SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ८८ व्यवहारकाण्डम् यतश्चैतदेवं अतश्च भूतमिति । व्यवहारमार्गेणान्यथा क्रियते । तथाचोक्तम्— 'अचोरश्वोरतां प्राप्तो माण्डव्यो व्यवहारत' इति । अतश्च प्रयत्नतो निरा कृतच्छलादिः सत्यैकप्रवणो राजा व्यवहारेषु कृती स्यादित्यर्थः । विश्व. २।१९ (२) एतच्च अर्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयते एव । किञ्च छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद्भूतमपि वस्तुतत्वमपि अनुपन्यस्तमनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कर्तव्यम् । यथा अर्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायैः । तथा सति साक्ष्यादिनैरपेक्ष्येणैव निर्णयो भवति । अथ सर्वथाऽपि भूतानुसरणं न शक्यते कर्तुं तथा सति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्- 'भूतच्छलानुसारित्वाद्विगतिः समुदाहृतः । भूतं तत्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारी त्वनुकल्पः | साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्वमुसरणं भवति कदाचिन्न भवति । साक्ष्यादीनां व्यभि चारस्यापि संभवात् । मिता. २१९,२।१९ (३) वादिना प्रतिवादिना वाऽभिधीयमानं छलं प्रमादं वा परित्यज्य भूतेन तात्विकेनार्थेन विशिष्टान् व्यवहारान्नयेन्निर्णयेत् । यतो भूतमपि वस्तु वादिप्रति घादिभ्यामनुपन्यस्तमनिवेदितं व्यवहारतो व्यवहारेण ते त्यज्यते । X अप. (४) भूतेन तत्वार्थसंबन्धेन सामादिभिरुपायैर्ययार्थवादिना दिनादिरूपेण स्वव्यापारेण परव्यापारेण वा छलरूपमुक्तं निरस्य नृपो व्यवहारान्नयेत् निर्णयरूपे स्वफले प्रापयेत् । कचित्तु छलानुसार्यपि व्यवहारो भवतीत्याह । भूतं तत्वार्थसंबन्धमपि साक्ष्यादिकं जयावधारणात्प्रागनुपन्यस्तं व्यवहारे कर्तव्ये हीयतेऽसाधकं भवति । तत्र च छलानुसार्येव व्यवहारः । भूतमप्यनुपन्यस्तमित्यनेन सर्वे भूतार्थाननुसारित्वेन x शेषं मितावत् । * स्मृच, विता. मितावत् । शास्त्रलोकसिद्धाः व्यापारा उपलक्ष्यन्ते । तत्र शास्त्रसिद्धव्यापारो यथा—‘क्रियां बलवतीं त्यक्त्वा दुर्बलां यः समाश्रयेत् । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयाक्रियाम् ॥' निर्णीतव्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो भुक्तिः पूर्वमावेदितं न चेत् ॥ यथा पक्त्रेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णीतव्यवहाराभ्यां प्रमाणमफलं भवेत्' इति । लोकव्यवहारो यथा - ' श्वश्वेदहं न यास्यामि तदा मम पराजयः' इति व्यवस्थादिरिति । वीमि. (५) मिता. टीका - साक्ष्यादिभिरिति । तथा च साक्ष्यादिभिः क्रियमाणेन व्यवहारेण तद्धीयते इत्यर्थः । एतेन भूतमपि वस्तुतत्वमपि साक्ष्यादिभिरनुपन्यस्तं सद्व्यवहारतो हीयते इत्यन्वय इति व्याख्यानमपास्तम् !. भ्रममूलकत्वात् । बाल. नारदः धर्म्यनिर्णयफलम् धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः । संभवन्ति गुणाः सप्त सप्त वन्हरिवार्चिषः । (१) धर्मेण व्यवहारान्पश्यतो राज्ञो यथा वः प्रतापिनः सप्तार्चिषः तथा तस्याऽपि प्रतापाङ्गभूताः सप्तगुणाः संभवन्ति । अभा. ११ (२) उद्धरतः सम्यनिर्णयतः । व्यचि. २ (३) धर्मेण शास्त्रोक्तेन न्यायेन । कृतात्मत्वमनौदासीन्यम् । सम्यग्व्यवहारदर्शननिमित्तैर्गुणैः तस्य स्तुत्या कर्तव्यतोच्यते । नाभा. १।२६ धर्मवश्व कीर्तिच लोकपक्तिरुपग्रहः । प्रजाभ्यो बहुमानं च स्वर्गे स्थानं च शाश्वतम् ।। (१) अथ के के तदुच्यते । तत्र लोकपक्तिः जनानुरागः । उपग्रहः आश्रयणीयत्वम् । अन्यत्सर्व प्रतीतम् । (१) नासं. १।२६; नास्मृ. १ ३२; अभा. ११ बरं (द्वह); व्यमा २७९ संभव (संतन्व); अप. २।१; स्मृच २६; व्यचि. २; प्रका. १५; समु. ११. (२) नासं. १।२७ र्गे (र्ग); नास्मृ. १।३३; अभा. ११६ व्यमा २७९; अप. २११ पक्ति (पङ्क्ति) मानं च (मानश्च ); स्मृच. २६ क्ति (ति) गानं च (मानश्च ); व्यचि. २ मानं च (मानश्च ) प्रका. १५ स्मृचवत् समु. ११ स्मृचवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy