________________
दर्शनविधिः
हुताग्नर्ब्राह्मणांश्चार्य प्रविशेत्स शुभां सभाम् ॥ (१) पश्चिमो यामो ब्राह्मो मुहूर्तः । यत आहकृतशौचः समाहितः। हुतानिरिति । न च ब्राह्मे मुहूर्ते होमविधानमस्ति । तदा हि चतुर्मुहूर्तशेषा रात्रिर्भवति । होम व्युष्टायां रात्रौ समाप्य कार्य उपः कल्पत्यागेन । आर्च्य ब्राह्मणान् पूजयित्वा । सभां शुभां मङ्गलवतीम् । प्रविशेत् । मेधा. (२) मुहूर्तमात्रावशिष्टायां रात्रावुत्थाय कृतावश्यकशौचः, संयतमनाः, कृताग्निहोत्रो ब्राह्मणान् पूजयित्वा वास्तुलक्षणोपेतां सभां अमात्यादिदर्शनवेश्म प्रविशेत् । गोरा. (३) अत्र अर्च्य इति असमासेऽपि क्त्वाप्रत्ययस्य ल्यवादेशश्छान्दसत्वादविरुद्धः । प्रविशेत् नृपतिरिति शेषः । स्मृच. १९ (४) रात्रेः पश्चिमे यामे उत्थाय । कृताग्निहोत्रावसध्यहोमः |
+ममु.
देशदृष्टा: शास्त्रदृष्टाश्च हेतवो व्यवहारप्रमाणम् • * तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ प्रत्यहं देशप्रैश्च शास्त्रदृप्रैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ (१) पूर्वेणार्धेन निर्णयहेतवः कथ्यन्ते । उत्तरेण विवादपदसंख्यानिर्देशः। ‘पश्येदिति' पूर्व श्लोकादनुषज्यते कार्याणीति च । प्रत्यहं पश्येत्कार्याणि प्रतिदिवसं ' (गमनेन ) व्यवहारनिर्णयः कर्तव्यः । हेतुभिरिति । हेतुर्निर्णयसाधनम् । स च द्विविधः । प्रमाणरूपो व्यवस्थारूपश्च । तत्र प्रमाणरूपः - अर्थनिर्णयहेतुः साक्ष्यादिः । व्यवस्थारूपः यतोऽसत्येवाऽर्थनिश्वये व्यवहारः संतिष्ठते । यथा सत्यशपथ
+ शेषं गोरावत् । मच ममुवत् । * व्याख्यासंग्रहः स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. ३०) द्रष्टव्यः । स्मृचवत्; प्रका. ११ स्मृचवत्; समु.७ स्मृचवत्.
(१) मस्मृ. ८|३३ व्यक. ३३ स्मृच. २५; पमा. २३,४०; नि. निबद्धानि (व्यवहारान् ); स्मृचि. २६ नृप्र. २; व्यप्र. ९१ ब्यउ. ६; विता. २३ स्त्र (स्त्रा) निबद्धानि ( पश्येत्कार्य); राकौ.
३८२; बाल . २।१; प्रका. ६; समु. १०. १ सगमने.
७१
! उभयानुमतः एकः साक्षी यद्यर्थिप्रत्यर्थिभ्यामभ्युपगतप्रमाणभावः सभ्यैरपरीक्षितोऽपि निर्णयहेतुतां प्रतिपद्यते । न त्वपरीक्षितस्य पुंसो वचनादसत्यातत्ववेदनेऽर्थनिश्चयः । प्राश्निकानामभ्युपगमेऽपि व्यवस्था हेतुर्भवति । सा च व्यवस्था द्विविधा | साधारण्यसाधारणी च । देशभेदाश्रयभेदात्साऽपि द्विविधा | अविरुद्धा विरुद्धा च । अविरुद्धा यथा केषांचिद्दाक्षिणात्यानामपुत्रा स्त्री भर्तर्युपरते सभास्थाणुमुपारोहति । तमुपारूढा अधिकृतैरक्षपराहता कृतलक्षणा ततेः सैवानन्तरं सपिण्डेषु ऋक्थं लभते । तथा उदीचां लभ्यमानां कन्यां याचमानाय भोजनं यदि दीयते, तत इयं तुभ्यं दत्तेत्यनुक्तेऽपि प्रतिश्रुता भवति । विरुद्धा च कचिद्देशे वसन्ते धान्यं युज्यते शरदि द्विगुणं प्रत्यादीयते । तथाऽनुज्ञातभोग आधिर्द्विगुणेऽपि तदुत्थधने प्रविष्ट आ मूलहिरण्यदानाद् भुज्यत एव । एषा हि ‘अशीतिभागं गृह्णीयात्' 'कुसीदवृद्धिद्वैगुण्यं नात्येतीति' (मस्मृ. ८।१५१) विरुद्धा । तत्र भेदाश्रया देशदृष्टहेतुशब्देनाभिहिता । शास्त्रदृष्टास्तु हेतवः शास्त्रे पठितास्ते च केचन शास्त्रकारैः कल्पितव्यवस्थाः केचिद्यथावस्त्ववस्थिता अनूदिताः । तत्र कल्पितव्यवस्था यथा - लेख्यं, यथोपभोगः, साक्षिणश्च । अनुमानं तु वस्तुनियतं 'यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्' (मस्मृ. ८।४४) इति । यद्यपि सर्वे लौकिकं न शास्त्रकारवचनात्प्रमाणं भवति । तथाऽपि लौकिकमेव, तस्मिन् क्वचिच्छास्त्रमाश्रयितव्यम् । या च यदीदृशे चापराध इदं दिव्यं इयता च कालेन भोगः प्रमाणमिति । लौकिकमपि तच्छास्त्रदृष्टमित्युक्तम् । तस्यां च व्यवस्थायां शास्त्रकाराणां मूले संभवति सा प्रमाणम् । या त्वसंभवतन्मूला सा नादरणीया । यथा लेख्यक्रमपाठ: - 'उभयाभ्यर्थितेनैवं मया मुकसूनुना । लिखितं
मुकेनैव लेखकोऽन्ते ततो लिखेत् ॥' इति (यास्मृ. २।८८) यस्यादावेव लेखकः स्वनाम निवेशयेत् - इदं नामाऽहममुष्यपुत्रो लिखामीदमिति न कश्चिद्दोषः स्यात् । स ह्येवमर्थं नाम निवेशयत्यनेनेदं लिखितमिति लेखक उपलक्षितो यथा स्यात् । यदि ह्यसौ लेखकः प्रमाणान्तरेण प्रत्ययितो भवति ततस्तलिखितं प्रमाणम् ।
१ तत्. २कृच्छ्रं. ३ त्प्रामाण्यं. ४ (०). ५ लेख्यकमुपलिखितं.