SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ शब्दादिवर्गः ६ ] वेद उच्यते' । शिक्ष्यते ं स्थानादिकमनया । 'शिक्ष विद्योपादाने' (भ्वा० आ० से०) ‘गुरोश्च -' ( ३।३।१०३) इत्यप्रत्ययः ॥*॥ अयते ज्ञायतेऽनेन । 'अगि गतौ' (भ्वा० प० से० ) । घः ( ३।३।११८ ) घञ् ( ३।३।१२१ ) वा ॥ (१) ॥ ॥ एकं 'वेदाङ्गस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ओंकारप्रणवौ समौ । ओंकारेति ॥ अवति । 'अवतेष्टिलोपश्च' ( उ० १।१४२ ) इति मन्प्रत्ययस्यैव टिलोपः 'ज्वरत्वर - ' ( ६।४।२० ) इत्यूठौ । गुणः ( ७।३।८४ )। ‘वषट्कारः ' (१।२।३५ ) इति लिङ्गात्समुदायादपि कारप्रत्ययः ( वा० ३ | ३|१०८ ) ॥ (१) ॥*॥ प्रणूयते स्तूयते । 'णु स्तुती' (अ० प० अ० ) । 'ऋदोरम्' (३।३।५७) ' उपसर्गात् -' ( ८|४|१४ ) इति णत्वम् ॥ ॥*॥ द्वे 'ॐकारस्य ' ॥ ( २ ) इतिहासः पुरावृत्तम् इतीति ॥ ' इतिह' इति पारम्पर्योपदेशेऽव्ययम् । तदा स्तेऽस्मिन् । ‘आस उपवेशने’ (अ० अ० से० ) । 'हलच' (३।३।१२१ ) इति घञ् ॥ (१) ॥ ॥ पुरावृत्तमाचष्टे पुरावृत्तम् । आख्यानण्यन्तात् ( वा० ३।१।२६ ) पचाद्यच् (३।१।१३४) ॥ (२) ॥ ॥ ' पूर्वाचरितप्रतिपादकग्रन्थस्य' द्वे ॥ उदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥ उदात्तेति ॥ 'उदात्तचानुदात्तश्च स्वरितश्च खरास्त्रयः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः ' । स्वरन्ति शब्दायन्ते । ‘स्वृ शब्दोपतापयोः ' ( वा० प० अ० ) । पचाद्यच् ( ३।१।१३४) । यद्वा, – स्वर्यन्ते अर्था एभिः । 'पुंसि ' ( ३।३।११८ ) इति घः । यद्वा – खेन राजन्ते । 'राजू दीप्तौ' (भ्वा० उ० से०) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति डः । खरा अचः । तद्धर्मत्वादुदात्तादयोऽपि । 'स्वरो नासा समीरे स्यान्मध्यमादित्रिकस्वरे । उदात्तादावादी षड्जादौ च ध्वनौ पुमान्' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ उत् उच्चैरादीयते उच्चार्यते स्म क्तः (३।२।१०२) । 'अच उपसर्गात्तः' ( ७।४।४७ ) । 'उदात्तो दातृमहतोर्हृद्ये च स्वर - भिद्यपि इति हैमः ॥ ॥ एकम् ' स्वराणाम् ' ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । 'आन्वीक्षिकीति ॥ अनु श्रवणोत्तरमीक्षणं परीक्षणम्अन्वीक्षा । सा प्रयोजनमस्याः 'प्रयोजनम्' ( ५|१|१०९ ) इति ठक् ॥ (१) ॥॥ दम्यतेऽनेन । 'दमु उपशमे' ( दि० प० से०)। ‘जमन्ताङ्कुः’ (उ० १।१११ ) दण्डो नीयते बोध्य तेऽनया दण्डनीतिः । क्तिन् ( ३।३।९४ ) यद्वा - दण्डं लयति दण्ड्यान्प्रति प्रापयति । क्तिच् ( ३।३।१७४ ) आन्वीक्षिकीसाहचर्यात्स्त्रीत्वम् ॥ (१) ॥ ॥ एतौ द्वौ क्रमात्तर्कविद्यायां न्यायरूपायाम्, अर्थशास्त्रे च वर्तत । अर्थते गम्यते । 'ऋ अमर० ९ ६५ गतौ' (भ्वा० प० अ० ) । 'उषिकुषि - ' ( उ० २।३) इति थन् । अर्थस्य भूम्यादेः शास्त्रम् । एकैकम् ' दण्डनीतेः ॥ आख्यायिकोपलब्धार्था आख्येति ॥ आचष्टे । 'चक्षिङः ख्याञ्' ( २|४|५४ ) वुल् (३।१।१३३) ॥ (१) ॥ ॥ उपलब्धो ज्ञातोऽर्थो यस्याः सा । एकं 'ज्ञातसत्यार्थभूतायाः कथायाः' ॥ पुराणं पञ्चलक्षणम् ॥५॥ पुराणमिति ॥ पुरा भवम् । ' सायंचिरम् -' ( ४१३१२३ ) इति ट्युट्युलौ । 'पूर्वकालैक -' ( २|१|४९ ) इति सूत्रे निपातनात्तुङभावः । यद्वा - पुरापि नवं पुराणम् । 'पुराणप्रोक्तेषु' (४।३।१०५ ) इति सूत्रे निपातितम् । यद्वा, -पुरा अतीतानागतावर्थावणति । 'अण शब्दे' ( भ्वा० प० से० ) । पचायच् । 'पुराणं पञ्चलक्षणे । पेणे पुंसि, त्रिषु प्रने ' ॥ (१) ॥ ॥ पञ्च लक्षणान्यस्य । 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम्' । क्वचिदिह 'वंशानुचरितं चैव' इति तृतीयपादे पाठान्तरम् ॥ (२) ॥*॥ द्वे ' व्यासादिप्रणीतमत्स्यपुराणादेः' ॥ प्रबन्धकल्पना कथा प्रबन्धेति ॥ प्रबन्धस्य कल्पना रचना स्तोकसत्या ॥ (१) ॥ * ॥ कथ वाक्यप्रबन्धे' ( चु० उ० से० ) । 'चिन्तिपूजिकथि -' ( ३।३।११५ ) इत्यङ् । कथा कादम्बर्यादिः ॥ (२) ॥*॥ द्वे 'कथायाः ' ॥ प्रवल्हिका प्रहेलिका । प्रवेति ॥ प्रवहते आच्छादयति । 'वर्ह वल्ह परिभाषण - हिंसाच्छादनेषु' (भ्वा० आ० से० ) । दन्त्योष्ट्यादिर्हान्तः 'कुन् शिल्पिसंज्ञयो:-' ( उ० २।३२ ) । वुल् ( ३।१।१३३ ) वा ॥ (१) ॥ ॥ प्रलयति अभिप्रायं सूचयति । 'हिल भावकरणे' ( तु० प० से० ) । ण्वुल् ( ३।१।१३३) । 'व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसंबन्धः कथ्यते सा प्रहेलिका ' ॥ ॥ यद्वा, - प्रवल्हतेरिनि ( उ० ४। - ११८ ) प्रवल्हिः, ततः 'कृदिकारात् ' ( ग० ४।१।४५ ) इति ङीष् । उभाभ्यां स्वार्थे कन् । 'प्रहेलिका प्रवल्ही च प्रश्नदूती विपादिका' इत्युत्पलिनी ॥ ( २ ) ॥*॥ द्वे 'दुर्वि - ज्ञानार्थस्य प्रश्नस्य' ॥ स्मृतिस्तु धर्मसंहिता स्मृतिरिति ॥ वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिः । 'स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम् ॥ (१) ॥३॥ धर्मबोधार्थं रचिता संहिता । संपूर्वाद्दधातेः कर्मणि के 'दधातेर्हिः’ (७१७४|४२ ) ॥ ( २ ) ॥*॥ द्वे ' मन्वादिस्मृतेः' ॥ १- हैमकोशे तु पोडशपणस्य पुराणसंज्ञाभिहिता । 'यदाह - पोड शपणः पुराणः पणो भवेत्काकिणीचतुष्केण -' इत्यनेकार्थकैरवा - ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy