SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ प्रथमं काण्डम् भक्षयति कर्तारम् । ‘पा पाने' ( स्वा० प० अ० ) ॥ (३) मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसंमदाः ॥ २४ ॥ ॥*॥ केलयति क्रीडयति विषयेषु । 'किल वैत्यक्रीडनयोः' स्यादानन्दथुरानन्दशर्मशातसुखानि च । ५२ ( तु० प० से० ) । 'किलेर्बुक्च' ( उ० १।५० ) इति टिषच् युगागमश्च । ('किल्बिषं पापरोगयोः । अपराधेऽपि ) ॥ (४) ॥*॥ शुभं कर्म स्यति समाप्तं करोति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप - ' ( ३|२| ३ ) इति कः । पृषोदरादित्वात् ( ६।४।१०९ ) लत्वषत्वे । 'कल्मषं कि ल्बिषे क्लीबं पुंसि स्यान्नरकान्तरे ॥ ( ५ ) ॥॥ कलयति वशीकरोति । ‘कल गतौ, संख्याने ' ( चु० उ० से ० ) । 'नहिकलिभ्य उषच्' (उ० ४।७५) । 'कलुषं त्वाविले पापें ॥ (६) ॥*॥ वृज्यते । 'वृजी वर्जने' (अ० आ० से० ) । ' बृजेः किच्च' ( उ० २।४७) इतीनच् । 'वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु' ॥ (७) ॥*॥ यन्त्यधोऽनेन । एति गच्छति प्रायश्चित्तेनेति वा । ‘इण् गतौ' (अ० प० से० ) । 'इण आगसि' (उ० ४।१९८) इत्यसुन्, नुडागमश्च । ( 'एनः पापापरा - धयोः' ) ॥ ( ८ ) ॥*॥ अङ्घते गच्छति दानादिना । 'अधि 'गती' (भ्वा० आ० अ० ) । पचाद्यच् ( ३।१।१३४ ) आगमशास्त्रस्यानित्यत्वान्न नुम् । 'अघं दुःखे व्यसनैनसोः' इति हैमः ॥ (९) ॥*॥ अमति गच्छति । 'अम गत्यादिषु' (भ्वा० प० से० ) । ‘अमेर्हुक्च' ( उ० ४।२१३ ) इत्यसुन्, हुगागमश्च । यद्वा, -अंहति । 'अहि गतौ' ( भ्वा० प० से० ) । असुन् ( उ० ४।१८९) 'अङ्घः' इति केचित्पठन्ति । तत्र ‘अघि गतौ' ( भ्वा० आ० से० ) धातुर्बोध्यः ॥ (१०) ॥*॥ इणो भावे क्तः (३।३।११४ ) । दुष्टमितं गमनमनेन ॥ (११) ॥*॥ दुष्टं कृतं करणमनेन। 'इदुदुपधस्य - ' ( ८|३|४१ ) इति षः ॥ (१२) ॥*॥ द्वादश 'पापस्य ' ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । । स्यादिति ॥ धरति विश्वम् । 'धृञ् धारणे' (भ्वा० उ० से० ) । ‘अर्तिस्तुसु-’ (उ० १।१४० ) इत्यादिना मन् 'धर्मोsat you आचारे स्वभावोपमयोः क्रतौ । अहिंसो - पनिषन्याये ना धनुर्यमसोमपे ' ॥ (१) ॥*॥ पुनाति । 'पूजो यण् णुग्हखश्च' (उ० ५।१५ ) इति यत् क् हस्वश्च । यद्वा, - पुणति । 'पुण कर्मणि शुभे' ( तु० प० से० ) । 'इगु - पध-' ( ३।१।१३५) इति कः । पुणमर्हति । तत्र साधुर्वा । यत् ( ) ( पुण्यं तु सुन्दरे । सुकृते पावने धर्मे ॥ (२) ॥*॥ अतिशयेन प्रशस्यम् । 'द्विवचन-' ( ५।३।५७) इतीयसुन् । ‘प्रशस्यस्य श्रः’ (५/३/६० ) । 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत् ॥ (३) ॥*॥ सुष्ठु कृतम् प्रादिसमासः (२।२।१८) (‘सुकृतं तु शुमे पुण्ये क्लीबं सुविहिते त्रिषु' ) ॥ (४) ॥*॥ वर्षति फलम् । 'वृषु सेचने' ( भ्वा० प० से०) । इगुपधलक्षणः (३।१।१३५) कः । 'वृषो गव्याखुधर्मयोः पुंराशिमेदयोः शृभ्यां वासके शुक्रलेऽपि च ॥ श्रेष्ठे स्यादुत्तरस्थश्व' इति हैमः (५) ॥*॥ पञ्च 'धर्मस्य ॥ । । ( मुदिति ॥ मोदनम् । मुद् । 'मुद् हर्षे' ( भ्वा० आ० से० ) । संपदादि ( वा० ३।३।१०८ ) ॥ (१) ॥॥ 'प्रीज् तर्पणे' ( क्या० उ० से० ) । भावे क्तिन् ( ३ | ३|९४ ) | ( 'प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ' ) ॥ (२) ॥*॥ 'मदी हर्षे' ( दि० प० से ० ) । 'प्रमदसंमदौ हर्षे' (३|३।६८ ) इत्यप् । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति ॥ (३) ॥॥ ( ७ ) ॥॥ 'हृष तुष्टौ ' ( दि० १० से० ) । घञ् । ३।३।१८ ) ॥ (४) ॥ ॥ प्रमोदामोदौ घञन्तौ । ' आमोदो गन्धहर्षयोः ' ॥ ( ५ ) ॥ ॥ ( ६ ) ॥*॥ 'टुनदि समृद्धौ' ( भ्वा० प० से ० ) । 'द्वितोऽथुच्' ( ३।३।८९) ॥ (८)॥॥ आनन्दो घञन्तः ॥ ( ९ ) ॥ ॥ शृणात्यशुभम् । 'शु हिंसा - याम्' ( क्या० प० से० ) । ' सर्वधातुभ्यो मनिन् ' ( उ० ४११४५ ) । भावे वा ॥ ( १० ) ॥ ॥ श्यति दुःखम् । 'शो तनूकरणे' (दि० प० अ० ) । बाहुलकात्तन् ( उ० ३।८५ ) भावे वा । यत्तु — श्यतेः सौत्रात् - इत्युक्तं मुकुटेन । तन्न । तस्य गणपठितत्वात् । सौत्रस्य तस्यादर्शनात् ॥ ' अनुपसर्गाल्लिम्प-' ( ३।१।१३८ ) इति सूत्रपठितात् 'सातेः ' पचायचि ( ३।१।१३४ ) 'सातम्' देन्त्यादि । यत्तु — सिनो - त्यशुभम् । सातम् । 'षै क्षये' (भ्वा० प० अ० ) - इत्युक्तं मुकुटेन । तन्न । सिनोतीति विगृह्येोक्तधातूपन्यासस्य विरुद्धत्वात् । यदपि स्यति दुःखम् । सातम् । 'षोऽन्तकर्मणि' ( दि० प० अ० ) - इति स्वामिनोक्तम् । तदपि न । स्यतेः क्ते 'द्यतिस्यति' ( ७१४।४० ) इतीत्वप्रसङ्गात् । तत्वधानात् । बाहुलकस्य त्वगतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् ॥ (११) ॥*॥ शोभनानि खान्यनेन । 'सुख, दुःख, तत्क्रियायाम्' (चु० उ० से ० ) । भावेऽच् (३।३।५६ ) वा । ('सुखं शर्मणि नांके च सुखा पुर्यां प्रचेतसः' ) ॥ (१२) ॥*॥ द्वादश 'आनन्दस्य' ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं च ( श्वःश्रेयसमिति ॥ ) श्व आगामि श्रेयोऽत्र । श्वः श्रेयसम् । ‘श्वसो वसीयः श्रेयसः' (५/४/८० ) इत्यच् समा सान्तः । ' श्वःश्रेयसं तु कल्याणे परमात्मनि शर्मणि ॥*॥ श्वोवसीयसमपि बोध्यम् ॥ (१) ॥*॥ शेतेऽनेन । शिवम् । 'शीङ् स्वप्ने' (अ० आ० से० ) । 'सर्वनीघृष्व-' ( उ० १।१५३ ) इति वन्, हखश्च निपातितः । ' शिवं तु मोक्षे क्षेमे सुखे जले । शिवो योगान्तरे वेदे गुग्गुलौ १–तथा च देवीशतके अनुलोमप्रतिलोमयमकम् 'सातं वर्मान - स्थारहसिहरिहर स्थाननर्मावतंसा' इति - मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy