________________
७८
व्यवहारकाण्डम्
1
पुरुषमात्रेणैतत्कर्तव्यमित्यापतति 1 देशसमाख्याया | नियतनिमित्तत्वाभावेन अनियामकत्वात् । अथैवं वाक्यमनुमीयेत, उदीच्यां जातेन तद्देशवासिना वा । तदपि व्यभिचारि, तज्जातोऽपि नान्यत्र करोति, तन्निवास्यप्यन्यत्र जातो न करोत्येव । अथोदग्देशाभिजनस्तनिवासी चेति अनित्यत्वादभिजन निवासयोस्तदपि न युक्तमेव । न हि जातिगुणगोत्राणीवाभिजन निवासौ नित्यौ । तस्मान्नित्यस्य चै कस्यचिदनुष्ठातृणामवच्छेदकस्यानुपपत्तेः सर्वविषया धर्माः । न देशधर्मा नाम केचन सन्ति । अनेनैव न्यायेन कुलधर्मा अपि । कथं तर्हि 'देशधर्माः कुलधर्मा' इति च स्मृतिकारैर्भेदेन व्यपदिश्यन्ते । उक्तं दृष्टार्था नियता व्यवस्था तत्र धर्मस्तस्य च नियम उपपद्यते इति उक्तम् । कुलं च गोत्रैकदेशः । यस्तु कृत्स्नगोत्रधर्मो यथा न वासिष्ठा वैश्वामित्रमवधीरिति, स नित्यत्वाद्गोत्रव्यपदेशस्य नान्यस्येति विरम्यते(?) । *मेधा. (२) विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिः यच्छास्त्राविरुद्धमासेवितं तद्देशकुलजातीनामनुरूपं कल्पयेत् । इह च सद्भिराचरितमित्युपादानादिदं सदाचारविषयम् । जातिजानपदाद्येतत्पुनः सदाचारव्यतिरिक्तधर्मविषयम् । xगोरा.
(३) सद्भिर्दोषरहितैर्देवादिभिः । तद्वस्तु प्रकल्पयेत् प्रकृष्टं व्यवहारेषु कल्पयेत्, यदि देशाद्यविरोधि । विरोधे तु तद्देशादिधर्म एव तद्देशजानाम् । एवं सामान्यतो राजधर्मा व्यवहाराऽनुगुणा उक्ताः ।
मवि.
(४) विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यद् शास्त्रमनुष्ठितं तद्देशकुलजात्यविरुद्धमादाय निर्णयं प्रकल्पयेत् ।
ममु.
(५) आचरितं शास्त्रदृष्टमप्यनुष्ठितम् । सद्भिरिति द्विजातीनां विशेषणं शूद्रव्यावृत्यर्थम् । धार्मिकैः प्रतिषिद्धवर्जनपुरःसरं धर्मानुष्ठातृभिः । तद्देशकुलजातीनामत्रिरुद्धमेव प्रकल्पयेत् प्रमाणं कुर्यात् कुलधर्मश्चेत्यत्रोतत्वात् ।
दृश्यमानव्यवहार
मच.
* व्यक. मेधावत् । X अत्रत्यो गोराग्रन्थ : त्रुटितस्तथा श्लोकान्तरीयपङ्क्तिसंकर युक्तः प्रकाशकदोषात् । १ भावे. २ चारितवतोऽपि ३ न.
तदनुरूप निर्णयोपायपरिग्रहार्थमशास्त्रीयमपि सद्भिराचरितं धर्ममनुपालयेदित्याह -- सद्भिराचरितं यत्स्यादिति । स्वधर्मनिरता अध्यात्मविदः सन्तः । अविरुद्धं विरुद्धं न चेत् । प्रकल्पयेदनुपालयेत् । नन्द. (७) अविरुद्धं दण्डं प्रकल्पयेत् । क्रुद्धवादिप्रतिवादिकृताधिक्षेपो राज्ञा क्षन्तव्यः क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥
भात्र.
1
(१) कार्यिणोऽर्थिप्रत्यर्थिज्ञातिसुहृदः । कस्मिंश्चिद्धन्यमाने यदि तत्पिता तन्माता वा राजानं क्षिपेत्कुत्सयेत् अभिशपेद् वा तदा क्षमा कार्या । बालादीनां कार्यिणाम् । एवमात्मने हितं कृतं भवति क्षन्तव्यमित्येतद्विधेः फलमेवात्महितम् । मेधा. (२) कार्यवतां क्षिपतां स्तेनहतबान्धवादीनां संतापेन आक्रोशतां बालवृद्धव्याधितानां च आक्रोशतां आत्मने वक्ष्यमाणमुपकारमिच्छता पार्थिवेन सर्वदा क्षमणीयम् । * गोरा.
(३) प्रभुणा शक्तेनापि । कार्यिणां कार्यासिद्धेः मवि. क्षिपतामप्रियं वदतां बालादीनामकार्यिणामपि । (४) राज्ञः स्वतन्त्रस्यापि कार्यविशेषे अस्वातन्त्र्यं सार्थवादमाह - क्षन्तव्यमिति द्वाभ्याम् ।
मच.
(५)स्तेनापहृतद्रव्यैस्तद्द्रव्यप्रत्यानयनकालात्ययादिव तैर्जनैर्यत्पारुष्यमुच्यते तद्राज्ञा क्षन्तव्यमित्यभिप्रायेणाहक्षन्तव्यं प्रभुणेति । प्रभुणा क्षिपतां तेषां निग्रहाय प्रभुणापि ।
नन्द.
यः क्षिप्तो मयत्यार्तैस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ (१) आर्तेर्दण्ड्यमानतत्संबन्धिभिः
अधिक्षिप्त
* ममु. गोरावत् ।
(१) मस्मृ. ८ ३१२; गोरा. र्वता (वंतां) त्मन: (त्मने); व्यक. १९ ता (र्वतां); स्मृच. २९ क्षिप (क्षिय); स्मृचि. ५ व्यकवत् ; दवि. ३८ व्यकवत् ; व्यसौ. १४ व्यकवत् ; प्रका. १८ नारदः; समु. १३.
(२) मस्मृ. ८|३१३; गोरा. यः (यत्); व्यक. १९१ स्मृच.२९ यः (यत्) त्यात (त्पातै) यस्त्वै (यत्वै); स्मृचि: ५ यस्त्वै (यदै); व्यसौ.१४; प्रका. १८ नारदः समु. १३.