________________
दर्शनविधिः
कुष्टो यत् मर्षयति न क्रुध्यति तेन क्षमणेन स्वर्गे महीयते । कण्ड्वादिरयम् । महत्त्वं प्राप्नोति स्वर्गेऽकोपेन । न तर्हि क्षमा कर्तव्या अकामिना अयथाकामिना । अत आह— यस्त्विति । प्रभुरहमित्यभिमानेन न सहते तेन नरकं प्राप्नोति । आर्तग्रहणं बालवृद्धयोरपि प्रदर्शनार्थ पूर्वशेषत्वादस्य । मेधा.
(२) । संतप्तैः आकृष्टो यत्तेषां क्षमते, तेन स्वर्गलोके महीयते महिमानं भजते । यत्पुनः प्रभुत्वदर्पान्न सहते तेन नरकं व्रजति । *गोरा. (३) आर्तैः कार्यालाभाद्दुःखितैः । मवि. अधर्म्यनिर्णयेऽशुभफलम्
स्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ (१) अर्धर्मेण यः कार्याणि कुरुते स मोहादेवेह व्यामूढो धर्मं जह्यात् । तस्येदं अधर्मजं फलम् । विरक्तप्रकृतितया वशे कुर्वन्ति शत्रवः । विरक्ता हि प्रकृतयः क्रुद्धब्ध भीताव मानिताः परैरुपजप्येरंस्ततश्च बहुकृत्य 1. वशे कुर्वन्ति दण्डयन्ति बनन्ति नन्ति राष्ट्रमपहरन्ति चेत्येप वशीकारः । मेधा. (२) यः पुनर्नृपो लोभादिव्यामूढतया अधर्मेण व्यवहारदर्शनादीनि कार्याणि कुरुते तमधर्मपरकृतित्वात् 'क्षिप्रमेव शत्रवश्वासादयन्ति । गोरा. मवि.
(३) मोहात् धर्मो नास्तीति भ्रमात् । धर्म्यनिर्णये शुभफलम् कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ (१) सिन्धवो नद्यो यथा समुद्रमाश्रयन्ति आश्रिता श्वानुरागिण्यस्तन्मय्यो वसन्ति न ततो निवर्तन्ते, एवं कामक्रोधजयाद्राजानं प्रजाः समयोगक्षेमास्तन्मय्यः
* ममु., मच. गोरावत्.
(१) मस्मृ. ८।१७४ शुनी. ४५१० ५११; व्यक. ७८) स्मृच. १२३३ स्मृचि.७; नृप्र. २; व्यसौ. ५१ व्यप्र. १२; प्रका. ७७; समु.६७ (२) मस्मृ. ८।१७५३ शुनी. ४।७७६-७७७; व्यक.५; स्मृच. १२३३ सवि. ५०३ र्थान् (थ); व्यप्र. ९३; प्रका. ७७; समु. ६७.
१ धमें,
७९
संपद्यन्ते ।
मेधा.
(२) यश्च द्वेषपरित्यागेन यो राजा धर्मेण कार्याणि निवारयति तं नद्य इव समुद्र, प्रजाः संभजन्ते तन्मनसश्च भवन्ति ।
गोरा.
(३) अर्थमर्थसाधनं व्यवहारादि ।
मवि.
वाल्मीकि रामायणम् राशा कार्यदर्शनं नोपेक्षणीयम्
पौरकार्यं तु यो राजा न करोति समास्थितः । व्यक्तं स नरके घोरे पच्यते नात्र संशयः ॥ समास्थितः सुस्थितः । अनेन दुःस्थितस्यादर्शने न दोष इति सूचितम् ।
व्यप्र. ९२
याज्ञवल्क्यः
राशो व्यवहारदर्शनविधिः । धर्मशास्त्रावलम्बनम् । क्रोधलोभवर्जनम् ।
व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ (१) श्रियः समुदयं प्राप्तुमिच्छता विजिगीषुणा समृद्धये राज्ञा प्रयत्नाद् अमित्रराज्यानि आच्छिद्य स्वराज्यं विविर्धनीयमित्युक्तम् । तत्रापि, कष्टतमाः खल्वरयः कापटिककुयन्त्र व्यवहारिणो दस्यवः । तेभ्योऽपि राष्ट्रं रक्षणीयमित्येतदप्युक्तम् । अथेदानीं तदुद्धरणप्रकारविवेकार्थं व्यवहारनिरूपणं प्रस्तौति — व्यवहारानिति । ननु चैतत् प्रागेवोक्तम् — 'इति संचिन्त्य नृपतिः' इत्यत्र । सत्यम् । गुणार्थस्त्वयमारम्भः, न कोशसंचिचीषयार्थप्रधानो भवेत् । धर्मशास्त्रानुसारेणैव व्यवहारान् नृपः पश्येदित्यर्थः । किञ्च विद्वद्भिर्ब्रह्मगैः सह । प्रवक्तृत्वेऽपि ब्राह्मणानां नृपसहायोपयोगितैव । द्रष्टा तु निग्रहानुग्रह
(१) शुनी. ४।५०९-५१० र्यं तु (र्याणि समा (सुखे); क. ७ तु (हि); स्मृचि. ७ व्यक्तं स ( स राजा ); चन्द्र. १०४ र्यं तु (र्याणि) शेषं स्मृचिवत्; व्यसौ. ५ समा (सभा) शेषं स्मृचिवत्; व्यप्र. ९२ व्यकवत्.
(२) यास्मृ. २।१३ शुनी. ४।५०६ उत्त; विश्व. २।१६ मिता. अप; व्यक. ४; स्मृच. १४ . : २४; पमा. ६; व्यनि.; स्मृचि. २; नृप्र. २ सारे (रोधे): ५ पू.; सवि. १३,५४,६५६ व्यसौ. १ रान् (रं);वीमि ; व्यप्र. १०:१४ उत्त.; व्यउ. ६; व्यम. २; विता. ३; राकौ. ३८२३ प्रका. ६६ समु. ९.