग एव प्रतिज्ञा । प्रतिस्थापनानुमानप्रयोग एव चोत्तरमत्र पर्यवस्यति । अत एव स्मृत्युक्ता उभयाभासा यथायथमर्थान्तरमप्यनुयोज्यानुपर्यव योगासिद्धयादिनिग्रहस्थान हेत्वाभासादिष्वेव स्यन्ति । ततश्च त्वं शतं मह्यं धारयसि ऋणत्वेन मत्तो गृहीततावद्धनत्वादिति भाषाशरीरम् । न धारयामि अगृहीतत्वात् प्रतिदत्तत्वाद्वेत्याद्युत्तरशरीरम् । अत्र च न तदनभिज्ञानामप्यर्थिप्रत्यर्थित्वदर्शसाधुशब्दनियमः
एव
नात् । बोधकैस्तु येषां ये शब्दाः प्रसिद्धास्तैरेव भाषादि लेखनीयम् । प्रतिवादिसभ्यादीनां तदनभिज्ञत्वे भाषाद्वयाद्यभिज्ञैस्ते बोधनीया इत्याद्यूह्यम् । अत विष्णुधर्मेऽध्यापनेऽपि साधुशब्दनियमानादर उक्तः । ' संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत्स गुरुः स्मृतः' इति ॥
व्यप्र. ५४