SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ वर्ग: ७ ] भृशं लसनम्, इत्यर्थे यङन्तादः (३।३।१०२) टाप् (४।१।१०२) घञि तु लालसः । स्त्रीनिर्देश आवन्ततासूचनार्थः । 'लालसौतलू (५।१।११९) प्रियता ॥ (२) ॥*॥ हृदयस्य कर्म । युवादि - त्सुक्यतृष्णातिरेकयाच्यासु च द्वयोः' इति विश्व मेदिन्यौ ॥ (१) ध्वादिभ्य इमनिच्–' (५।१।१२२ ) । 'प्रियस्थिर - ' ( ६।४/१५६) इति प्रादेशः । ‘प्रेमाऽस्त्री स्नेहनेर्मणोः ॥ (१) ॥ ॥ | ॥*॥ एकम् 'अतिप्रीतेः ॥ उपाधिर्ना धर्मचिन्ता स्वात् (५।१।१३०) अण् । ‘हृदयस्य हृल्लेख-' ( ६ । ३ । ५० ) इति हृदादेशः ॥ (३) ॥*॥ प्रयणम् । ‘प्रीञ् तर्पणे' (क्र्या० उ० से० ) । मनिन् (३।२।७५) । प्रेम नान्तं क्लीबम् ॥ (४) ॥॥ मेहनम् । 'णिह प्रीतौं' (दि० प० से ० ) | घञ् ( ३।३।१८) । 'स्नेहः प्रेम्णि घृतादिके' ॥ (५) ॥ ॥ पच 'स्नेहस्य' ॥ अथ दोहदम् । इच्छाकाङ्क्षा स्पृहा वाञ्छा लिप्सा मनोरथः २७ कामोऽभिलाषस्तर्षश्च व्याख्यासुधाख्यव्याख्यासमेतः । ) अथेति ॥ दोहमाकर्षं ददाति । 'आतोऽनुप - ' ( ३।२१३ ) इति कः । अयमिच्छामात्रवाच्यपि विशेषेण गर्भिणीच्छायां प्रयुज्यते । ‘दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' इति है मैः ॥ (१) ॥ ॥ एषणम् । इच्छा | 'इच्छा' ( ३।३।१०१ ) इति सूत्रेण इषेः शप्रत्यये निपातितः ॥ ( २ ॥*॥ ' काक्षि वाच्छि इच्छायाम्' (भ्वा० प० से० ) । ‘गुरोश्च-' (३।३।१०३) इत्यः ॥ (३) ॥*॥ ( ७ ) ॥*॥ स्पृह ईप्सायाम्' ( चु० उ० से० ) । मिदादेराकृतिगणत्वादङ् (३।३।१०६ ) ॥ (४) ॥॥ 'ईह चेष्टायाम्' (भ्वा० आ० ठे०)।‘गुरोश्च-' (३।३।१०३) इत्यः । ( 'ई होयमवाञ्छयोः) ॥ (५) ॥*॥ तर्पणम् । 'जितृष पिपासायाम् ' ( दि० प० से० ) । संपदादि क्विप् (वा० ३।३।१०८) । ( तृट् लिप्सायामुदन्यायां स्मरपुभ्यामपि स्त्रियाम् ' ) ॥ ॥ ( टावन्तापि भागुरिमते ) । ( 'तृषा लिप्सातृषोः स्त्रियाम् ' ) इति मेदिनी ॥ ( ६ ) ॥ ॥ धनि (३।३।१८)। 'तर्षो लिप्सोदन्ययोः ॥ ( १२ ) ॥*॥ उमेः सन्नन्तादः ( ३।३।१०२ ) ॥ ( ८ ) ॥ ॥ मन एव रथो - । मनोरथ इव वा ॥ ( ९ ) ॥*॥ कामनम् । 'कमु कान्ती' (भ्वा० आ० से० ) घञ् ( ३।३।१८ ) । 'कामः सरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् ॥ (१०) ॥*॥ अभिलषणम् । 'लष कान्तौ ' ( भ्वा० उ० से० ) । घञ् ( ३।३।१८ ) ॥ ( ११ ) ॥ ॥ द्वादश 'इच्छायाः ' ॥ सोऽत्यर्थ लालसा द्वयोः । इति ॥ सतर्षो महांत् 'लल ईप्सायाम्' (चु० आ० से०)। औणादिकोऽसण्। यद्वा,–“लस कान्तौ ' ( चु० उ० से ० ) । | १--नर्मणि यथा—'विधत्ते मत्तेयं निधुवनविधौ प्रेमकलहम्' इत्यनेकार्थकैरवाकरकौमुदी । मेदिन्यां तु 'हर्षयोः' इत्युपलभ्यते । अत्र तु 'मर्मणोः' इति लिखितमासीत् ॥ २ - 'प्रेम पश्यति भयान्यपदेऽपि' इति भारविः इति मुकुट-बुधमनोहरे ।। ३ - हैमे तु नोपलभ्यते ॥ ४'तृषापि न कृशा मम' इति प्रयोग इति मुकुट-बुधमनोहरे ।। अमर० ११ ८१ उपाधिरिति ॥ समीप आधेः । उपपन्न आधिर्वा । 'उपाधिस्तु धर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मनि' इति हैमः ॥ (१) ॥* ॥ धर्मस्य चिन्ता ॥ ( २ ) ॥॥ द्वे 'धर्मविचारस्य' ॥ पुंस्याधिर्मानसी व्यथा ||२८|| पुंसीति ॥ आधीयते दुःखमनेन । 'डुधाञ्' (जु० उ० अ० ) 'उपसर्गे घोः किः' ( ३।३।९२ ) ( 'आधिर्मनोत व्यसनेऽधिष्ठाने बैन्धकाशयोः' ) ॥ (१) ॥ ॥ एकं 'मनःपीडायाः ॥ स्याच्चिन्ता स्मृतिराध्यानम् स्यादिति॥ चिन्तनम् । 'चिति स्मृत्याम् ' ( चु० प० से ० ) । 'चिन्तिपूजि - ' ( ३।३।१०५ ) इत्यङ् । यत्तु — अप्रय कार्ये 'चिन्तिपूजि -' इत्यविधानं गुणाभावार्थम्, तत्सामर्थ्याण्णिलोपाभावोऽपि इति 'चिन्तया' इत्यपि - इति मुकुटेनोक्तम् । तन्न । 'मिदा' इत्यादौ ङित्वस्य चरितार्थत्वेन 'व्यवधा' इत्यत्रातोलोपार्थत्वेनोत्तरार्थत्वेन सामर्थ्य - विरहात् ॥ (१) ॥ ॥ स्मरणम् । 'स्मृ आध्याने' ( वा०प० अ० )। क्तिन् ( ३।३।९४ ) 'स्मृतिः स्मरणधीच्छासु शास्त्रे' इति हैमः ॥ ( २ ) ॥*॥ उपधीयते ध्यै चिन्तायाम् ' ( भ्वा० प० अ० ) । ल्युट् ( ३।३।११५ ) ॥ (३) ॥*॥ त्रीणि 'स्मरणस्य' ॥ उत्कण्ठोत्कलिके समे । उत्कण्ठेति ॥ ' कठि शोके' (भ्वा० आ० से० ) । उत्क ण्ठनम् । ‘गुरोश्च-' (३।३।१०३) इत्यः ॥ (१) ॥ ॥ उत्कलेः १ - धर्मध्याने यथा - 'विनोपाधिं शास्त्रं तृणतुपसप्रख्यमधुना' ॥ विशेषणे यथा- न ह्युपाधेरुपाधिर्भवति' । कुटुम्बव्यापृते यथा - 'उपाधि बाधन्ते विविधविधिभिर्बान्धवजना:' । छद्मनि यथा- 'चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः" इत्यनेकार्थ करवाकर कौमुदी ॥ २-बन्धको यदधमर्णेनोत्तमर्णस्य भूम्याद्यायत्तं क्रियते । तत्र यथा-'न भोक्तव्यो बलादाधिः' । आशायां यथा - ' धनाधिना धावति जीवलोकः' इत्यनेकार्थकैरवाकर कौमुदी ॥ ३ - स्वस्मिन्नुत्तरत्र च चारितार्थेऽपि मध्ये 'चिन्तिपूजि -' इत्यत्र ङितोऽनुवृत्तिचारितार्थ्याभावात् 'इह किंचित्तपो' इतिवदत्रापि णिलोपाभावसाधकत्वकल्पने बाधकाभावमभिप्रेत्यैव पीयूषबुधमनोहरयोरपि 'चिन्तिया च' इत्युक्तम् । अत एव 'स्याच्चिन्ता चिन्तिया' इति त्रिकाण्डशेष उक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy