SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ वर्ग: ४ ] । एकयोक्त्या पुष्पवन्तौ दिवाकर निशाकरौ ॥ १० ॥ ( एकयेति ॥ ) 'पुष्प विकसने' (दि० प० से० ) । भावे घन् ( ३।३।१८ ) । पुष्पो विकासः प्रकाशश्च । तद्वन्तौ । मतुप् (५।२।९४)। एकयोक्त्या साधारणवचनेन । प्रत्येकं ‘पुष्पवान्' इति न प्रयोक्तव्यमिति भावः । अकारान्तोऽपि • पुष्पवन्तशब्दः । ‘अव रक्षणे' ( भ्वा० प० से० ) । 'जवि - शिभ्यां झच्' (उ० ३।१२६ ) इति बाहुलकादवतेरपि झच् ‘झोऽन्तः’ (७।१।३ ) । पुष्पस्यावन्तौ इति विग्रहे शकन्ध्वादिः (बा० ६।१।९४) । ‘रविशशिनौ पुष्पवन्ताख्यौ' इति नाममाला । 'पुष्पैवन्ताभ्याम्, पुष्पवन्तयोः' इत्यादि । ( ' पुष्प'दन्तौ पुष्पवन्तावेको त्या शशिभास्करौ' । 'पुष्पदन्तौ च चन्द्रार्कावेोक्त्या' इति हैमतः 'पुष्पदन्तौ' अपि बोध्यौ ) ॥ (१) ॥ ॥ एकम् 'समुच्चितसूर्यचन्द्रयोः' ॥ अष्टादश निमेषास्तु काष्ठा व्याख्यासुधाख्यव्याख्यासमेतः । अष्टादशेति || ' क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम्' इत्यादिशास्त्रसिद्धा निमेषाः । तेऽष्टादश काष्ठा । काशते । ‘हनिकुषि–’ (उ० २।२ ) इति क्थन् । 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्याद्दिशि स्थानमात्रे च काष्ठमाख्यातमिन्द्रिये' इति विश्वः ॥ (१) ॥*॥ एकम् 'काष्ठायाः' ॥ त्रिंशत्तु ताः कला | (त्रिंशदिति ॥ ) ताः काष्ठाः त्रिंशत् कला ॥ कलयति । 'कल संख्याने' (चु० उ० से० ) । पचाद्यच् ( ३|१|१३४ ) । ( 'कला स्यात्कालशिल्पयो: ' ) ॥ (१) ॥ ॥ एकम् 'कलायाः ॥ तास्तु त्रिंशत्क्षणः ( ता इति ॥ ) ताः कलाः । क्षणोति । 'क्षणु हिंसायाम् ' (त० उ० से० ) । अच् ( ३।१।१३४ ) । 'क्षणा : पर्वो - सवेऽपि स्यात्तथा मानेऽप्यनेहसः ' ॥ (१) ॥*॥ एकम् 'क्षणस्य' ॥ ते तु मुहूर्ती द्वादशास्त्रियाम् ॥ ११ ॥ ते त्विति॒ ॥ ते तु क्षणाः ( द्वादश) 'हुर्छा कौटिल्ये' ( वा० प० से ० ) । बाहुलकात् 'अञ्जिघसि -' ( उ० ३।८९ ) १- 'देवताद्वन्द्वे च' (६३।२६) इति नानङ् | तत्र 'आनङ्कृतो द्वन्द्वे ' (६।३।२५) इत्यतो द्वन्द्वग्रहणेऽनुवर्तमाने पुनर्द्वन्द्वग्रहणेन वेदलोकसह - बरितद्वन्द्वस्य ग्रहणात् । यस्य तु द्वन्द्वस्यातथात्वात् । अत एव 'रवि चन्द्रावपि नोपलक्षितौ' इति घटखर्परः - इति मुकुटः ॥ २ - प्राक्प्रत्यकू धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्' इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनात् - इति मुकुटः ॥ ३- अनेकार्थकैरवाकर कौमुद्यां व्याख्यातं च-पुष्पे इव पुष्पे, दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ । यथा च । 'विश्वस्यास्य विलोचने निरयतो यत्पुष्पदन्तौ तमः' इति ॥ ४७ इति तो मुडागमश्च । 'राल्लोपः ' ( ६।४।२१ ) इति छलोपः । 'हलि च' ( ८|२|७७ ) इति दीर्घः । 'लिङ् चोर्ध्वमौहूर्तिके’ ( ३।३।१६४ ) इति निर्देशाद्वा मुहूर्त: ॥ (१) ॥*॥ एकम् 'मुहूर्तस्य' ॥ ते तु त्रिंशदहोरात्रः विति ॥ ते तु मुहूर्ताः । अहश्च रात्रिश्च तयोः समाहारः । 'अहः सर्वैकदेश - ' ( ५/४१८७ ) इत्यच् । 'रात्राह्वाहाः पुंसि ' (२।४।२९ ) । यत्तु - ' अहा सहिता रात्रिः' इति वि ग्रहं प्रदर्य 'अहोरात्र :-' इत्युपन्यस्तं मुकुटेन । तन्न सत्यजभावप्रसङ्गात् । अहः पूर्वाद्वात्रिशब्दाद्वैन्द्व एवाज्विधानातू । 'गणरात्रवदज्' इति दृष्टान्तोऽप्यसंमतः । चकारात्संख्याव्ययादेरप्यज्विधानात् । अत्र तदादित्वाभावात् । यदपि - समाहारे क्लीबमप्यहोरात्रम् - इत्युक्तम् । तदपि न । समाहारेऽपि ' रात्राहाहाः पुंसि' ( २।४।२९ ) इत्यनेन परत्वात्पुंस्त्वविधानात् । यदपि —- वामनलिङ्गानुशासने 'द्विगुरपि पात्रा - यदन्तः' इति नपुंसकत्वेन 'अहोरात्रं द्विरात्रम्' इत्युदाहृतम् - इति संमतिप्रदर्शनं कृतम् । तदपि न । 'रात्रं प्राक्संतदयोगात् ॥ (१) ॥॥ एकम् 'अहोरात्रस्य' ॥ ख्ययान्वितम्' इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य पक्षस्ते दश पञ्च च । ( पक्ष इति ॥ ) तेऽहोरात्राः । पक्ष्यते । 'पक्ष परिग्रहे' (भ्वा०, चु० प० से० ) | कर्मणि घञ् ( ३।३।१९ ) ' पक्षो मासार्थके गेहे पार्श्व साध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः ॥ चुल्लरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः ' ॥ (१) ॥*॥ एकम् 'पक्षस्य ' ॥ पक्षी पूर्वापरौ शुक्लकृष्णौ ( पक्षाविति ॥ ) शुक्लपक्षः पूर्वसंज्ञः ॥ (१) ॥ ॥ कृष्णपक्षोऽपरसंज्ञः॥(१) ॥*॥ क्रमेणैकैकम् ‘शुक्लकृष्णपक्षयोः’॥ मासस्तु तावुभौ ॥१२॥ ( मास इति ॥ ) तौ पक्षौ । मस्यते परिमीयतेऽयम्, अनेन वा । ' मसी परिमाणे ' ( दि० प० से० ) । ( ३ ३ १९ ) । 'हलश्च' ( ३।३।१२१ ) इति वा ॥ (१) ॥॥ एकम् 'मासस्य' ॥ द्वौ मार्गादिमासौ स्यादृतुः द्वाविति ॥ इयर्ति ऋच्छति वा । 'अर्तेश्व - ' ( उ० ११० ७२ ) इति तुः । चात् कित्त्वम् । ( 'ऋतुः स्त्रीकुसुमे मा वसन्तादीषुधारयोः ' ) ॥ ॥ मार्गादीनां युगैर्हेमन्तादीन् वक्ष्यति । तदेकदेशमयनपरिच्छेदार्थमनुवदति — द्वौ द्वाविति ॥ (१) ॥ * ॥ एकम् 'ऋतोः ' ॥ १ - अत एव भाष्ये 'अहर्ग्रहणं द्वन्द्वार्थ द्रष्टव्यम्' इत्युक्तम् ॥ २ - तेऽहोरात्रा इत्युत्तरं 'दश पञ्च' इत्यपि दृश्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy