SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । ६८ (चु० आ० से० ) । 'गुरोश्च' ( ३।३।१०३ ) इत्यः ॥ ( ८ ) ॥*॥ ''णिदि कुत्सायाम् ' ( स्वा० प० से० ) । 'गुरोश्च' ( ३।३।१०३) इत्यः । ' निन्दा स्यादपवादेऽपि कुत्साया - मपि योषिति ॥ (९) ॥*॥ 'गर्ह गल्ह कुत्सायाम् ' ( भ्वा० आ० से० ) । ल्युट् ( ३।३।११५ ) ॥ (१०) ॥*॥ दश 'निन्दायाः' ॥ पारुष्यमतिवादः स्यात् | पारुष्यमित्यादि ॥ परुषो निष्ठुरभाषी । तस्य भावः पारुष्यम् । ब्राह्मणादित्वात् ( ५।१।१२४ ) व्यञ् । 'पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीर्पतौ ॥ (१) ॥ ॥ अतिक्रम्योतिरतिवादः ॥ (२) ॥* ॥ द्वे 'अप्रियवचसः' ॥ भर्त्सनं त्वपकारगीः । भर्त्सनमित्यादि ॥ अपकारार्था गीः ॥ (१) ॥*॥ ‘भर्त्स तर्ज संतर्जने' ( चु० आ० से० ) । ल्युट् ( ३।३।११५) (२) ॥*॥ द्वे 'चौरोऽसि घातयिष्यामि त्वाम्' इत्यादि ' अपकारार्थ वाक्यस्य' ॥ अनुलापो मुहुर्भाषा अनुलाप इत्यादि ( ३।३।१८ ) ॥ (१) ॥ ॥ ॥ ( २ ) ॥ ॥ द्वे 'वारंवारं ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ य इति ॥ उपालम्भो द्वेधा — गुणाविष्करणपूर्वको निन्दा - पूर्वकश्च । आयो यथा - 'महाकुलीनस्य तव किमुचितमिदम्' । द्वितीयस्तु — ' बन्धकीसुतस्य तवोचितमेवेदम्' इति । तत्र यो द्वितीयः स परिभाषणम् । 'भाष व्यक्तायां वाचि' ( भ्वा० आ० से० ) । ल्युट् ( ३।३।११५ ) ॥*॥ अप्रत्यये ( ३।३।१०२ ) ' परिभाषा' अपि । 'परिभाषाश्च ततो भवि ध्यन्ति' इति 'हेतुमति च' ( ३।१।२६ ) इति सूत्रे भाष्यात् । 'परिभाषणं सनिन्दोपालम्भे नियमेऽपि च ' ( १ ) ॥*॥ एकम् 'सनिन्द भाषणस्य' ॥ | तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । तत्रेति ॥ ‘क्षर संचलने’ (भ्वा० प० से ० ) प्रयोजकण्यन्ताद्युच् (३।३।१०७)। ल्युटि ( ३।३।११५) 'आक्षारणम्' अपि । ' क्षरणाक्षारणाक्रोशाः साभिशापाभिमैथुनाः ' ( इति दुर्गः। ) क्लीबमपि। ‘नीचैमाक्षारणं यः स आक्रोशो मैथुनं प्रति' इति शब्दार्णवः ॥ (१) ॥*॥ परस्त्रीनिमित्तं पुंसः, परपुरुषनिमित्तं स्त्रियाश्च 'आक्रोशनस्य' एकम् ॥ स्यादाभाषणमालापः स्यादिति ॥ आभाषेः (भ्वा० आ० से० ) ल्युट् (३1३1११४) ॥ (१) ॥*॥ 'लप व्यक्तायां वाचि' ( भ्वा०प० से० ) । घञ् ( ३।३।१८ ) ॥ (२) ॥*॥ 'संभाषणस्य' द्वे ॥ प्रलापोऽनर्थकं वचः ॥ १५ ॥ प्रलाप इति ॥ प्रलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ 'प्रयोजनशून्यस्योन्मत्तादिवचनस्य' एकम् ॥ १ - 'नीचम्' इति पुंविहीनस्य संज्ञा - इति मुकुटः ॥ [प्रथमं कण्ड घन् मुहुः पुनः पुनर्भाषणम् । अनुलपनम् । घञ् (३।३।१८) भाषणस्य' ॥ विलापः परिदेवनम् । विलाप इत्यादि ॥ विलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ परिदेवनम् । 'दिवु परिदेवने' ( चु० आ० से ० ) चुरादिः । ल्युट् ( ३।३।११५ ) ॥ ॥ युचि ( ३।३।१०७) 'परिदेवना' अपि ॥ ( २ ) ॥* ॥ द्वे 'अनुशोचनोतेः' ॥ विप्रलापो विरोधोक्तिः विप्रलाप इत्यादि ॥ विरुद्धः प्रलापः । ' विप्रलापो विरुद्धोक्तावनर्थ कवचस्यपि ' इति हैमः ॥ (१) ॥ ॥ विरोधस्य उक्तिः ॥ (२) ॥*॥ द्वे 'अन्योन्यविरुद्धवचनस्य' ॥ संलापो भाषणं मिथः ॥१६॥ संलाप इति ॥ संलपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ मिथोऽन्योन्यं प्रति भाषणम् । आलापस्त्वेकेनापि क्रियते ॥ एकम् 'मिथो भाषणस्य' ॥ सुप्रलापः सुवचनम् सुप्रेत्यादि ॥ सुष्ठु प्रकृष्टं लपनम् । घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'शोभनवचनस्य' ॥ अपलापस्तु निह्नवः । अपलाप इति ॥ अपलपनम् । घञ् ( ३।३।१८ ) 'अपलापः प्रेम्ण्यपह्नवे' ॥ (१) ॥*॥ निहवनम् । 'हुङ् अपनयने ' (अ० आ० अ० ) 'ऋदोरप' ( ३।३।५७) । ( 'निह्नवः स्यादविश्वासेऽपलापे निकृतावपि ' ॥ ( २ ) ॥ ॥ द्वे धार्यमाणे 'न धारयामि' इत्यादि 'निह्नवोक्तेः' ॥ संदेशवाग्वाचिकं स्याद् संदेशेति ॥ संदिश्यते घञ् ( ३।३।१८ ) । संदेशोऽर्थः । तस्य वाक् ॥ (१) ॥*॥ संदिष्टोऽर्थो ययोच्यते सा वाचिकम् । 'वाचो व्याहृतार्थायाम् ' ( ५।४।३५ ) इति ठक् ॥ (२) ॥॥ द्वे 'संदेशवचनस्य' ॥ वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ वाग्भेदा इति ॥ उत्तरे वक्ष्यमाणा वाग्भेदा रुशत्यादयः सम्यगन्ताः ॥ रुशती वागकल्याणी रुशतीति ॥ 'रुश हिंसायाम् ' ( तु० प० अ० ) ताल • व्यान्तस्तौदादिकः । शत्रन्तान्ङीप् । 'आच्छीनयोः-' ( ७|१| ८०) इति नुमो विकल्पः । रुशती हिंस्रा । रुशब् शब्दः । रुशद्वचनम् । मुकुटस्तु ( 'उपती' इति पाठे ) 'उब दाहे ' ( भ्वा० प० से ० ) इत्यस्य शत्रन्तस्य 'उषती' इति रूपमाह ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy