________________
८०
व्यवहारकाण्डम्
सामर्थ्याद् राजैव । अत एवोक्तम् — क्रोधलोभविवर्जित इति । समर्थेनापि धर्मशास्त्रानुसारिणा भाव्यम् । न क्रोधादिवशेनान्यथा व्यवहर्तव्यमित्यर्थः । एकत्वेऽपि व्यवहारस्य स्वकीयविशेषापेक्षया बहुवचनम् । यथाह मनुः-‘तेषामाद्यमृणादानम्' (मस्मृ. ८१४ ) इत्यादि । नारदश्च -'चतुष्पादश्चतुर्व्यापी' ( नास्मृ. १८) इत्यादि । विश्व. २।१ (२) अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः। तच्च दुष्टनिग्रहमन्तरेण न संभवति दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति । तद्व्यवहारदर्शनमहरहः कर्तव्यमित्युक्तम् ' व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ' ( यास्मृ. ११३६० ) इति । स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितस्तदभिधानाय द्वितीयोऽध्याय आरभ्यते—व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धि - तया कथनं व्यवहारः । यथा, कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किन्तु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मर्न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशादेषामप्राधान्यम् | ' सहयुक्तेऽप्रधाने' इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम्। यथाह मनुः– ‘अदण्ड्यान्दण्डयन् राजा दड्यांचैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति' (८।१२८) इति । कथम् ? धर्मशास्त्रानुसारेण नार्थशा स्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राऽविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथा च वक्ष्यति —‘निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः' इति (यास्मृ. २।१८६) । क्रोधलोभविवर्जित इति । धर्मशास्त्रानु सारेणेति सिद्धे क्रोधलोभविवर्जित इति वचनमादरार्थम् । क्रोधोऽमर्षः । लोभो लिप्सातिशयः । #मिता.
नृपशब्दार्थों
* दीक. अवतरणिका मितावत् । व्यम मितावत् ।
(३) व्यवहारान् वादिप्रतिवादिनोर्भाषोत्तरक्रियात्मकान्विवादान् नृपो जनपदपरिपालको, विद्वद्भिर्व्यवहारशास्त्रार्थज्ञैर्विप्रैः सहितो लिखितसाक्ष्यादिप्रमाणपुरःसरतया क्रोधलोभादिविचारकदोषगणमपहाय पश्येत् परी - क्षेत । यद्यपि धर्मशास्त्रानुसारितयैव क्रोधादिवर्जनं प्राप्तं, तथाऽपि प्राधान्येन क्रोधादिवर्जनस्य पृथगुपादानम् । न हि क्रोधादिमान् धर्मं शक्नोति व्यवस्थापयितुम् | अतो धर्मशास्त्रोक्तलिखितसाक्ष्यादिप्रमाणगण इव क्रोधादिविरहो नृपवर्ती धर्मव्यवस्थितौ प्रधानं साधनम् ।
मूलश्लोके व्यवहारान्नृपः पश्येदिति ऋषिणा परीक्षापरपर्यायो व्यवहारो व्यवहारपदेनोच्यते । ब्राह्मणानां यद्यपि व्यवहारदर्शनकर्तृत्वं प्रतिपाद्यते तथाऽपि तेषां नाधिकारः किन्तु राज्ञामेव, तद्गामिफलस्मरणात् । तस्मादृत्विजां यथा यागे कर्तृत्वमेवं ब्राह्मणानां व्यवहारदर्शने धर्मशास्त्रानुसारेणेत्युक्तम् ।
अप.
(४) यद्यप्येषां विद्वत्तया, ब्राह्मणत्वबहुत्वाभ्यां, सभायां च साधुत्वेन सभ्येभ्यो न भेदः तथाप्यनियुक्तत्वेन तेभ्यो भेदो व्यवसेयः । ते हि नियुक्ताः ।
धर्मशास्त्रानुसारेणेत्येतदौशनसाद्यर्थशास्त्रानुसारस्य निवृत्यर्थं न पुनर्धर्मशास्त्रान्तर्गतराजनीत्याद्यर्थशास्त्रानु सरणस्यापि । *स्मृच. १४,२४ (५) अत्र व्यवहारशब्दो रूढियोगाभ्यां निर्णयफलकमर्थिप्रत्यर्थिविवादमाचष्टे ।
पमा ६
(६) मिता. टीका - तस्य व्यवहारस्य स्वरूपप्रकारेतिकर्तव्यताऽकाङ्क्षायामुत्तराध्याय आरभ्यते । अथ व्यवहारान्स्वयं पश्येदित्यादिना प्रयोगविधिना साङ्गोपाङ्गो व्यवहारः कर्तव्य इति विहितः पूर्वस्मिन्नध्याये । तत्राङ्गाकाङ्क्षायां तदर्थमुत्तरारम्भ इति । अयमभिप्रायः । अनयोरध्याययोर्हेतुहेतुमद्भावसंलक्षणः संबन्ध इति । व्यवहारान्स्वयं पश्येदित्यनेन पौनरुक्त्यं परिहरति । पश्येदिति । पूर्वोक्तस्यानुवाद इति । अत्रैषा वचनव्यक्तिः । व्यवहारान्स्वयं पश्येदिति यत्तद्वक्ष्यमाणधर्मेण सहेति । तमेव धर्मविशेषमाह - विद्वद्भिर्वेदव्याकरणधर्मशास्त्राभिज्ञैरिति । विद्वद्ब्राह्मण साहित्यरूपधर्मविधानमित्यर्थः । एव धर्म इतिकर्तव्यता नामाङ्गानुष्ठानप्रकारः । एवं च * बिता. स्मृच (पृ.१४) वत् ।
1