________________
दर्शनविधिः
त्ताचार्यत्वब्राह्मणत्वाद्युत्कर्षमेवादाय तदेकार्थकमेवोचितं न तु तेषामुत्कृष्टाचार्यादिविषयकतया संकोचकम् । 'तपःस्वाध्याय जन्मत' इत्यनेनापि ब्राह्मणत्वादिकृतोत्कर्षस्यैवोपलक्षणात् । किञ्चाततायिवधे दोषाभावस्य स्वोत्कर्षमात्रेणापवादस्तवाभिमतः, गीतास्थितस्य एतत्पदस्य तदुपटम्भकत्वमधमवर्णावध्यत्वमुत्तमवर्णाततायिनो वदतः । तथा च सामान्यतो ब्राह्मणत्वादिपुरस्कारेण तदपवादकवाक्यानामानर्थक्यमेव स्यात् । अस्योपसंहारविषयत्वात् । यत्र हि, मित्रविन्दावत् द्वयोरर्थवत्त्वं तत्र सामान्यस्य विशेष उपसंहारः स्वीक्रियते । अनुत्कृष्टत द्वधे त्वया दोषाभावस्यैवाभ्युपेतत्वात् । 'गुरुं वा' इत्यादिबहुवचसां प्रतिप्रसवविधित्वेन त्वयाभ्युपेतानां कात्यायनीयेकवचोऽनुरोधेनोत्कृष्ट मात्रेणोपलक्षणत्व मानर्थक्याप पर्याय एव । यद्वा गोब्राह्मणत्वादिनिमित्तप्रतिप्रसवे कृते कात्यायनीयमुत्कर्षनिमित्तदोषातिशयप्रतिपादकं भविष्य तीति समस्तवचनसामञ्जस्यसंभवे वचनस्वरसभङ्गाङ्गीकरणं भङ्गया अङ्गीकरणमेव । उत्कृष्टवधनिवृत्तौ फलातिशयोऽप्यस्तु । संयोगपृथक्त्वात् (पूमी. ४ | ३ | ३ ) । तत्रायश्वपदमन्यानर्थक्यप्रसङ्गादविवक्षितमथवा श्रुतं ब्रह्महत्यातरणं तज्जन्यपापक्षय रूपमात्रवधनिवृत्तौ तजन्यपापानुत्प त्तितादात्म्येनोपचर्यते । फलपदं तु पक्षेऽस्मिन् न समञ्जसं निषिद्धनिवृत्तौ पापानुत्पत्तेः फलत्वाभावादिति प्राच्यमेव व्याख्यानं साधीयः । तारतम्येन वाश्वमेधफलमत्रापि भवतीति नान्यानर्थक्यमिति समाधेयम् । किञ्च आततायिब्राह्मणादिवधस्यादोषताप्रतिपादकतया तवाभिमतेषु कात्यायन देवलादिवचनेषु 'अपि वेदान्तगं' 'भ्रूणमपि' इत्यादीनामुत्कर्षप्रतिपादकत्वात् कथमुत्क पदोपपरं कात्यायनीयं 'आततायिनि चोत्कृष्ट इति वचस्तद्विरोधसमाधानसहं स्यात् । यच्च देवलवचनं भवतोदाहृतं - 'उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायि नम् । निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्' इति । भ्रणः - उत्तमब्राह्मणविशेषः । दोषप्रदर्शनं नियमार्थमिति व्याख्यातं च । तदत्यसंबद्धम् । न ह्यातताय्यहनने दोपः कस्यापि संमतः । किन्तु तद्धनने दोषाभावमात्रम् । तस्मादन्यथात्मरक्षणासंभवे तदहनने स्वहत्यैव भ्रूणहत्या इत्यात्मरक्षणविधिप्राप्तानुवादमात्रमेतदिति
तत्र
प्रसज्यत
2
1
८७
व्याख्येयम् । तस्मात् 'आततायिनि चोत्कृष्ट' इत्यादिकात्यायनवचनमस्मदुक्तरीत्या सुमन्तुसंवर्तादिवचः समानार्थतयोत्कर्षप्रयुक्तदोषातिशयपरतया वा वर्णनीयम् । न तु विरोधे व्यवस्थापकतयेत्यलमतिदरं गत्वा ।
मम तु प्रतिभाति । सत्यपि 'गुरुं वा' इत्यादीनां प्रतिप्रसवविधित्वे न तेषामर्थशास्त्रत्वम् । अदृष्टदोषाभावस्याप्यदृष्टत्वेन दृष्टार्थत्वाभावात् । न चात्मरक्षणमात्रार्थत्वेन । तथा सति प्रायश्चित्तप्रसङ्गात् । न चेष्टापत्ति: । 'न तेन ब्रह्महा भवेत्' । ' आततायिन्यदोषोऽन्यत्र गोब्राह्मणात् । गोब्राह्मणं यदा हन्यात् तदा प्रायचित्तं कुर्यात् ' 'पापमेवाश्रयेदस्मान्' इत्यादिषु पापतदभावयोश्च स्पष्टमवगमात् । तस्मात् सर्वमतेऽप्यर्थधर्मशास्त्रविरोधोदाहरणमिदमित्य संगतमेवेत्यलं प्रसक्तानुप्रसक्तविचारप्रपञ्चेन ।
+ व्यप्र. १३- २१
अर्थनिश्चये तकों लेख्यं च उपायः असाक्षिके हते चिन्हैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिन्हकृताद्भयात् ||
छलव्यवहारभूतानुसारिव्यवहारविवेकः
छेलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ (१) व्यवहारो हि नामानृतप्रभवो व्याजैक निबन्धनः । तथा चोक्तं नारदेन - 'धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः ॥ नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तितः । द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः इति । अधर्मप्राधान्यं व्यवहारेष्वित्यर्थः ।
,
+ व्यउ व्यप्रवत् । X व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । * व्यवहारप्रकाशव्याख्यानं निर्णयपादे द्रष्टव्यम् ।
(१) यास्मृ. २।१९; अपु. २५३।४७-४८; विश्व. २।१९; मेधा. ८।४५ तेन (तेषु); मिता : २ । ९ पू.; व्यमा २८९; अप; व्यक.७; स्मृच.११ पू. २५,६८पू., १२० पू. ; पमा. ४०; स्मृसा.८८ रान्नयेन्नृपः (रः प्रवर्तते); व्यचि. २३ पू. ; व्यत. २०५; स्मृचि. ६,३८ स्मृसावत् सवि. ५९ पृ. १२७पू., ४४३ पृ.१ व्यसौ.५ मेधावत् वीमि ; व्यप्र. ६६ पू. : ९८,९९६ विता. १०६६ प्रका. १४१ समु.१०.