________________
-४८
व्यवहारकाण्डम्
भूत्वा शेषसभ्यान् स्वावष्टम्भेन निष्प्रभान् कृत्वा रागादिवशादन्यायवादिन एव पक्षपातात् जयं ददाति, ततस्तमेवैकं आत्मशुद्धिपरैः सभ्यैः सूचितं राजा विनयेत् । अथ सर्वेऽपि कृतकोशपानादिसमयस्था एकवाक्यतया अन्यायजयप्रदा भवन्ति, ततः सर्वेऽपि राज्ञा विनेयाः दण्डं प्राह्याः । एकवचनमपि जात्याख्यायां बहुवचनवाचकमेव भवति । यथा संपन्नो यव इति । यथा पको व्रीहिरित्युक्त पक्का व्रीहय इति संबध्यते । अभा. १८
(२) योऽन्यथा वदेत् तं पापमित्येव सिद्धे सभ्योऽ सभ्य इति ब्रवीति । तस्यैतत्प्रयोजनम् - असभ्यार्हेण दण्डेन विनयेदिति । नाभा. ११५८
प्राड्विवाकेन विवादशल्यमुद्धरणीयम् येथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तिभिः । प्राड्विवाकस्तथा शल्यमुद्धरेद्व्यवहारतः ।। (१) यथा नष्टशल्यमदृष्टमपि दुःखोद्धरणीयमपि मिषग्वैद्यः स च विद्वान् शल्योद्धरणप्रयोगकुशल: बहुप्रकारं यन्त्रतन्त्रप्रयोगयुक्तिभिः शल्यमुद्धरेत् । एवमेव प्राड्विवाकः पापशल्यं व्यवहारान्तर्गतमनुपलक्ष्यमपि व्यवहारयुक्तिभिरुद्धरेदिति । (२) व्यवहारेण, बादिप्रतिवादिसाक्षिवचनयुक्तिभिः ।
अभा. ३१
नाभा. ११७८ (३) शल्यं च धर्मस्याधर्ममिश्रणम् । व्यप्र. २४ सभ्यानां मतभेदाभेदकृतौ सशस्यवादनिः शल्यवादी यंत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात् सशल्यः स्यादतोऽ
न्यथा ॥
(१) नासं. १७८३ नास्मृ. ३।१६ युक्तिभिः ( शक्तितः ); अभा. ३१ नास्मृवत्; अप. २। ३ ग्विद्वानु (कायादु) भिः (तः); व्यक. १० अपवत्, नारदद्दारीतौ; स्मृच. १४ विद्वानु (कायादु); पमा २८ अपवत् ; स्मृचि. ३ युक्तिभि: ( शक्तितः ) स्तथा (स्ततः); व्यप्र. २४ अपवत्; प्रका. ६ अपवत् समु. ५. अपवत्.
(२) नासं. १७९; नास्मृ. ३।१७; अभा. ३१; मिता. २९१ स्यादतोऽन्यथा ( त्वन्यथा भवेत् ); व्यक. १५; स्मृच. २१ मितावत् रार. १९ वादः (चार) दतो (दितो); दवि. १६ सभ्यो (सभ्य) दतो (दितो); व्यसौ. ११; व्यउ. ४४ सर्व: (सर्व) शेषं मितावत् ; विता. १२२ निःश (बिश) शेषं
(१) इत्यत्र व्यवहारदर्शनागतोऽपि लोकः सभ्यजनो जनशब्दादवगम्यते । अत्र व्यवहारे निष्पन्ने सर्वे सभ्याः तथा सर्वोऽपि सभ्यजनः साधु तदस्य लोकोऽपि साध्वेतदिति मन्यते जानाति, स एव व्यवहारो निःशल्यो ज्ञेयः । अतोऽन्यथा विपरीतस्वरूपः सशल्य एवाऽवमन्तव्यः । अभा. ३१
(२) सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः - 'यत्र सभ्यो जन' इति । मिता. २।९१ (३) सभ्यानां विप्रतिपत्तौ तु -- 'द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः' ॥ इति साक्ष्युक्तं ज्ञेयम् । विता. १२३
सत्सभालक्षणम्
सा सभा यत्र न सन्ति वृद्धाः । वृद्धा न ते ये न वदन्ति धर्मम् ॥ नासौ धर्मो यत्र नो सत्यमस्ति । न तत्सत्यं यच्छलेनानुविद्धम् ॥
(१) एवमत्र क्रमाक्रमं तारतम्येन छलरहितस्य सत्यस्यैव प्रतिष्ठा दर्शिता इति । एतत्सभालक्षणमभिहितम् । अभा. ३१
(२) न सा सभा । सभामसभेति ब्रुवन् सभाकार्य नास्तीति ब्रवीति । यथा पुत्रेऽपुत्राभिधानम् । न तत्र प्रवेष्टव्यं यस्यां न सन्ति वृद्धाः ज्ञानवृद्धाः, न पलितैः । न हि पलितैर्धर्मः शक्यः परिच्छेत्तुम् । तथा च न हायनैर्न पलितैरित्याद्युक्तम् । तथाभूता अपि नैते वृद्धा ये रागादिना न वदन्ति धर्म न्याय्यम् । नासौ धर्मो यत्र सत्यं नास्ति । सत्याभावे, न भूतं नीयते । सत्यं च तन्न भवति यच्छलेन मिश्रम् । तस्माज्ज्ञा निभी रागादिरहितैः सत्येन धर्ममहिंसद्भिश्छलस्पर्श वर्जयित्वा भूतं द्रष्टव्यमिति । नाभा.. ११८० मितावत्; प्रका. १२ मितावत्; समु.८ मितावत्.
(१) नासं.१।८ ० वृद्धा न ते (न ते वृद्धा) नो(न); नास्मृ. ३ । १८६ अभा. ३१ मभा. १३।१४ नासंवत्; अप. २४ न सा (नासौ) नो (न) व्यासः; व्यक. १५ नासौ धर्मो (धर्म: स नो) नो (न) (सत्यं न तद्यच्छलमभ्युपैति ); स्मृच.२३ नासंवत्; व्यनि नासंवत् व्यसौ. ११ व्यकवत् .